Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ASHOGAUGUAGE
प्रख्यापनं प्रत्ययन प्रश्नपूर्वः प्रतिग्रहः । याचनाध्ययनं चापि पड्विधो वेदविक्रयः ।। बृहस्पतिस्मृतावुक्तम्-मन्त्रभेदी पृथक्पाकी आदेशी वेदविक्रयी । तरुण्या योषितरत्यागी पञ्चते ब्रह्महाः स्मृताः ॥१॥
___ आदिशन्ति च ये विप्रा नादिष्टाश्च पठन्ति ये । आदेशी पाठकश्चैव द्वावेतौ ब्रह्मघातकौ ॥ २॥
वेदाक्षराणि यावन्ति युज्यन्तेऽर्थस्य कारणात् । तावत्यो ब्रह्महत्यापि वेद विक्रयकारणात् ॥ ३ ॥ सातातपः प्राह-वेदविक्रयनिर्दिष्टं स्त्रीषु यचार्जितं धनम् । न देयं पितृदेवेभ्यो यच्च क्लीवादुपार्जितम् ॥ ४॥ येनस्मृतावुक्तम्-नैतांस्ततो निरीक्षेत चण्डालानन्त्यजान्ववचित् । सुवर्णरतेयिनां चैव वेदविक्रायिणं तथा ॥१॥ उक्तं च मनौ चतुर्थेऽध्याये०-शिल्पेन व्यवहारेण शूद्रपाठैश्च केवलैः । गोभिरश्चैश्च यानश्च कृष्या राजोपसेवनैः ॥ १॥
सत्यानृते नु वाणिज्यं एतैश्चापि स जीवति । सेवावृत्तिः समाख्याता तस्मात्तां परिवर्जयेत् ॥२॥ यमस्मृतौ पुनः पाठः-संवत्सरेण यत्पापं मत्स्याघाती समाप्नुयात् । एकाहेन तदाप्नोति सकृयुक्ते तु लागले ॥१॥
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ २ ॥ उक्तं च मनावेकादशमेऽध्याये
न शूद्रराज्ये निवसेन्नाधर्मिकजनावृते । न षण्डकजनाक्रान्ते नोपमृष्टित्यजेभिः ॥१॥ तदेवं विरुद्धवचनेन सकलपृथिव्यामध्यवरथानं नास्तीति प्रतिपादितम् कि बहुना ? अनेन प्रकारेण चतुर्णा वर्णानां मध्ये बहिष्कृता ब्राह्मणाः, इत्यवसीयते
ब्राह्मणोत्कर्षवादेनात्मानं यः प्रतिपाद्यते । स वक्तव्यः सदा सद्भिर्वेदयुक्तः सुभाषितैः ॥१॥
ASSROOMSASUMARCLX
For Private and Personal Use Only

Page Navigation
1 ... 73 74 75 76