Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
Catalog link: https://jainqq.org/explore/020883/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AKER श्रीहेमचन्द्राचार्यप्रन्थावली. न०५. श्रीहेमचन्द्राचार्यमूरिविरचित वेदाशः श्रीमत्पन्यासश्रीनीतिविजयमहाराजसमुपदिष्ट-पट्टननिवासि 'शा. लहेरचन्द ग्वीमयसमयसपनाया: पट्टनस्थश्रीहेमचन्द्राचार्यसभायाः सेक्रेटरी 'शा. मणिलाल रतनचन्द ' इत्यनेन प्रकाशितः संशोधितश्च श्रावकपण्डितवीरचन्द्रप्रभुदासाभ्यामिति । 'पांचकुवा ' समीपस्थ 'सत्यविजय ' मुद्रणाधिपनि 'शा. मांकलचंद हरिलालेन' मुद्रितम् अहम्मदावादे. विक्रम संवत् १९७४. वीर संवत् २४४४. सन १९१८. प्रत्त २५०. मूल्यम् ०-६-० For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org પ્રાસ્તાવિક. Acharya Shri Kailassagarsuri Gyanmandir આ ગ્રંથની ૧ પ્રત અભને પાટણમાં ફાલીયાવાડાના શાહ હાલાભાઈ મગનલાલ ' ની દેખરેખ નીચેના ભારમાંથી નળી છે. અને કેટલુંક કામ છપાયા પછી મુનિમહારાજશ્રી ‘ ભક્તિ વિજયજી ’ તરફથી એ પ્રતો અમને મળી છે. તેને આધારે આ ગ્રંથ પ્રસિદ્ધ કર્યો છે. આ ગ્રંથનું બીજું નામ ‘ જિવદન ચપેટા ’ છે અથવા તે આવી જાતના એક ગ્રન્થનું નાન · દિન ચપેટા ’ હું ય. અને બીન ગ્રંથનું નામ વેદાંકુશ ' હાય એમ જણાય છે. પણ ભિન્નભિન્ન પ્રતામાં નામની સંકીર્ણતા હોવાથી અમે કં'' નિશ્ચય ઉપર આવી શક્યા નથી. વળી આ ગ્રંથના કર્તા તરીકે શ્રી હેમચંદ્રાચાર્ય અને શ્રીહરિ ભદ્રસૂરિ એમ બે આચાય શ્રીના નામે જોવામાં આવે છે. પાછળ નામ અને કાયમ રાખ્યા છે. ભિન્ન ભિન્ન પ્રતમાં જે મળ્યું તે કાયમ રાખ્યું છે. પાછળના ભાગ બ્રાહ્મણત્વના વિચારથી જુદા પડે છે, તે જુદા ગ્રંથ હોય તેમ જણાય છે. પહેલાનું નામ જિવદન પેટા હોય અને બીજાનું નામ વેદાંકુશ હેાય એમ જણાય છે. આમાં પહેલાના કર્તા પ્રથમ આચાર્યશ્રી જણાય છે અને બીજાના કર્તા બીજા જણાય છે. વળી એક ત્રીજી પણ જિવદન ચપેટા અમારી પાસે પન્યાસજી મહારાજશ્રી નીતિવિજયજી તરથી મળી છે. તે સગ્રહરૂપ નહીં છતાં કા જૈનાચાર્યની કેટલીક સ્વતંત્ર કૃતિ છે. તેમાં પણ શ્રી હેમચંદ્રાચાર્યનું નામ છે. આમાં ખરૂં શું છે ? તે અમે નિર્ણિત કરી શક્યા નથી. વિષયનું સ્વત ંત્ર વિવેચન કરનારા વક્તાને આમાંના વાકયેા પ્રમાણ તરીકે ઉપયેગમાં આવી શકે એવા સંગ્રહરૂપ હોવાથી આ ગ્રન્થને પ્રકાશ ચરિતાય છે. લી શાકા. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir १ आंगिरसस्मृति. २ आत्रेयस्मृति. ३ आदित्यपुराण. ४ आदिपर्व. ५ आयुर्वेद. ६ इतिहास. ७ उत्तरमिमांसा. ८ ऋग्वेद. ९ कात्यायनस्मृति. १० गीता. ११ गोविन्द कीर्तन. १२ चतुर्यारण्यक. १३ तैत्तिरिय आरण्यक. १४ दक्षस्मृति. संग्रहीत ग्रन्थोनी यादी. १५ देव पुराण. १६ धर्मशास्त्र. १७ नगरपुराण. १८ पद्मपुराण. १९ पारासरस्मृति. २० ब्रह्माण्डपुराण. २१ बृहदारण्यक. २२ बृहस्पतिस्मृति. २३ भागवत. २४ मनुस्मृति. २५ मिताक्षरा. २६ मृगेन्द्र पुराण. २७ यजुर्नेद. २८ यमस्मृति. २९ याज्ञवल्क्यस्मृति. ३० वाजसेनेय संहिता. ३१ वाशिष्ठस्मृति. ३२ विवेक विलास. ३३ विष्णुपुराण. ३४ विष्णुभक्तिचन्द्रोदय. ३५ शंखस्मृति. ३६ शिवपुराण. ३७ शुकसंवाद. ३८ श्येनस्मृति. ३९ सामवेद. ४० स्कन्दपुराण. For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्लोक संख्या. __७०५ ७३८ +545459++ ७४६ विपय. १परोपकार. २ धमे. ३ सत्य. .... ४ निन्दा.... ५दया. .... ६दान. .... ७ पात्र. ..... ८ अपात्र.... ९ अतिथि १० शील .... ११ द्विजत्व .... १२ तपः .... १३ कर्म विषयानुक्रमणिका. श्लोक संख्या. विषय. १ १४ भाव .... १७ १५ शौच .... ५१ । १६ चौर्य ६६ १७ देहाशुचि. ७५ १८ दन्तधावन. २४६ १९ क्षमा. २५७ २० मांस. २७३ २१ मध. .... २९२ २२ मधु. ३०८ / २३ मूलक .... ३९९ २४ रात्रिभोजन ४९९ २५ ब्राह्मणत्वसिद्धि. ७५१ ७६० ७६३ ७९९ ८१४ १२४ +S For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir श्रीहेमचन्द्रसूरिविरचितवेदाशः॥ विशेषं विना महाभारतादौ । इतिहाससमुच्चयेश्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥ श्लोकादन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ २॥ पद्मपुराणे-कर्मणा मनसा वाचा सर्वाऽवस्थासु सर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमक्षयम् ॥ ३ ॥ स्कन्दपुराणे-परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां संपदः स्युः पदे पदे ॥ ४ ॥ परोपकृत्या यो धर्मो धर्मो दानाद्धि संभवः । एकत्र तुलितो धात्रा तत्र पूर्वोऽभवद् गुरुः ॥५॥ परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि । नोपकारात्परो धर्मो नाऽपकारादघं परम् ॥ ६॥ तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् । तपोभिरुस्तन्नाप्यमुपकृत्या यदाप्यते ॥ ७॥ विष्णुपुराणे-पुराणं वैष्णवं चैतत्सर्वकिल्विषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपसाधकम् ॥८॥ SS-ACHARIPOCRICIRII For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ARRCAS पाणिनामुपकाराय यदेवेह परत्र च । कर्मणा मनसा वाचा तदेव मतिमान् भजेत् ॥ ९ ॥ पद्मपुराणे-दधीचिना पुरा गीतं श्लोकार्द्ध श्रूयते भुवि । सर्वधर्ममयः सारः सर्वधर्मेषु संयमः ॥१०॥ परोपकारः कर्तव्यः प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्यात्क्रतुशतैरपि ॥ ११ ॥ इतिहासे-न पापं प्रति पापः स्यात् साधुरेव सदा भवेत् । आत्मनैव हतः पापो यः पापं कर्तुमिच्छति ॥ १२ ॥ सुलभाः पुरुषा लोके साधवः साधुकारिषु । असाधुषु पुनः साधुदुर्लभः पुरुषो भुवि ॥ १३ ॥ ते साधवः सुजन्मानस्तैरियं भूषिता मही। अपकारिषु भूतेषु ये भवन्त्युपकारिणः ॥ १४ ॥ दग्धं सोत्रानुदहति हतमेवानुहन्ति च । मृतं मारयते चैव यः पापे पापमाचरेत् ॥ १५ ॥ महामोहहतं पूर्व यो जन्तुं हन्ति निर्णयः । स प्रेत्य नरकं याति नृशंसो मृतमारकः ॥ १६ ॥ अथ धर्म धर्मः श्रुतोपि दृष्टोपि कृतो वा कारितोपि वा । अनुमोदितोपि राजेन्द्र ! पुनात्यासप्तमं कुलम् ॥ १७ ॥ मनुस्मृतौ-नामुत्र सहायार्थ पिता माता च तिष्ठतः । न पुत्रदारं तजातिधर्मस्तिष्ठति केवलम् ॥ १८ ॥ तस्माद्धर्म सहायार्थ नित्यं संचिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ १९॥ इतिहासे-धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः ॥ २० ॥ जीवतः शिलवृत्त्यापि धर्मो यस्य न सीदति । आद्य एव स मन्तव्यो धर्मवित्ता हि साधवः ॥ २१ ॥ भागवतपुराणे तन्महिमा-श्लोकं वा श्लोकपादं वा शृणुयाद्भक्तिभावतः । सर्वपापविनिर्मुक्तो वैष्णवीगतिमाप्नुयात् ॥ २२ ॥ For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RECACANCER CHANNERAL आदित्यपु-यदानमभयं पुण्यं सर्चदानोत्तमोत्तमम् । तस्मात्सा परिहर्तव्या हिंसा सर्वत्र सर्वदा ॥ १३४ ॥ त्रैलोक्यमखिलं हत्वा यत्पापं जायते नृणाम् । शिवालये निहत्यैकमपि तत्पापमाप्नुयात् ॥ १३५ ॥ श्लोकद्वयं पठेद्यस्तु श्लोकमेकमथापि वा । श्रद्धावान् पापकर्मापि स गच्छेत्सवितुः पदम् ॥ १३६ ॥ गीता-पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेप्यहम् । वनस्पतिगतश्चाहं सर्वभूतगतोप्यहम् ॥ १३७ ॥ यो मां सर्वगतं ज्ञात्वा न च हिंस्यात् कदाचन । तस्याहं न प्रणश्यामि स च मां न प्रणश्यति ॥ १३८॥ मिताक्ष-अध्यास्य शयनं यानमासनपादुके तथा । द्विजः पलाशवृक्षस्य त्रिरात्रं तु व्रती भवेत् ॥ १३९ ॥ वटाश्वित्थपत्रेषु कुम्भीतिन्दुकपत्रयोः । कोविदारकदम्बेषु भुक्त्वा चान्द्रायणं चरेत् ॥ १४ ॥ पद्मपु-सच्छायान् फलपुष्पाद्यान् पादपान् पथि रोपितान् । छिन्दन्ति ये नरा मूढास्ते यान्ति नरकं चिरम् ॥ १४१॥ मृगेन्द्रपु-शाखामूले दले पुष्पे फले किञ्जल्कमध्यतः । ये जीवाः सन्ति तद्वर्णस्तेषां वक्तुं न कोयलम् ॥ १४२ ॥ विष्णुपु-सन्ध्या रात्रिरहो भूमिर्गगनं वायुरम्बु च । हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युतः ॥१४३॥ देवा यक्षाः सुराः सिद्धा नागा गन्धर्व किन्नराः । पिशाचा राक्षसाश्चैव मनुष्याः पशवस्तथा ॥ १४४ ॥ पक्षिणः स्थावराश्चैव पिपीलकसरिसृपाः । भूरापोऽग्निर्नभो वायुः शब्दं स्पर्शस्तथा रसः ॥ १४५ ॥ रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणाः । एतेषां परमार्थश्च सर्वमेव त्वमच्युत ! ॥१४३ ॥ किंवाऽत्र बहुनोक्तेन संक्षेपेणैतदुच्यते । देव तिर्यग् मनुष्येषु पुन्नाम्नि भगवान् हरिः ॥ १४७ ॥ स्त्रीनाम्नि लक्ष्मीमैत्रेय ! नानयोर्विद्यते परम् । यद्भुतं यच्च वै भाव्यं पुरुषोत्तम ! तद्भवान् ॥ १४८ ।। RECRUIREE515 For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पदा एवं सर्वेषु भूतेषु भक्तिरव्यभिचारिणी । कर्तव्या पण्डितैात्वा सर्वभूतमय हरिम् ॥ १४९॥ ब्रह्मत्वे सृजते विश्व स्थितौ पालयते नमः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ १५ ॥ सर्वभूतात्मके तात ! जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथाः कुतः ॥ १५१॥ त्वय्यस्ति भगवान् विष्णुमयि चान्यत्र वास्ति स । यतस्ततोऽयं मे मित्रं शत्रुश्चेति पृथक कथम् ॥ १५२॥ एतद्विजानता सर्वं जगत्स्थावरजङ्गमम् । द्रष्टव्यमात्मवद्विष्णुर्यतोऽयं सर्वरूपधृत् ॥१५३॥ एवं ज्ञाते स भगवाननादिपुरुषोत्तमः । प्रसीदतेऽच्युतस्तस्मिन् प्रसन्ने क्लेशसंक्षयः ॥ १५४ ॥ तुर्यारण्यके-सोऽहं नारायणो नाम प्रभुर्वः शाश्वतोऽव्ययः । विधाता सर्वभूतानां संहर्ता च द्विजोत्तमः ॥ १५५ ॥ अहं विष्णुरहं ब्रह्मा शक्रश्चाहं सुराधिपः । अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥ १५६ ॥ ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः । मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ॥ १५७ ॥ कामं क्रोधं च हर्ष च भयं मोहं तथैव च । मामैव विद्धि रूपाणि सर्वथैतानि सत्तमः ॥ १५८ ॥ अहं सर्वेषु भूतेषु भूतात्मा च स्थितः सदा । तमवज्ञाय मां मर्त्यः कुरुतेर्चाविडम्बनाः॥१५९ ॥ यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् । हत्वारों भजते मौढ्यात हतान्येव जुहोति सः ॥ १६॥ द्विषतः परकाये मां मानिनो भिन्नदर्शिनः । भूतेषु बद्धवरस्य न मनः शान्तिमृच्छति ॥ १६१ ॥ अहमुच्च वचैव्यैः क्रिययोपाधिनान्वितैः । नैव तुष्ये चितोर्चायां भूतग्रामावमानिनः ॥ १६२ ॥ अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् । यावन्न देवः स्वहृदि सर्वभूतेष्ववस्थितः ॥ १६३ ॥ भाग For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir EMICRORECORE पूजयेदुपदेष्टारं वस्त्रवित्तविभूषणः । ग्रन्थस्योद्यापने देया गौरुपस्करसंयुता ॥ २३ ॥ श्लोकार्द्र श्लोकपादं वा नित्यं भागवतोद्भवम् । पठेत् शृणोति यो भक्त्या गोसहस्रफलं लभेत् ॥२४॥ यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! । अष्टादशपुराणानां फलमाप्नोति मानवः ॥ २५॥ श्लोकं भागवतं वापि श्लोकार्द्ध पादमेव वा । लिखितं तिष्ठति यस्य गृहे तस्य सदा हरिः ॥ २६॥ तत्र च- कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैधृतः । सत्यं तपो दया दानमिति पादा विभोप ! ।। २७ ॥ अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ।। २८ ॥ विवेकविलासे-एकवर्ण यथा दुग्धं बहुवर्णासु धेनुषु । तथा धर्मस्य वैचित्र्यं तत्त्वमेकं परं पुनः ॥ २९॥ मिताक्षरायां-धर्मार्थ यतमानस्तु न चेच्छन्नातिमानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ३० ॥ मनुस्मृतौ-अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । एतं सामासिकं धर्म चातुर्वण्र्येऽब्रवीन्मनुः ॥ ३१॥ आदिपर्वणि-अहिंसा सत्यवचनं क्षमा वेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धर्मणादपि ॥ ३२॥ अहिंसा परमो धर्मः सर्वप्राणभृतां वरः । तस्मात् प्राणभृतः सर्वान्न हिंस्यात् ब्राह्मणः क्वचित् ॥ ३३ ॥ मिताक्षरायाम-अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ३४॥ ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत यो हि निष्कामो योग्यतां स्वं मनो नयन् ॥ ३५ ॥ विष्णुपुराणे-अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ॥ ३६॥ इतिहासे- अहिंसकाः क्षान्तिपरायणास्तथा मुखेषु दुःखेषु समानबुद्धयः । ऋजुस्वभावा विषयेषु निःस्पृहाः तरन्ति संसारसमुद्रमश्रमम् ॥ ३७ ॥ AMERCESSORRECRUICK H RECRUCROC For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥२॥ ***** KAREENASERECRUAR * अहर्निशं चित्तविनिग्रहे रताः स्वपुत्रदारेष्वपि त्यक्तबुद्धयः । अहंकृतेर्निर्गतचित्तवृत्तयस्तरन्ति संसारसमुद्रमश्रमम् ॥ ३८ ॥ भागवते- वलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिश्र चरमं तमसः पदम् ॥ ३९ ॥ चतुर्थारण्यके-ये नैव विद्यां न तपो न दानं न चापि मूढा नियमे यतन्ते ।। नचाधिगच्छन्ति सुखानि भाग्यास्तेषामयं चैव परश्च नास्ति ॥ ४० ॥ मनुस्मृतौ-पुराणं मानवो धर्मः साङगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥४१॥ कात्यायनस्मृतौ-स्मृतिवाक्यं यो मोहादज्ञानाद्वा सुखेच्छया। अतिक्रमेत पापात्मा महापातकदोषकृत् ॥ ४२ ॥ स्कन्दपुराणे-अष्टादशमु विद्यासु मीमांसा गरीयसी । तोपि तर्कशास्त्राणि पुराण तेभ्य एव च ॥ ४३॥ आदिपर्वणि-चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥ ४४ ॥ महत्वे च गुरुत्वे च ध्रियमाणे यतोऽधिकम् । महत्वाद्धारवत्त्वाच महाभारतमित्यतः ॥४५॥ वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् । नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ ४६ ॥ इतिहासे- तर्कोऽप्रतिष्ठः स्मृतयोऽवभिन्ना नासायषिर्यस्य मतं न भिन्नम् । धर्मस्य तत्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ ४७ ॥ यथा चतुर्भिः कनकं परीक्ष्यते निधर्षणच्छेदनतापताइनैः । *** * २॥ For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ANS इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ १०४॥ भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥१०५॥ इति० युधिष्ठिर उ०--यो रक्षेत्राणिनं ब्रह्मन् ! भयार्त्त शरणागतम् । तस्य पुण्यफलं यत्स्यात् तन्मे ब्रूहि तपोधन ! ॥१०६॥ एकतः क्रतवः सर्वे समग्रवरदक्षिणाम् । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥१०७ ॥ इदमेव पुरा देवस्तु ठया समतोलयन् । प्राणरक्षणमेवेह गौरवेणातिरिच्यते ॥ १०८ ॥ जङ्गमानि च भूतानि स्थावराणि च ये नराः । आत्मवत् परिरक्षन्ति ते यान्ति परमां गतिम् ॥ १०९ ॥ सर्वसत्त्वेषु यदानमेकसत्त्वे च या दया । सर्वसत्त्वमदानाच्च दयैकास्मिन विशिष्यते ॥ ११०॥ चतुःसागरपर्यन्तां यो दद्यात् पृथिवीमिमाम् । अभयं यस्तु भूतेभ्यस्तयोरभयदोऽधिकः ॥१११ ॥ सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्माणिनां दया ॥ ११२॥ दत्तमिष्टं तपस्तप्तं तीर्थसेवा श्रुतं तथा । सर्वाण्यभयदानस्य कलां नार्हन्ति षोडशीम् ॥ ११३ ॥ प्राणिनं वध्यमानं यः स्वशक्तिं समुपेक्षते । स याति नरकं घोरमिति प्राहुर्मनीषिणः ॥ ११४ ॥ लोभाद्वेषाद्भयाद्वापि यस्त्यजेत्शरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ ११५ ॥ शास्त्रेषु निष्कृतिदृष्टा महापातकिनामपि । शरणागतहन्तव्ये न दृष्टा निष्कृतिः क्वचित् ॥ ११६॥ यूकामत्कुणदंशादीन् ये जन्तूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ११७॥ वने वनणाहारा प्राणिनोऽनपराधिनः । हन्तुमिच्छति यो दीनान तं विद्यात्ब्रह्मघातकम् ॥ ११८ ।। W ERS For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पद्मपु RECHAIRMER गोबजे वा वने चापि ग्रामे वा नगरेऽपि वा । योऽग्नि समुत्सृजेत्मृढस्तं विद्यात् ब्रह्मघातकम् ॥ ११९ ॥ आत्मा विष्णुः समस्तानां वासुदेवो जगत्पतिः। तस्मान वैष्णवैः कार्या परहिंसा विशेषतः ॥ १२०॥ पवन्धवालवृद्धानां रोग्यनाथद्ररिद्रिणाम् । ये पुष्णन्ति सदा वैश्य ! ते मोदन्ते सदा दिवम् ॥ १२१ ॥ न देवेनैव दानश्च न तपोभिनवाऽध्वरैः । कथंचित्सद्गतिं यान्ति पुरुषाः प्राणहिंसकाः ॥ १२२ ॥ अहिंसा परमो धर्मः अहिंसैव परं तपः । अहिंसैव परं दानमित्याहुर्मुनयः सदा ॥ १२३ ॥ मशकान्मत्कुणान्देशान् यकादिप्राणिनस्तथा । आत्मौपम्येन रक्षन्ति पुरुषा ये दयालवः ॥ १२४ ॥ तप्ताङ्गारमयःकीलं मार्ग प्रेतां तरङ्गिणीम् । दुर्गतिं च न पश्यन्ति कृतान्तास्यं च ते नराः ॥ १२५ ॥ भूतानि येव हिंसन्ति जलस्थलचराणि च । जीवनाथ च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ १२६ ॥ स्वमांसभोजनास्तत्र पूयशोणितफेनपाः । मज्जन्तश्च वसापके दष्टाः कीटैरयोरदैः ॥ १२७ ॥ परस्परं च खादन्तो ध्वान्ते चान्योन्यघातिनः । वसन्ति कल्पमेकं ते रटन्तो दारुणं भृशम् ॥ १२८ ॥ नरकानिर्गता वैश्य ! स्थावराः स्युश्चिरं तु ते । ततो गच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च ॥ १२९ ॥ पश्चाद्भवन्ति जात्यन्धाः काणाः कुटजाश्च पङ्गवः । दरिद्रा अङ्गहीनाश्च मानुष्याः प्राणिहिंसकाः ॥ १३० ॥ तस्माद्वैश्य ! परद्रोहं कर्मणा मनसा गिरा । लोकद्वयसुखे सुर्यो धर्मज्ञो न समाचरेत् ॥ १३१॥ प्रविशन्ति यथा नद्यः समुद्रमजुवक्रगाः । सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ १३२ ॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं येन भूतेभ्यो दत्तं सर्वसुखावहम् ॥ १३३ ॥ RECEMOREACHECK For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RECRUGREEKRECRUCUORE तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ ४८॥ कथमुत्पद्यते धर्मः कथं धर्मो विवर्द्धते । कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ? ॥४९॥ सत्येनोत्पद्यते धर्मो दयादानेन वर्द्धते । क्षमयाऽवस्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ।। ५०॥ अथ सत्ये मनुस्मृतौ-सत्यं ब्रूयात्मियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयादेष धर्मः सनातनः ॥५१॥ विष्णुपुराणे-तस्मात्सत्यं वदेत्यज्ञो यत् परमीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ।। ५२ ॥ प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥ ५३॥ आदिपर्वणि-पृष्टः साक्षी तु यः साक्ष्यं जानानोप्यन्यथा वदन् । स पूर्वानात्मनः सप्तकुलान्हन्यात्तथापरान् ॥ ५४ ।। यश्च कार्यार्थ तत्त्वज्ञो जानानोपि न भाषते । सोपि तेनैव पापेन लिप्यते नात्र संशयः ॥ ५५ ॥ अश्वमेधसहस्रं तु सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥५६॥ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन् ! समं वा स्यान्नवा समम् ॥ ५७ ॥ नास्ति सत्यात् परो धर्मो न सत्याद्विद्यते परम् । नहि तीव्रतरं किञ्चिदनृतादिह कथ्यते ॥ ५८॥ तुर्यारण्यके-सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः । दुर्जेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः ॥ ५९॥ मनुस्मृतौ-साक्षी दृष्टश्रुतादरद्धि वनार्यसंसदि । अवाङ्नरकमेवैतः प्रेत्य स्वर्गाच हीयते ॥६॥ यावतो बान्धवान् यस्मिन् इन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिञ्शृणु सौम्यानुपूर्वशः ॥ ६१ ॥ For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा-18 5696555555Uk पश्च पश्चनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ६२॥ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूहनृतं वदी ॥ ६३ ॥ शूद्रविक्षत्रियविप्राणां यत्रोक्तेऽर्थे भवेद्वधः । तत्र वक्तव्यमनृतं तद्धि सत्याद्विशिष्यते ॥ ६४ ॥ पद्मपुराणे-वक्ता परुषवाक्यानां मन्तव्यो नरकागतः । सन्देहो न विशां श्रेष्ठ ! पुनर्यास्यति दुर्गतिम् ॥६५॥ अथ निन्दायाम्. आदित्यपुराणे-न पापं पापिनां ब्रूयात् तथा पापमपापिनाम् । सत्येन तुल्यदोषी स्यादसत्येन द्विदोषभाक् ॥ ६६ ॥ मनु०-गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते । कौँ तत्र पिधातव्यो गन्तव्यं च ततोऽन्यतः ॥ ६७ ॥ परिवादात्खरो भवति श्वा वै भवति निन्दकः । परभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ ६८॥ मिता०-स्वगुरूणामधिक्षेपः साधुनिन्दा सुहृत्क्रुधः । ब्रह्महत्यासमं ज्ञेयमधीतस्य च नाशनम् ॥ ६९ ॥ इति०-पिशुनो यश्च लोकानां रन्ध्रान्वेषणतत्परः । उद्वेगजननः क्रूरः संविद्याद् ब्रह्मघातकम् ॥ ७० ॥ द्विषामपि च दोषान् ये न वदन्ति कदाचन । कीर्त्तयन्ति गुणांश्चैव ते नराः स्वर्गगामिनः ॥ ७१ ॥ ये चाभ्यासवशाद्वक्तुं न जानन्ति वचोऽप्रियम् । प्रियवाक्यैकविज्ञानास्ते नराः स्वर्गगामिनः ॥ ७२ ॥ असत्येष्वपि सत्या ये ऋजवोऽनार्जवेष्वपि । रिपुष्वपि हिता ये च ते नराः स्वर्गगामिनः ॥ ७३ ॥ आक्रोशन्तं स्तुवन्तं च तुल्यं पश्यन्ति ये नराः । शान्तात्मानो जितात्मानस्ते नराः स्वर्गगामिनः॥ ७४ ॥ For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir *AUTOROUGH अथ दयायाम् यो दद्यात्काञ्चनं मेरुं कृत्सनां चैव वसुंधराम् । एकस्य जीवितं दद्यात्तत्तुल्यं न युधिष्ठिर ! ॥७५ ।। मार्यमाणस्य हेमादि राज्यं चापि प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥ ७६ ॥ अहिंसा सर्वजीवानां सर्वज्ञैः परिभाषिता । इदं हि मूलं धर्मस्याशेषस्तस्यैव विस्तरः ॥ ७७ ॥ वरमेकस्य सत्त्वस्य प्रदत्ताऽभयदक्षिणा । न तु विप्रसहस्रेभ्यो गोसहस्रमलङ्कृतम् ॥ ७८ ॥ हेमधेनुधरादीनां दातारः सुलभा भुवि । दुर्लभः पुरुषो लोके यः प्राणिष्वभयप्रदः ॥ ७९ ॥ महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य क्षय एव न विद्यते ।। ८० ॥ नातो भूयस्तमो धर्मः कश्चिदन्योऽस्ति भूतले । प्राणिनां भयभीतानामभयं यत्पदीयते ॥ ८१ ॥ अभयं सर्वसत्त्वेभ्यो यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य भयमेव न विद्यते ॥ ८२ ॥ यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानं च मोक्षश्च न जटाभस्मचीवरैः ॥ ८३ ॥ जीर्णे भोजनमात्रे यः कपिलः प्राणिनां दया । वृहस्यति रविश्वासः ? पञ्चालस्त्रीषु माईवम् ।। ८४ ॥ अमेध्यमध्ये कीटस्य सुरेन्द्रस्य सुरालये । समाना जीविताकाङ्क्षा समं मृत्युभयं द्वयोः ॥ ८५ । यो यत्र जायते जन्तुः स तत्र रमते चिरम् । अतः सर्वेषु जीवेषु दयां कुर्वन्ति साधवः ॥८६॥ भागवते-जन्तुवै सर्व एतस्मिन् यां यां योनिमनुव्रजेत् । तस्यां तस्यां स लभते नितिं न विरज्यते ॥ ८७॥ सर्वात्मना न हिंसन्ति भूतग्रामेषु किश्चन । उच्चावचेषु दैत्येन्द्र ! सद्भावविधृतस्पृहाः ॥ ८८॥ BRUARRIES - - - For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrtn.org Acharya Shn Kailassagarsur Gyanmandir वेदा-18 ॥४॥ यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुधातकाः ।। ८९ ।। मनु०-यावन्ति पशुरोमाणि तावत्कृत्वोत्र मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ९ ॥ शोणितं यावतः पांशून् संगृह्णाति महीतलात् । तावतोद्धानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ ९१॥ ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् । एकविंशतिमाजानीः पापयोनिषु जायते ॥ ९२॥ तामिस्रगन्धतामिसं महारौरवरौरवम् । नरकं कालमूत्रं च महानरकमेव च ॥ ९३ ॥ संजीवनमहावीची तपनं सांप्रपातनम् । संघातं च सकाकोलं कुल्मलं प्रतिमृत्तिकम् ॥ ९४ ॥ लोहशकुमृधीशं च पन्थानं शाल्मली नदीम् । अप्तिपत्रं वनं चैव लोहवारकमेव वै ॥ ९५॥ यो हिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। संजीवंश्च मृतश्चैव न क्वापि सुखमेधते ॥ ९६ ॥ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितं प्रेम सुखमानन्त्यमश्नुते ॥ ९७॥ यद्धयायति तत्कुरुते रति बध्नाति यत्र च । तदवाप्नोति यत्नेन यो हिनस्ति न किचन ॥ ९८॥ न्द०-यथैव मरणाद्भितिरस्मदादिवपुष्मताम् । ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ ९९ ॥ धों जीवदयातुल्यो न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १०॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् । घातिते घ.तितं तद्वत्तस्मान्जीवान मारयेत् ॥ १०१॥ अहिंसा परमो धर्म इहोक्तः सर्वमूरािभः । तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ॥१०२॥ न हिंसासदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत् स्वर्ग गच्छेदहिंसकः ॥ १०३ ॥ For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir HOMORRHOICE आत्मनश्च परस्यापि यः करोत्यन्तरं नरः । तस्य भिन्नदृशो मृत्योर्विदधे भयमुल्बणम् ।। १६४ ॥ अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् । अर्चयेहानमानाभ्यां मैच्याभिन्नेन चक्षुषा ॥ १६५॥ सर्वात्मना न हिंसन्ति भूतग्रामेषु किंचन । उच्चावचेषु दैत्येन्द्र ! मद्भावविधृतस्पृहा ॥ १६६ ॥ यत्र तत्र च मद्भक्ताः प्रशान्ताः समदर्शनाः । साधवः समुदाचाराः पूजयन्त्यपि कीटकान् ॥ १६७॥ न यस्य स्वपर इति चित्ते स्वात्मनि वा भिदा । सर्वभूतसमः शान्तः स वै भागवतोत्तमः ॥ १६८ ॥ कृपालुरकृतद्रोहस्तितिक्षुः सर्वदेहिनाम् । सत्याचारोऽनवद्यात्मा स नः सर्वोपकारकः ॥ १६९॥ न स्तुवीत न निन्देत कुवेतः साध्वसाधु वा । आत्मरामोऽनया वृत्या विचरेजडवन्मुनिः ॥ १७० ॥ विमुश्चति यदा कामान्मानवो मनसिस्थितान । तद्देवपुण्डरीकाक्ष ! भगवत्त्वाय कल्पते ।। १७१॥ काभैरहतधीर्दान्तो मृदुः शुचिरकिञ्चनः । अनीहो मितभुक् शान्तः स्थिरो मच्छरणो मुनिः ॥ १७२ ॥ स्त्रीणां वा स्त्रीसङ्गिनां सङ्गं त्यक्या त्वात्मवान् । क्षमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ १७३॥ यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् । समदृष्टेस्तदा पुंसः सर्व : सुखमया दिशः ॥ १७४ ॥ सर्वभूतेषु यः पश्येद्भगवद्भावमानतः । भूतानि भगवत्यात्मन्येष भागवतोत्तमः ॥ १७५ ।। गृहीत्वा पिण्डियरर्थान्यो न द्वेष्टि न हृष्यति । विष्णोर्मायामयं पश्यन्स वै भागवतोत्तमः ॥ १७६ ॥ रागादिषिते चित्तेऽनास्पदी मधुमूदनः । रतिं न कुरुते हंसः कदाचित्कर्दमाम्भसि ॥ १७७॥ . न यस्य जन्मकर्मभ्यां न वर्णाश्रमजातिभिः । सज्जतेऽस्मिन्न हन्ता वो देहे वै स हरेः प्रियः (१) ॥ १७८ ॥ For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा गीतायाम- विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके तु पण्डिताः समदर्शिनः ॥ १७९ ।। आदित्यपु०- एकोपि बहुधास्मीति लीलया केवलः शिवः । ब्रह्मविष्ण्वादिरूपेण देवदेवो महेश्वरः ॥ १८ ॥ पृष्टो ब्रह्मादिभिर्देवैः कस्त्वं देवेति शङ्करः । अब्रवीदहमेवैको नान्यः कश्चिदिति श्रुतिः ।। १८१ ॥ सृजन्ते बहवो रुद्रा अनन्ताश्च चतुर्मुखाः । नारायणाश्च संख्याता देवदेवेन शम्भुना ॥ १८२ ॥ न तस्मादधिकःकश्चिन्नाणीयानपि कश्चन । तेनेदमखिलं पूर्ण शङ्करेण महात्मना ।। १८३ ॥ पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नैव तम् । रूपं च पृथिवी तस्य तस्मै भूतात्मने नमः ॥१८४ ॥ अप्सु तिष्ठति नैवापस्तं विदुः परमेश्वरम् । आपो रूपं च यस्यैवं नमस्तस्मै जलात्मने ॥ १८५ ॥ योनौ तिष्ठत्यमेयात्मा न तं वक्ति कदाचन । अग्निरूपं भवेद्यस्य तस्मै वह्वयात्मने नमः ॥ १८६ ।। तिष्ठत्यजस्रं यो वायौ न वायुर्वेत्ति तं हरम् । वायुर्यस्य भवेद्रुपं तस्मै वाय्वात्मने नमः ॥ १८७ ॥ वैष्णवानां सहस्रेभ्यः शिवभक्तो विशिष्यते । यदि पापरतात्क्रूरःस्वाश्रमाचारवर्जितः॥ १८८ ॥ प्रसङ्गात्कौतुकाल्लोभाद्भयांदज्ञानतोऽपि वा । हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ १८९ ॥ यज्ञेऽप्यहिसैव नास्ति पाणिवधा यज्ञे ध्रुवम् । अहिंसैव हि भूतानां सदा यज्ञो युधिष्ठिर ! ॥ १९० ।। शुकसंवादे- सत्यं यूपं तपो ह्यग्निः प्राणा:समाधयो मताः । अहिंसामाहुति दद्यादेष यज्ञः सनातनः ॥ १९१ ।। तपोध्यौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तम ! ॥ १९२ ॥ विष्णु पु०-नैतद्युक्तिसह वाक्यं हिंसा धर्माय नेष्यते । हवींष्यन लदग्धानि फलायेत्यर्भकोदितम् ॥ १९३ ॥ । अहिंसामाहुर्ति ०- नैतयुक्तिसवस्य दममारुतदीपित For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra हिंसितस्य पशोर्यज्ञे स्वर्गादीप्यते बालिशैः । स्वपिता यजमानेन किन्तु कस्मान्न हन्यते ? ॥ १९४ ॥ तृप्तये जायते पुंसां भुक्तमन्येन चेत्ततः । दद्याच्छ्राद्धं समायानं न बहेयुः प्रवासिनः ।। १९५ ।। जनश्रद्धेयमित्येतदवगम्य ततो ध्रुवम् । उपेक्षा श्रेयसी वाक्यं रोचतां यन्मये रतिम् (?) ।। १९६ ।। नातवादानभसो निपठन्ति महासुराः । युक्तिमद्वचनं ग्राह्यं मयाऽन्यैश्व भवद्विधैः (१) ॥ १९७ ॥ पशून्हत्वा कृत्वा रुधिरकदर्मम् । दग्ध्वा वहीं तिलाजादि चित्रं स्वर्गोऽभिलष्यते ।। १९८ ।। चण्डालो जायते यज्ञकरणाच्छूद्रभक्षितात् । यज्ञार्थं लब्धमददद्भासः काकोपि वा भवेत् ॥ १९९ ॥ यज्ञार्थमर्थं भक्षित्वा यो न सर्व प्रयच्छति । स याति भासतां विम काकतां वा शतं समाः ॥ २०० ॥ नहि यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत धर्मवित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ २०१ ।। येशूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ २०२ ॥ अधीत्य चतुरो वेदान्साङ्गोपाङ्गान्सलक्षणान् । शूदात्मतिग्रहं कृत्वा खरो भवति ब्राह्मणः ॥ २०३ ॥ खरो द्वादश जन्मानि षष्टि जन्मानि शूकरः । श्वानः सप्तति जन्मानि इत्येवं मनुरब्रवीत् ॥ २०४ ॥ शूद्रान्ननेोदरस्थेन यदि कश्चिद्विजो मृतः । स भवेच्छ्रकरो ग्राम्यस्तस्य वा जायते कुले । २०५ ।। शूद्रानं शूद्रसम्पर्कः शूद्रेण च सहासनम् । शूद्राद्विद्यागमः कचिज्ज्वालयन्तमपि पातयेत् ॥ २०६ ॥ शूद्रादाहृत्य निर्वाणं ये पचन्त्यबुधा द्विजाः । ते यान्ति नरकं घोरं ब्रह्मतेजोविवर्जिताः ॥ विष्णु० - विष्णुभक्तिः केशवार्चा गृहे यस्य न तिष्ठति । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं स्मृतम् ॥ २०७ ॥ २०८ ॥ स्कन्देमिता० मनु० www.kobatirth.org वशिष्ट ०स्कन्द ० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir x वेढा हुश. अङ्गि ॥८ ॥ EXCARE अवैष्णवगृह भुक्त्वा पीत्वा चाज्ञानतो यदि । शुद्धाश्चान्द्रायणेनोक्ता ऋषिभिस्तत्त्वदर्शिभिः ।। २०९ ॥ ब्राह्मणान्ने दरिद्रत्वं क्षत्रियान्ने पशुस्तथा । वैश्यानेन तु शूद्रत्वं शूद्राने नरकं ध्रुवम् ॥ २१०॥ राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । शटितानामिव बीजानां पुनर्जन्म न विद्यते ॥ २११ ।। राजप्रतिग्रहो घोरो मधुस्वादो विषोपमः । पुत्रमांसं वरं भक्ष्यं न तु राज्ञः प्रतिग्रहः ॥ २१२ ॥ दशमूनासमं चक्रं दशचक्रसमो वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ २१३ ॥ दश मूनासहस्राणि यो वाहयति सौनिकः । तेन तुल्यो स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ २१४ ॥ एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाक्षिणः ॥ २१५॥ न शूद्राय मतिं दद्यात् नोच्छिष्टं न हविष्कृतम् । न वास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ॥ २१६ ॥ योऽस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् । सोऽसंवृतं नामतः सह तेनैव गच्छति ॥ २१७ ॥ न शूद्रे पातकं किश्चिन च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति न धर्मात्मतिषेधनम् ॥ २१८ ॥ शक्तेनापि हि शूरेण न कार्यों धनसंग्रहः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ २१९ ॥ यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः । तमिस्रादिषु धोरेषु नरकेषु स पच्यते ॥ २२० ॥ अर्थसम्पद्विमोहाय विमोहो नरकाय च । तस्मादर्थमनाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २२१ ॥ यस्य धर्मार्थमर्थेहा तस्यानीहैव शोभना । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ २२२ ॥ सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तरः संशयानां च लोभादेते व्रजन्त्यधः ॥ २२३ ॥ इतिहा० ॥ ८ ॥ For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir भाग SHRUGAR मनु०विष्णु० ixRECRUCCCCHECORNO यशो यशस्विनां शुभ्रं श्लाघा ये गुणिनां गुणाः । लोभः स्वल्पोपि तान्हन्ति श्वित्रो रूपमिवेप्सितम् ॥ २२४ ॥ असन्तुष्टस्य विमस्य तेजो विद्या तपो यशः । सवन्तीन्द्रियलौल्येन ज्ञानं चैवावीर्यते ॥ २२५ ।। भिद्यन्ते भ्रातरो दाराः पितरः मुहृदस्तथा । एकयाऽर्थेच्छया स्निग्धाः सद्यः सर्वेरयकृताम् (१) ॥ २२६ ॥ अर्थेनाल्पीयसा ह्येते संरब्धा दीर्धमन्यवः । त्यजन्त्यमन्वृथा नन्ति सहसोत्सृज्य सौहृदम् ॥ २२७ ॥ सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः ॥ २२८ ॥ प्रायेणार्थः कदर्याणां न सुखाय कदाचन । इह चात्मनस्तापाय मृतस्य नरकाय वै ।। २२९ ।। यदा भावेन भवति सर्वभावेषु नि:स्पृहः । तदा सुखमवाप्नोति प्रेत्य वेह च शाश्वतम् ॥ २३०॥ यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् । तावन्तोऽस्य निखान्यन्ते हृदये शोकशङ्कचः ।। २३१ ।। यद्यदगृहे तन्मनसि यत्र तत्रावतिष्ठति । माशदाहोपकरणं कुतस्तत्रैव तिष्ठति (2) ॥ २३२ ॥ यद्यत्मीतिकरं पुंसो वस्तु मैत्रेय ! जायते । तदेव दुःखवृक्षस्य बीजत्वमुपगच्छति ॥ ३३ ॥ कलत्रपुत्रभृत्यादिगृहक्षेत्रधनादिभिः क्रियते न तथा भूरि सुखं पुंसो यथासुखम् ।। २३४ ।। राज्ञोऽप्यहिंसायाम् ॥ पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात्मजानां परिपालनम् ॥ २३५ ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किश्चिकिल्मिषं प्रजाः । तस्मान्नरपतेर? यस्माद्गृणात्यप्तौ करम् ॥ २३६ अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । सम्यक्त्वदण्डनं राज्ञा स्त्र'कीर्तिजयावहम् ॥ २३७ ॥ CAUSES मिता० For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वंदा xEONAMECEMALLASHREE अदण्डयान्दण्डयनराजा दण्डयांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ २३८ ॥ यस्तु धर्मेण कार्याणि नेह कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशीकुर्वन्ति शत्रवः ।। २३९ ॥ कामक्रोधौ च संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ २४०॥ अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्रं हि वीते तस्य सदैवाभयदक्षिणम् ॥ २४१ ॥ योऽरक्षन्वलिमादत्ते करं शुक्लं च पार्थिवः । प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ।। २४२ ॥ अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकानां समग्रमलहारिणम् ।। २४३ ॥ न्यायो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधार प्रवर्तन्ते स जीयात्पृथिवीपतिः ॥ २४४ ॥ वृद्धभारिनृपस्नातस्वीरोगिवलचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यःस्नातस्तु भूपतेः ।। २४५ ॥ अथ दाने इति- नान्नदानात्परं दानं किश्चिदस्ति नरेश्वर ! । अन्नेन धार्यते कृत्स्नं चराचरमिदं जगत् ॥ २४६ ॥ पद्मषु०- सर्वेषामेव भूतानामन्ने प्राणा: प्रतिष्ठिताः । तेनान्नदो विशांश्रेष्ठ ! प्राणदाता स्मृती बुधैः ॥ २४७।। पाह वैवस्वतो राजा राजानं केसरिध्वजम् । च्यवन्तं स्वर्गलोकात्तं कारुण्येन विशांवर !॥ २४८ !! ददस्वान्नं ददस्वान्नं ददस्वान्नं नराधिप ! । कर्मभूमौ गतो भूयो यदि स्वर्गत्वमिच्छसि ॥ २४९॥ मिता०- दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ।। २५० ।। इति- वहप्यश्रद्धया दत्तं नष्टमाहुर्मनीषिणः । वार्यपि श्रद्धया दत्तमानन्न्यायोपकल्पते ॥ २५१ ॥ मिता० For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir NACHCRESCRECARROP मिता०- देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं तूदित कचित् ।। २५२ ॥ इति०- दुःखं ददाति योऽन्यस्य भूयो दुःखं च विन्दति । तस्मान्न कस्यचिदुःखं दातव्यं दुःखभीरुणा ॥ २५३ ॥ तुर्यार०- दानान्न दुष्करतरं पृथिव्यामस्ति किश्चन । अर्थे हि महती तृष्णा स च दुःखेन लभ्यते ॥ २५४ ।। पात्रे स्वल्पमपि दानं कालं दानं युधिष्ठिर ! । मनसा सुविशुद्धन प्रेत्यानन्तफलं स्मृतम् ॥ २५५ ।। पात्रे दत्त्वा दानं प्रियाण्युक्त्वा च भारत ! । अहिंसानिरतः स्वर्ग गच्छेदिति मतिर्मम ॥ २५६ ॥ अथ पात्रे मिना०- न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तं समेष्येत तद्धि पात्रं प्रकीर्तितम् ॥ २५७ ।। विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः । गृहणन्मदातारमधो नयत्यात्मनमेव च ॥ २५८ ॥ प्रतिग्रहसमर्थोपि नादत्तो य प्रतीयहम् । य लोका दानशीलानां स तानाप्नोति पुष्कलान् (१) ॥ २५९ ॥ पुनर्भोजनमध्यानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक् त्वष्ट वर्जयेत् ॥ २६ ॥ कर्मनिष्ठास्तपोनिष्ठाः पश्चाग्निब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसम्पदे ॥ २६१ ।। विष्णु- पापेऽप्यपापपुरुषोऽप्यधिते प्रियाणि यः । मैत्रीद्रवान्तःकरणस्तस्य मुक्तिः करे स्थिता ॥ २६२ ॥ ये कामक्रोधलोभादीन्वीतरागा न कुर्वते । सदाचारस्थितास्तेषामतुर्भावैधृतामहे (१) ॥ २६३ ॥ धर्मशास्खे- किञ्चिद्वेदमयं पात्रं किश्चित्पात्रं तपोमयम् । पात्राणामपि तत्पात्रं शूद्रान्नं यस्य नोदरे ॥ २६४ ॥ शूद्रान्नेनोदरस्थेन यदि कश्चिन्मृतो द्विजः । स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥ २६५ ।। %A52PLOCKR For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बेदाडुश. ॥१०॥ इति० www.kobatirth.org शान्तदन्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिगृहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः || २६६ ।। सर्वहिंसानिवृत्ताश्च नित्यं सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः || २६७ ॥ साधूनां दर्शनं स्पर्शः कीर्तनं स्मरणं तथा । तीर्थानामिव पुण्यानां सर्वमेवेह पावनम् || २६८ ।। साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः कालतः फलते तीर्थ सद्यः साधुसमागमः ।। २६९ ॥ आरोहस्व रथे पार्थ! गाण्डीवं च करे कुरु । निर्जितां मेदिनीं मन्ये निर्ग्रन्थो यदि संमुखः ॥ २७० ॥ श्रमणस्तुरगो राजा मग्रूरः कुञ्जरो नृपः । प्रस्थाने वा प्रवेशे वा सर्वे सिद्धिकरा मताः ।। २७१ ।। पद्मिनी राजहंसाच निर्ग्रन्याश्च तपोधनाः । यं देशमुपसर्पन्ति तत्र देशे शुभं वदेत् ॥ २७२ ॥ अथापात्रे . मिता० बृहस्पतिस्मृतौ — विप्रो गां च हिरण्यं च वस्त्रमश्व महीतलम् | अविद्वान्प्रतिगृह्णानो भस्मीभवति काष्ठवत् || २७३ ।। मल्ले निमित्ते च कुवैद्ये कितवे शते । भाटचारणचौरेषु दत्तं भवति निष्फलम् || २७४ ॥ नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्मीभूतेषु विप्रेषु मोहादत्तानि दातृभिः || २७५ ॥ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थ हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ २७६ ॥ सन्मानाद्वाह्मणो नित्यमुद्विजेत विपादिव। अमृतस्येव चाकाङ्क्षेपमानस्य सर्वथा ।। २७७ ।। मनु- For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान्घृतम् । अविद्वान्मतिगृह्णानो भस्मीभवति दारुवत् ॥ २७८ ।। एककालं चरेद्रेक्ष्यं न प्रसज्येत विस्तरम् । भैक्षे प्रसक्तोहि यतिः प्रसज्येद्विषयेष्वपि ॥ २७९ ॥ अलामे न विषादी स्याल्लाभश्चेनं न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ २८० ॥ अल्पाशाभ्यवहारेण रहास्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवारयेत् ॥ २८१॥ अभिपुजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि वञ्च्यते ॥ २८२ ॥ जीवितात्ययमापन्नो यो नमस्ति यतस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ २८३ ।। ब्रह्मचार्याहरेद्भक्षं गृहेभ्यः प्रयतोऽन्वहम् । भैक्षेण वतिनो वृत्तिरुपवाससमा मता ॥ २८४ ।। आदित्य-भेक्षेण वर्त्तनं नित्यं नैकान्नादी भवेदवती । उपवाससमा भिक्षा मोक्ता वै ब्रह्मचारिणाम् ॥ २८५ ॥ याज्ञव०- ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि ब्रह्मचारी विवजयेत् ॥ २८६ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २८७ ।। भाग०-अलब्धा न विषदेत काले कालेऽशनं क्वचित् । लब्धा न हृष्येवृत्तिमानुभयं देवतन्त्रितम् ॥ २८८ ॥ चरेन्माधुकरी वृत्तिमपि ध्वान्तकुलादपि । एकान्नं नैव भुञ्जीत बृहस्पतिसमादपि ॥ २८९ ॥ अवधूतां च पूतां च मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरी वृत्तिं सर्वपापप्रणाशिनीम् ।। २९० ॥ नीली पटे जलं तके तथा गोर्लेच्छमन्दिरे । भिक्षान्नं पञ्चगव्यूतं पवित्राणि युगे युगे ॥ २९१ ॥ भृङ्गाघ्रातं यथा पुष्पं वत्सपीतं यथा पयः । भिक्षान्नं पञ्चगव्युतं पवित्राणि युगे युगे ॥ २९२ ॥ 955555 For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चेदा ॥११॥ अथातिथी. मनु०- एकरात्रं तु निवसन्नतिथिाह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९३ ॥ कृत्वैतद्वलिकमैवमतिथिं पूर्वमाशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।। २९४ ।। विष्णुपु०- अतिथिर्यस्य भग्नाशो गृहाद्यात्यन्यतोमुखः । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥ २९५ ॥ दत्त्वा त्वयं विशिष्टेभ्यः क्षुधितेभ्यस्तथा गृही । प्रशस्तं शुद्धपात्रेभ्यो भुञ्जीताकुपितो नृपः ॥ २९६ ॥ धाता प्रजापतिः शक्रो बहिर्वसुगणोर्यमा । प्रविश्यातिथिमेते वै भुञ्जतेऽनं नरेश्वर ! ॥ २९७ ।। तस्मादतिथिपूजायां यतेत सततं नरः । स केवलमपं मुझे यो ह्यतिथिं विना ॥ २९८ ॥ मिताक्ष- सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेद्वाऽऽगतान्काले सखिसम्बन्धिवान्धवान् ।। २९९ ।। इतिहा०- सत्यं शौच तपोऽधीतं दत्तमिष्टं श्रुतं तथा । तस्य सर्वमिदं व्यर्थमतिथिं यो न पूजयेत् ॥ ३०॥ पद्मपु०- मूल् वा पण्डितो वाथ श्रोत्रियः पतितोऽथवा । ब्रह्मतुल्योऽतिथिवैश्य ! मध्याह्ने यः समागतः ।। ३०१॥ पथि श्रान्ताय विप्राय अन्यस्मै क्षुधिताय वा । प्रयच्छन्त्यन्नपानीयं ते नाके चिरवासिनः ॥ ३०२ ।। अतिथिर्विमुखो यस्य न याति गृहमागतः । मध्याह्ने वैश्य ! सायं वा स न याति यमालयम् ।। ३०३ ॥ नास्ति नास्ति वचः श्रुत्वा त्यक्त्वाऽऽशामतिथिजन् । आजन्मसञ्चितं पुण्यं गृह्णाति गृहमेधिनः ।। ३०४ ॥ नास्त्यतिथिसमी बन्धुर्नास्त्यतिथिसमं धनम् । नास्त्यतिथिसमो धर्मो नास्त्यतिथिसमो हितः॥ ३०५ ।। विवेक वि०- आस्तृिष्णाक्षुधाभ्यां यो वित्रस्तो वा स्वमन्दिरात् । आगतः सोऽतिथिः पूज्यो विशेषेण मनीषिणा ॥ ३०६ ॥ ARRORRECROCRACRECE ॥शा For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कोविदो वाऽथवा मुखों मित्रं वा यदि वा रिपुः । निदानं स्वर्गभांगानां भोजनावसरऽतिथिः ॥ ३०७ ॥ अथ शीले मैथुनं ये न सेवन्ते ब्रह्मचारिदृढव्रताः । ते संसारसमुद्रस्य पारं गच्छन्ति सुव्रताः ॥ ३.८ ।। ब्रह्मचर्येण शुद्धस्य सर्वभूतहितस्य च । पदे पदे यज्ञफलं प्रस्थितस्य युधिष्ठिर ! । ३०९।। एकराज्युपितस्यापि यागतिब्रह्मचारिणः । न सा शक्रसहस्रेण वक्तुं क्या युधिष्ठिरः ॥ ३१ ॥ ब्रह्मचर्य भवेन्मूलं सर्वेषां धर्मचारिणाम् । ब्रह्मचर्यस्य भङ्गेन ब्रताः सर्वे निरर्थकाः ।। ३११ ॥ ऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य मतकं च दिने दिने ॥ ३१२ ॥ ग्रहणेऽप्यथ संक्रान्तावमावास्यां चतुर्दश्याम् । नरचाण्डालयोनिः स्यात्तैलाभ्यङ्गे खीसेवने ॥ ३१३ ।। मनु०- ऋतुकालमतिक्रम्य योऽभिगच्छति मैथुनम् । स एव ब्रह्महा नाम हतं ब्रह्म तदात्मजम् ।। ३१४ ।। अमावास्यामष्टमी च पौर्णमासी चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यगस्पृप्तौ स्नातको द्विजः (?) ॥ ३१५ ।। विष्णु०-- चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च ॥ ३१६ ॥ तैलस्त्रीमांससंभोगी पर्वस्वेतेषु वै पुमान । विष्मुत्रभोजनं नाम प्रयाति नरकं मृतः ॥ ३१७ ।। अशेषपर्वस्वेतेषु तस्मात्संयमिभिर्बुधैः । भाव्यं सच्छाखदेवा ध्यानजापपरैर्नरः ॥ ३१८ ।। उदपथानमयस्तः श्रुतह्यानूतसंप्लवम् । तेऽसंप्रयोगीलोभस्य मैथुनस्य च वर्जनात् ( ? ) ॥ ३१९ ॥ इतिहासे-- येइभिगच्छन्ति रागान्धा नरा नारी रजस्वलाम् । पर्वस्वप्सु दिवा चैव ते वै निरयगामिनः ॥ ३२० ॥ For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा ॥१२॥ SA%ARS विष्णुभक्तिचन्द्रोदये-एकादश्यष्टमी चैव पक्षयोश्च चतुदशी । शिवस्य तिथयःमोक्ता मुनिभिः सौनिकादिभिः॥ ३३१ ॥ वाशिष्टस्मृ०-श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति । भवन्ति पितरस्तस्य तन्मासं रेतसो भुजः ॥ ३२२ ।। मिता०- भद्रां तु ब्राह्मणो गत्वा मासं मासार्द्धमेव वा । गोमूत्रयावकाहारस्तिष्ठेत्तत्पापमोक्षकः ॥ ३२३ ॥ रजकव्याधशैलूषवेग्गुचर्मोपजीवनाः । एतासु ब्राह्मणो गत्वा चरेच्चान्द्रायणद्वयम् ॥ ३२४ ॥ कथञ्चिदाह्मणी गच्छेत्क्षत्रियो वैश्य एव वा । कृच्छ्रसांतपनं वा स्यात्यायश्चित्तविशुद्धये ॥ ३२५ ॥ परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः ॥ ३२६ ॥ यत्करोत्येकरात्रेण वृषलीसेवनाद्विजः । तद्भक्षभुग् जपन्नित्यं त्रिभिवर्षेव्यपोहति ॥ ३२७ ।। रेतःसिक्त्वा कुमारीषु स्तयोनिष्वन्त्यजासु च । सपिण्डापत्यदारेषु प्राणत्यागो विधीयते (?) ॥ ३२८ ।। भाग०- यास्तामिश्रान्धतामिश्रा रोरवाद्याश्च यातनाः । भुङ्के नरो वा नारी वा मिथः सङ्गेन निर्मिताः ॥ ३२९ ।। प्रतिवेदं ब्रह्मचर्य द्वादशाद्वानि पञ्च वा । ग्रहणान्तिकमित्येके केशान्तश्चैव षोडशे ॥ ३३० ॥ बहूनि हि सहस्राणि कुमारब्रह्मचारिणाम् । दिवं गतानि विप्राणामकृत्वा कुलसन्ततिम् ॥ ३३१॥ एवं चरति यो विमो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमं स्थानं न चेह जायते पुनः ॥ ३३२ ॥ आदि० गाङ्गेय उ०-अद्य प्रभृति मे दाश ! ब्रह्मचर्य भविष्यति । अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ॥ ३३३ । तुर्यार० कोटराग्निर्यथाऽशेष समूलं पादपं दहेत् । धर्मार्थिनां तथाऽल्पोऽपि रागरोषो विनाशयेत् ॥ ३३४॥ कामलोभग्राहवती पश्चेन्द्रियजला नदीम् । नावं धृतिमहो! कृत्वा जन्मदुर्गाणि संतर ॥ ३३५ ॥ IxS5555555 याज्ञव० डा॥१२॥ For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir इतिहा० REACHERS ये तपसा प्रतप्यन्ते कौमारवतचारिणः । जितेन्द्रिया जितक्रोधा दुर्गाष्यतितरन्ति ते ॥ ३३६ ।। दम निश्रेयसं पाहुद्धा निश्चयदर्शिनः । ब्राह्मणस्य विशेषेण दो धर्मः सनातनः ॥ ३३७ ।। ये केचिनियमा लोके याश्च धर्मश्रुतिक्रियाः । सर्वयज्ञफलं चैव दमरतेभ्यो विशिष्यते ॥ ३३८ ॥ किमरण्येनादान्तस्य दान्तस्य तु किमाश्रमैः । यत्र यत्र वसेदान्तस्तदरण्यं तदाश्रमः ।। ३३९ ।। बनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पश्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ।। ३४० ॥ न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।। न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥ ३४१ ॥ दमे कृते सर्वमतं प्रजानां दमाद्विशिष्टं न च वस्तु किश्चित् । वेदाश्च शास्त्राणि च सर्वमेतदमेन हीनस्य निरर्थकानि ॥ ३४२ ॥ कामक्रोधौ विनिर्जित्य किमरण्येन करिष्यति ? । अथवा तावनिर्जित्य किमरण्येन करिष्यति ? ॥३४३ ॥ मातृवत्परदाराणि परद्रव्याणि लोष्टुवत् । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ३४४ ॥ मातृवत्परदारान्ये संपश्यन्ति नरोत्तमाः । न ते यान्ति विशांश्रष्ठ ! कदाचिद्यमयातनाम् ॥ ३४५ ॥ मनसापि परेषां यः कलत्राणि न सेवते । स हि लोकद्वयेनेव तेन वैश्य ! धरा धृता ॥ ३४६॥ तस्माद्धान्वितैस्त्याज्यं परदारोपसेवनम् । नयन्ति परदारास्तु नरकानेकविंशतिम् ।। ३४७ ॥ प० । पद्म पु० For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RECCESSACRICS वेश्याया दर्शने स्नानमुपवासं च मैथुने । सप्तरात्रेण शूद्रत्वं मासेन पतितो भवेत् ॥ ३४८ ।। ताम्बूलं वस्त्रमूक्ष्माणि स्त्रीकथेन्द्रियपोषणम् । दिवा निद्रा सदा क्रोधो यतीनां पतनानि षट् ॥ ३४९ ॥ आदि० पु०- ातं जनपरीवादं स्त्रीप्रेक्षा लम्भनं तथा । गन्धं माल्यं रसं छत्रं वर्जयेइन्तधावनम् ॥ ३५० ॥ याज्ञव०- ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि ब्रह्मचारी विवर्जयेत् ॥ ३५१॥ भाग० नच्छिन्द्यान्नखलोमानि कक्षोपस्थगतान्यपि । रेतो नावकिरंजातु ब्रह्मव्रतधरः स्वयम् ॥ ३५२ ॥ ब्राह्मणस्य देहोऽयं कृतकामाय नेष्यते । कृच्छ्रायते एतेनेष्टः प्रेत्यानन्तसुखाय वै ॥ ३५३ ॥ मात्रा स्वस्रा दुहित्रा वा नाविविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ ३५४ ॥ शमो दमस्तपः शौच सन्तोषः क्षान्तिरार्जवम् । ज्ञानं दया श्रुतात्मत्वं सत्यं च ब्रह्मलक्षणम् ॥ ३५५ ।। मिता०- मृते जीवति वा पत्यो या नान्यमुपगच्छति । सेह कीर्तिमवाप्नोति मोदते च मया सह ॥ ३५६ ॥ पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ ३५७ ॥ या स्त्री ब्राह्मणजातीया मृतं पतिमनुव्रजेत् । सा स्वर्गमात्मघातेन नात्मानं न पति नयेत् ॥ ३५८ ॥ क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेलोषितभर्तका ॥ ३५९ ॥ नीचाभिगमनं गर्भपातनं भर्तहिंसनम् । विशेषपतनीयानि स्त्रीणामेतानि निश्चितम् ॥ ३६०॥ वृह- व्रतोपवासनिरता ब्रह्मचर्ये व्यवस्थिता । दमदानरता नित्यमपुत्रापि दिवं व्रजेत् ।। ३६१॥ - मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता । स्वर्ग गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ॥ ३६२ ।। YEE For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie कामं हि क्षिपयेदेहं पुष्पमूलफलैः शुभैः । न तु नामापि गृहीयात्पत्यो प्रेते परस्य तु ॥ ३६३ ॥ अपत्यलोभाद्या नु स्त्री भर्तारमतिवर्तते । सेह निन्दामवाप्नोति पतिलोकाच हीयते ॥ ३६४ ॥ शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् । पितुर्मातुस्तथा पत्युरिहामुत्र च दुःखिताः । ३६५ ॥ पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भवम् । तति भूमिर्मन्येत नात्र भारोऽस्मि पाननी ॥ ३६६ ॥ पन्यौ मृतेऽपि या योषिद्वधव्यं पालयेत्कच्चित् । सा पुनः प्राप्य भर्तारं स्वर्गभोगान्समश्नुते ॥ ३६७ ॥ एकाहारः सदा कार्यो न द्वितीयः कदाचन । त्रिरात्रं पञ्चरात्रं वा पक्षव्रतमथापि वा ॥ ३६८ ॥ यवान्नैर्वा फलाहारैः शाकाहारैः पयोव्रतैः । प्राणयात्रां प्रकुर्वीत यावत्माणः स्वयं व्रजेत् ।। ३६९ ।। पर्यशायिनी नारी विधवा पातयेद्वतम् । तस्माद्भशयनं कार्य पतिसौख्यसमीहया ॥ ३७० ॥ शीलं रक्ष्यं सदा स्त्रीभिर्दुष्टसङ्गविवर्जनात् । शीलेन हि परः म्वर्गः स्रीणां वैश्य ! न संशयः ॥ ३७१ ॥१०॥ इयतैव स्त्रियो धन्याः शीलस्य परिरक्षणात् । शीलभङ्गे हि नारीणां यमलोकः सनातनः ।। ३७२ ।। न रामतातस्तिमृभिः प्रियाभिर्म सीतया सोऽपि च रामचन्द्रः । न रावणस्तत्मिययाऽनुयातो दुर्योधनो नैव च भानुमत्या ॥ ३७३ ॥ नानुप्रयातश्च हरिः प्रियाभिस्तद्वान्धवस्तत्प्रिययापि नैव । क एष धर्मः प्रविशन्ति वह्नौ नार्योऽधुना कान्तमुपासितुं स्वं ॥ ३७४ ।। अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा स्वर्ग गच्छन्ति मानवाः ॥ ३७५ ॥ AURCHASE पद्मपु० CRE For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा ॥१४॥ पुत्रेण जायते स्वर्ग इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण स्वगलोको महीयते ॥ ३७६ ॥ यदि पुत्राद्भवेत्स्वर्गो दानधर्मो न विद्यते । मुषितस्तहि लोकोऽयं दानधर्मो निरर्थकः ॥ ३७७ ॥ बहुपुत्राकुला गोधा ताम्रचुडस्तथैव च । तेषां च प्रथमं स्वर्गः पश्चाल्लोको गमिष्यति ।। ३७८ ॥ अथ द्विजत्वे. ब्राह्मणा ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ।। ३७९ ॥ शिल्पमध्ययनं नाम वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं मो नेतरान्वेदजीवकान् ॥ ३८ ॥ ब्रह्मचर्यतपो युक्ता समानलोष्टुकाञ्चनाः ।........" ............. ॥ ३८१ ॥ सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ॥ ३८२ ॥ श द्रोऽपि शीलसंपन्नो गुणवान्ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत् ॥ ३८३ ॥ चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् । चण्डालः स तु विज्ञेयो न वेदास्तत्र कारणम् ॥ ३८४ ॥ सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम् ।। ३८५ ॥ सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः । सर्वभूतदया नास्ति एतच्चाण्डाललक्षणम् ॥ ३८६ ॥ एकवर्णमिदं सर्वं पूर्वमासीद्युधिष्ठिर ! । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ।। ३८७ ॥ मनु०- अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥ ३८८ ॥ इति नहुष०3०-जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा । ब्राह्मण्यं केन भवति प्रबृह्येतत्सुनिश्चितम् ॥ ३८९ ॥ 1 ॥१४॥ For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न जातिर्न कुलं तात ! न स्वाध्यायो न च श्रुतम् । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।। ३९० ।। अनेके मुनयस्तात ! तिर्यग्योनिषु संभवाः । स्वधर्माचारनिरता ब्रह्मलोकमितो गताः ॥ ३९१ ॥ बहुना किमधीतेन नटस्येव दुरात्मनः । तेनाधीतं श्रुतं तेन यो वृत्तमनुतिष्ठति ।। ३९२ ।। तस्माद्विद्धि महाराज ! वृत्तं ब्राह्मणलक्षणम् । चतुर्वेद्यपि दुर्वृत्तः शूद्रात्पापतरः स्मृतः ॥ ३९३ ॥ सत्यं दमस्तपो दानमहिंसेन्द्रियनिग्रहः । दृश्यन्ते यत्र राजेन्द्र ! स ब्राह्मण इति स्मृतः ॥ ३९४ ॥ शूद्रे चैव भवेद्वृत्तं ब्राह्मणे च न विद्यते । शूद्रो वै ब्राह्मणो ज्ञेयो ब्राह्मणः शूद्र एव स: ।। ३९५ ।। कामक्रोधानृतद्रोह लोभमोहमदादयः । न सन्ति यत्र राजेन्द्र ! तं देवा ब्राह्मणं विदुः ॥ ३९६ ॥ न जातिकारणं तात ! गुणाः कल्याणहेतवः । वृत्तस्थोऽपि हि चाण्डालः सोऽपि सद्गतिमाप्नुयात् ॥ ३९७|| क्षत्रियाणां कुले जातो विश्वामित्रो महामुनिः । तस्मान्नाध्ययनं नापि यजनं विप्रस्य लक्षणम् ॥ ३९८ ॥ या विषीद नरव्याघ्र ! राक्षसेष्वपि पठ्यते । शिलमध्यनं नाम वृत्तं ब्राह्मणलक्षणम् ॥ ३९९ ॥ पिता०- गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं हितानां च तत्सर्ववृत्तमुच्यते ॥ ४०० ॥ श्वपाकीगर्भसम्भूतः पारासरो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिर कारणम् ॥। ४०१ ॥ कैवर्त्तीगर्भसंभूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जानस्तस्माज्जातिर कारणम् ।। ४०२ ॥ हरिणीगर्भसंभूत ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०३ ॥ मण्डकीगर्भसंभृतो माण्डव्यश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा १५॥ R उर्वशीगर्भसंभृतो वशिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०५॥ शफरीगर्भसंभूतो वल्मीकश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माजातिरकारणम् ॥ ४०६॥ क्षत्रवंशसमुत्पन्नो विश्वामित्रो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०७॥ कलशीगर्भसंभृतो द्रोणाचार्यों महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०८ ।। न तेषां ब्राह्मणी माता न संस्कारश्च विद्यते । तपसा ब्राह्मणा जातास्तस्माज्जातिरकारणम् ॥ ४०९ ॥ शीलं प्रधानं न कुलं प्रधानं कुलेन कि शीलविवर्जितेन। बहवो नरा नीचकुलपमूताः स्वर्ग गताः शीलमुपेत्य धीराः ॥ ४१० ॥ मनु०- आचाराद्विच्युतो विमो न वेदफलमश्नुते । आचारेण तु संयुक्तः संपूर्णफलभाक स्मृतः ॥ ४११ ॥ आचाराल्लभते चायुराचारादीप्सितमजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४१२ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागीव सतनं व्याधितोऽल्पायुरेव च ॥ ४१३ ॥ संरक्षणार्थ जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव संवीक्ष्य वसुधां चरेत् ।। ४१४ ॥ विष्णुपु०- नोर्च न तिर्यग् दूरं वा निरीक्षन्पर्यटेबुधः । युगमात्रं महीपृष्टे नरो गच्छेद्विलोकयन् ॥ ४१५ ॥ इति०- बहुना किमधीतेन नटस्येव दुरात्मना । तेनाधीतं श्रुतं सर्वं यो वृत्तमनुतिष्ठति ॥ ४१६ ॥ चतुर्य- कर्म शूद्रे कृषिवैश्ये सामः क्षत्रिये स्मृतः । ब्रह्मचर्यतपोमन्त्राः सत्यं चैव द्विजे तथा ॥ ४१७ ॥ 8| वाशि० स्मृ०-दीर्घवैरमसूया चासत्यं ब्राह्मणपणम् । पैशुन्यं निर्दयत्वं च जानीयाच्छ्द्रलक्षणम् ॥ ४१८ ॥ ECOG For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir m विष्णुपु०-वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् । शूद्रवृत्त्यां प्रवय॑न्ते कारुकर्मोपजीविनः ॥ ४१९ ।। तुर्यारण्य०-यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेदाद्विजः ।। ४२० ॥ सत्यं दानं क्षमा शीलमाप्तशंस्यं तपो घृणा ! दृश्यते यत्र नागेन्द्र ! स ब्राह्मण इति श्रुतः ॥ ४२१ ॥ शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छद्रो ब्राह्मणो न च ब्राह्मणः ॥ ४२२ ॥ लक्ष्यते सर्प ! यत्रतत्तं स ब्राह्मणः स्मृतः । यत्रैतन्न भवेत्सर्प ! तं शूद्रमिति निर्दिशेत् ॥ ४२३ ।। जातिरत्र महासर्प ! मनुष्यत्वे विशिष्यते । सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे गतिः ॥ ४२४ ॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते । सङ्करस्तत्र नागेन्द्र ! व वानसमीक्षिता ॥ ४२५ ॥ क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तमः । यः क्रोधलोभौ जयति तं देवा ब्राह्मणं विदुः ॥ ४२६ ॥ यो वदेदिह सत्यानि गुरून्सन्तोषयेदपि । हिंसते च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ ४२७ ।। जितेन्द्रियो धर्मरतः स्वाध्यायनियतः शुचिः । कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ।। ४२८ ॥ यस्य चात्मसमो लोको धर्मज्ञस्य यशस्विनः । सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥ ४२९ ॥ योऽध्यापयेदधीयीत यजेद्वा याजयेत वा । दद्यादपि यथाशक्ति तं देग ब्राह्मणं विदुः ॥ ४३० ॥ ब्रह्मचारी च वदान्यो ह्यधीयीत द्विजोत्तमः । स्वाध्याये वाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥ ४३१ ॥ धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् । इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ! ॥ ४३२ ॥ इन्द्रियाणां निरोधेन सत्येन च दमेन च । ब्राह्मणः पदमामोति यत्परं द्विजसत्तम ! ।। ४३३ ॥ For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir डा . ११६ ब्राह्मणः परकीयेषु वर्तमानोऽपि कर्मसु । दाम्भिको दुष्कृतप्रायः शूद्रेण सहशो भवेत् ॥ ४३४ ॥ कृषिवाणिज्यगोरक्षां राजसेवां चिकित्सितम् । ये विप्राः प्रतिपद्यन्ते न ते कौन्तेय ! ब्राह्मणाः ।। ४३५॥ मनु०- गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्द्धषिकांश्चैव विप्राशूद्रवदाचरेत् ॥ ४३६ ॥ ये व्यतीताः सुकर्मभ्यः परपिण्डोपजीविनः । द्विजतमभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥ ४३७ ।। सद्यः पतति मांसेन लाक्षया लवणेन च । व्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ।। ४३८ ॥ इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ ४३९ ॥ पारासरस्मृ०-संवत्सरेण याकुर्यात्कवनः प्राणिनां वधे । अधोमुखेन काष्टेन तदकेन लाङ्गलिः ॥ ४४०॥ कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः । द्वापरे शङ्खलिखितः कलो पारासरः स्मृतः ॥ ४४१ ॥ पा० । हस्ततलप्रमाणां तु यो भूमि कर्षति द्विजः । नश्यते तस्य ब्रह्मत्वं शद्रत्वं त्वभिजायते ॥ ४४२॥ यस्तु रक्तेषु दन्तेषु वेदमुच्चरते द्विजः । अमेध्यं तस्य जिह्वाग्रे मूतकं च दिने दिने ॥ ४४३ ॥ इति० ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः । कुकर्माण्युपजीवन्ति ते वै निरयगामिनः ॥ ४४४ ॥ अर्जुन-उ० शीतभीताश्च ये विप्राः क्षत्रिया रणभीरवः । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४५॥ वत्सदेशे च ये विप्रा ये विप्रा मरुमण्डले । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४६ ॥ श्वानकुकुटमार्जारान्ये पुष्यन्ति दिने दिने । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४७॥ मिता०- याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥ ४४८ ॥ ||॥१६॥ For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir आप्तनाच्छयनाद्यानात्संभाषणात्सह भोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥ ४४९ ॥ गोविक्रयास्तु ये विमा ज्ञेयास्ते मातृविक्रयाः । तेन देवाश्च वेदाश्च विक्रीता नात्र संशयः ॥ ४५० ॥ विक्रीय कन्यकां गां च कृच्छ्रसान्तपनं चरेत् । नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् ॥ ४५१ ॥ स्कन्दपु०- गावः पवित्रमतुलं गावो मङ्गलमुत्तमम् । यासां खुरे स्थितो रेणुगङ्गाजलसमो भवेत् ॥ ४५२ ॥ शृङ्गाग्रे सर्वतीर्थानि खुराग्रे सर्वपर्वताः । शृङ्गयोरन्तरे यस्याः साक्षागौरी महेश्वरी ।। ४५३ ॥ गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ४५४ ॥ मनु०-- यथा काष्टमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ ४५५ ॥ न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ ४५६ ॥ स्कन्दः- ब्राह्मणाऽतिक्रमो नास्ति वि वेदविवर्जिते । ज्वलन्तं वद्विमुत्सृज्य नहि भस्मनि हुयते ॥ ४५७ ॥ आदित्य पु०-ज्ञानवृद्धस्तपोवृद्धो वयोवृद्ध इति त्रयः । पूर्वः पूर्वोऽभिवाद्यः स्यात्पूर्वाभावेऽपरे परः॥ ४५८ ।। नाधीतविद्यो विप्रो य आचारेषु प्रवर्तते । नाचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥ ४५९ ।। अनधीतस्य विप्रस्य पुत्रो वाध्ययनान्वितः । शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ॥ ४६० ॥ गीता०- पापामयौषधं कृत्वा शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ ४६१ ॥ यथैवांसि समिद्धोऽग्निर्भस्मसात्कुरुते जनः । ज्ञानाग्निः सर्वकागि भस्मसात्कुरुते तथा ॥ ४६२ ।। नन्दि पु०-यावदक्षरसंख्यानं विद्यते शाखसश्चये । तावद्वर्षसहस्राणि स्वर्गे विद्यापदो भवेत् ॥ ४६३ ।। .COUREDUCERECRUA For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SANA देवीपु० विष्णुपु०इति० ARRRRRRRRR यावत्यः पङ्क्तयस्तत्र पुस्तकेऽक्षरसंश्रिताः । तावतो नरकात्कल्पानुद्धृत्य नयते दिवि ॥ ४६४ ॥ स गुरुः स पिता माता स च चिन्तामणिः स्मृतः । यः शास्त्रोपायमाख्याय नरकेभ्यः समुद्धरेत् ॥४६५।। कस्तेन सदृशो लोके बान्धवो विद्यते परः । यस्य वारश्मिवृन्देन हृदयानश्यते तमः ।। ४६६ ॥ एकं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ४६७।। आनृशंस्यं क्षमा सत्यमर्हिसा दम आर्जव: । दानं प्रसादो माधुर्य सन्तोषश्च यमा दश ॥ ४६८॥ शौचमित्यातपः सत्यं स्वाध्यायोपस्थनिग्रहः । व्रतोपवासमौनं च स्नानं च नियमा दश ।। ४६९ ॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । हीविद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ।। ४७० ।। के के नु ब्राह्मणा प्रोक्ताः किं वा ब्राह्मणलक्षणम् । एतदिच्छाम्यहं ज्ञातुं तन्मे कथय सुव्रत ! ४७१ ।। पञ्चलक्षणसंपूर्ण इदृशो यो भवेद्विजः । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ॥ ४७२ ।। नवनीतं यथा दध्नश्चन्दनं मलयादितः । औषधिभ्योऽमृतं यद्वेदेवारण्यकं तथा ॥ ४७३ ।। तत्र ऋपभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, तपसा च प्राप्तं परमपदमिनि । यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ४७४ ॥ यदा सर्वानृतं त्यक्तं मृषा भाषा विवर्जिता । अनवद्यं च भाषेत ब्रह्म सम्पद्यते तदा ॥ ४७५ ॥ परद्रव्यं यदा दृष्ट्वा आकुले ह्यथवा रहः । धर्मकामो न गृहाति ब्रह्म सम्पद्यते तदा ॥ ४७६ ॥ देवमानुपतिर्यक्षु मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा ।। ४७७ ।। CAUSERS.COM ब्रह्मण्याह For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org या सर्व परित्यज्य निःसङ्गो निष्परिग्रहः । निश्चिन्तश्च चरेद् ब्रह्म ब्रह्म सम्पद्यते तदा ।। ४७८ ॥ ब्रह्माण्ड पु० - इह हि इक्ष्वाकुकुलवंशोद्भवेन नाभिसुतेन मरुदेव्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेव चीर्णः केवलज्ञानलम्भाच्च प्रवत्तितस्त्रेतायामादाविति । भाग० नाभेरुदेवायामपत्यकामस्य यजतः ऋषिगणाभ्यर्थितो नारायण ऋषभपुत्ररूपेण समवततार, तस्य च भर-तादि पुत्रश | यज्जज्ञे इति । शिवपु० - here farm रम्ये वृषभोऽयं जिनेश्वरः । चकार स्वावतारं यः सर्वज्ञः सर्वगः शिवः ॥ ४७९ ।। नगरपु० – सर्वज्ञः सर्वदर्शी च सर्वदेवनमस्कृतः । छत्रत्रयीभिः संपूज्यां युक्तां मूर्त्तिमसो वहन् ॥ ४८० || आदित्यप्रमुखाः सर्वे बद्धाञ्जलय ईदृशम् । ध्यायन्ति भावतो नित्यं यदहियुगनीरुजम् ॥ ४८१ ॥ परमात्मानमात्मानं लसत्केवलनिर्मलम् । निरञ्जनं निराकारं वृषभं तु महाऋषिम् ॥ ४८२ ॥ अष्टषष्टिषु तीर्थेषु यत्पुण्यं किल यात्रया । आदिनाथस्य देवस्य दर्शनेनापि तद्भवेत् ।। ४८३ ॥ विष्णुपु० - हिमाङ्कं यस्य वै वर्ष नाभेररासीन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो मरुदेव्यां महाद्युतिः ॥ ४८४ ॥ ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रः शतस्य सः । कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान्मखान् ।। ४८५ ।। अभिषिच्य सुतं वीरं भरतं पृथिवीपतिम् । तपसे स महाभागः पुलहस्त्याश्रमं ययौ ।। ४८६ ॥ वानप्रस्थविधानेन तत्रापि कृतनिश्चयः । तपस्तेपे यथान्यायमियाज च महीपतिः ॥ ४८७ ॥ ततश्च भारत वर्ष मृतलोकेषु गीयते । भरताय यतः पित्रा दत्तं प्रतिष्ठता वने || ४८८ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥१८॥ EXERCIACOCUMAR उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्ष यद्भारतं नाम भारती यत्र सन्ततिः ॥ ४८९ ॥ नवयोजनसहस्रो विस्तारोऽस्य महामुने ! । कर्मभूमिरियं स्वर्गमपवर्ग च गच्छताम् ॥ ४९० ॥ अतः सम्माप्यते स्वर्गो मुक्तिमस्मात्पयान्ति च । तिर्यक्त्वं नरकं वापि यान्त्यतः पुरुषा मुने! ॥ ४९१ ॥ तपस्तप्यन्ति यतयो जुहते वात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ ४९२ ॥ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसश्चयात् ॥ ४९३ ॥ गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ ४९४ ॥ जानीम नैतत्कवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । __प्रापस्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियकर्महीना (१) ॥ ४९५ ॥ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ! । यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥ ४९६ ॥ चत्वारि भारते वर्षे युगान्यत्र महामुने! । कृतं त्रेता द्वापरश्च कलिश्चान्यत्र न क्वचित् ॥ ४९७ ॥ तुर्यारण्य०- ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः । कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥ ४९८॥ अथ तपसि. विष्णुपु० ऋषयः-चतुःपश्चादसंभूतो बालस्त्वं नृपनन्दन! । निर्वेदकारणं किश्चित्तवाद्यापि न दृश्यते ॥ ४९९ ॥ ध्रुवः- नाइमर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुराः ॥५०॥ 1 ॥१॥ For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir R AMGARCAUSHCOMCHUDA जन्मन्यत्र महदुःखं म्रियमाणस्य चाति तत् । यातनासु यमस्योग्रं गर्भसंक्रमणेषु च ।। ५०१॥ मा जानीत वयं बाला देही देहेषु शाश्तः । जरायौवनजन्माद्या धर्मा देहरय नात्मनः ॥ ५०२ ॥ बालोऽहं तावदिच्छातो यतिप्ये श्रेयसे युवा । युवाह वार्द्ध के प्राप्त वरिष्याम्यात्मनो हितम् ॥ ५.३ ॥ वृद्धोऽहं मम कार्याणि समस्तानि न गोचरे । किं करिष्यामि मन्दारमा न समर्थेन यत्कृतम् ॥ ५०४॥ एवं दुराशयाक्षिप्तमानसः पुरुषः सदा । श्रेयसोऽभिमुख याति न कदाचित्पिपारितः॥ ५०५॥ बाल्ये क्रीडनकासक्ता यौवने विषयोन्मुखाः । अज्ञानयन्त्यशत्तया च वाकं समुपस्थितम् ॥ ५०६॥ तस्माद्वाल्ये विवेकात्मा यतेत श्रेयसे सदा । बालयौवनद्धाद्यैदेहभावैरसङ्गतः ॥ ५०७॥ इतिहा.- यौवने सति राजेन्द्र ! रूपे द्रव्ये तथैव च । यो वै जितेन्द्रियो धीरः सोऽक्षयं रवर्गमश्नुते ॥ ५०८ ॥ बालश्चापि चरेद्धर्ममनित्यं खलु जीवितम् । फलानामिव पववानां शाखापतनतो भयम् ॥ ५०९ ॥ को जानाति कदा कस्य मृत्युकालो भविष्यति । युवैव धर्मशीलः स्याद्यतोऽनित्यं हि जीवितम् ॥ ५१०॥ मातृपितृसहस्राणि पुत्रदारशतानि च । अनेकशोऽप्यतीतानि कस्य त्वं कस्य तानि च ॥ ५११॥ विष्णुपु०-भगीरथाद्याः सगरः व कुत्स्थो दशाननो राघव लक्ष्मणौ च । युधिष्ठिराद्याश्च बभूवुरेते सत्यं न मिथ्याक्वनु तेन विनः॥ एतद्विदित्वा न नरेण कार्य ममत्वमात्मन्यपि पण्डितेन । तिष्ठन्तु तावत्तनयात्मजाद्याः क्षेत्रादयो ये तु शरीरतोऽन्ये ॥ ५१३ ॥ स्कन्द०-देहो यथाऽस्मदादीनां रक्षकालेन विलीयते । ब्रह्माहिमशकान्तानां रुकालाल्लियते तथा ॥ ५१४ ॥ ॐॐॐॐ556 For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वेदा हुश. ॥१९॥ मनु०मिता www.kobatirth.org इतिहा० - न स कश्चिदुपायोऽस्ति देवो वा मानुषोऽपि वा । येन मृत्युवशं प्राप्तो जन्तुः पुनरिहाव्रजेत् ।। ५१५ ।। बालांच यौवनस्थां वृद्धान्गर्भगतानपि । सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ।। ५१६ ।। नायमत्यन्तसंवासः कस्यचित्केनचित्सह । अपि स्वेम शरीरेण किमुतान्येन केनचित् ।। ५१७ ।। पण्डिते चैव मूर्खे च बलवत्यथ दुर्बले । ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ।। ५१८ ।। यथाहि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत् । विश्रम्य च पुनर्गच्छेत्तद्भूतसमागमः ॥ ५१९ ॥ समागमाः सापगमाः सर्वमुत्पादि भङ्गरम् । कायः संनिहितापायः सम्पदः पदमापदाम् ।। ५२० ॥ भाग - गृहेषु कूटधर्मेषु दुःखतन्त्रेषु तन्द्रितः । कुर्वन्दुःखमतीकारं सुखं तन्मन्यते गृही ॥ ५२१ ॥ पुत्रदारधनार्थधीन परं विन्दते मूढः । • भ्राम्यन्संस्कारवर्त्मसु ।। ५२२ ।। केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिश्रं चरमं तमसः पदम् ।। ५२३ ॥ पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कुण्डनी चैव कुम्भश्च बध्यते यास्तु पाहयन् ।। ५२४ ।। गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यां तदाऽरण्यं समाश्रयेत् ।। ५२५ ।। चान्द्रायणैर्नयेत्कालं कृच्छ्रेर्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ।। ५२६ ॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहस्स्थीयतां रे रे चित्त ! कुटुम्बपालनविधौ को वाधिकारस्तव । यस्यैताः पुरतः प्रसारितदृशः प्राणप्रियाः पश्यतो नीयन्ते यमकिङ्करैः करतलादाच्छिय पुत्रादयः ॥ ५२७ ॥ विष्णुपु०—यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट् चापि मैत्रेय ! स ननः पापकृन्नरः ।। ५२८ ।। भाग० Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१९॥ Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra मिता० www.kobatirth.org नित्यानां कर्मणां विप्र ! यस्य हानिरहर्निशम् । अकुर्वन्विहितं कर्म शक्तः पतति तद्दिने ।। ५२९ ।। संवत्सरं क्रियाहानिर्यस्य पुंसः प्रजायते । तस्याविलोकनात्सूर्यो निरीक्ष्यः साधुभिः सदा ॥ ५३० ।। स्पृष्टे स्नानं सचेलस्य शुद्धिहेतुर्महामुने । पुंसो भवति तस्योक्ता न शुद्धिः पापकर्मणः ।। ५३१ ।। स्वप्याद्भूमौ रात्रौ दिवसं प्रपदैर्नयेत् । स्थानासनविहारैर्वा योगाभ्यासेन वा पुनः || ५३२ ॥ ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशय: । आर्द्रवासास्तु हेमन्ते शक्त्या वा तपसश्वरेत् ।। ५३३ ।। यः कण्टकैर्वितुदति चन्दनैर्यश्च लिम्पति । अनुष्टोऽपरितुष्टश्च समस्तस्यव ।। ५३४ ॥ ग्रामादाहृत्य वा ग्रासानष्टौ भुञ्जते वाग्यतः । अशक्तौ वा मुनेर्भक्तं वानप्रस्थस्य षोडश ॥ ५३५ ॥ कुटुम्बपुत्रदारं च वेदाङ्गानि च सर्वशः । केशान्यज्ञोपवीतं च त्यक्त्वा शूद्रं चरेन्मुनिः || ५३६ ॥ एको भिक्षुर्यथोक्तस्तु द्वावेव मिथुनं स्मृतम् । त्रयो ग्रामः समाख्यात उर्ध्वं तु नगरायते ॥ ५३७ ॥ राजवार्त्तादि तेषां च भिक्षावार्ता परस्परम् । अतिपैशुन्यमात्सर्ये सन्निकर्षान्न संशयः ॥ ५३८ ॥ एकरात्रं वसेद्ग्रामे नगरे पञ्चरात्रकम् । वर्षाभ्योऽन्यत्र वर्षासु मासांश्चतुरो वसेत् ।। ५३९ ॥ अप्रमत्तश्वरेद्भैक्षं सायाह्नेऽनभिलक्षितः । रहिते भिक्षुकैर्ग्रामे यात्रामान्नमलोलुपः || ५४० ॥ सप्तागारां चरेद्भिक्षां प्रसह्येत न विस्तरे । भैक्षप्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ५४१ ।। न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ५४२ ॥ न तापसैर्ब्राह्मणैर्वा क्योभिरपि वा श्वभिः । आकीर्ण भिक्षुकैरन्यैरगारमुपसंव्रजेत् ॥ ५४३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा-४ ॥२०॥ अष्टौ भिक्षाः समादाय स मुनिः सप्त पञ्च वा । अद्भिः प्रक्षाल्य ताः सर्वास्ततोऽश्नीयाद्वाग्यतः ॥५४४॥ यतिपात्राणि मृद्वेणुदावलावुमयानि च । सलिलैः शुद्धिरेतेपां गोवालश्चावघर्षणम् ।। ५४५ ॥ अतेजसानि पात्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शोचं चमसानामिवाध्वरे ॥ ५४६ ॥ संनिरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय च । भयं हत्वा च भूतानाममृतीभवति द्विजः ॥ ५४७ ॥ भूपितोपि चरेद्धमै यत्र तत्राश्रमे वसन् । समः सर्वेषु भूतेषु न लिङ्गंधर्मकारणम् ॥ ५४८ ॥ विहितस्याननुष्ठानानिन्दितस्य च सेवनात् । अनिग्रहाचेन्द्रियाणां नरः पतनमृच्छति ॥ ५४९ ॥ प्रायश्चितमकुर्वाणाः पापेषु निरता नराः । अपश्चात्तापिनः कष्टानरकान्यान्ति दारुणान् ॥ ५५० ॥ प्रायश्चित्तं स्त्रियामर्द्ध वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यं सर्वपापेप्वयं विधिः ॥ ५५१ ॥ विप्रे तु सकलं देयं पादोनं क्षत्रिये स्मृतम् । वैश्येऽद्ध पाद एकस्तु शूद्रजातिषु शस्यते ॥ ५५२॥ देश कालं वयः शक्ति पापं चापेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता न निष्कृतिः ॥ ५५३ ॥ ऊनेकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेभ्राता पिता चान्यसहजनः ॥ ५५४ ॥ प्रायश्चित्तं यदानातं ब्राह्मणस्य महर्षिभिः । पादोनं क्षत्रियस्यार्द्ध वैध्ये पादं च शूद्रके ॥ ५५५॥ प्रायश्चित्तेऽध्यवसिते कर्त्ता यदि विपद्यते । पृतस्तदहन्येवासाविह लोके परत्र च ॥ ५५६ ॥ ब्राह्मणः क्षत्रियं हत्वा षट्वर्षाणि व्रतं चरेत् । वैश्यं हत्वा चरेदेवं व्रतं त्रैवार्षिकं द्विजः ॥ ५५७ ।। शूद्रं हत्वा चरेद्वर्ष वृषभैकादशाश्वगाः । मार्जारनकुलौ हत्वा चापं मण्डकमेव च ।। ५५८ ॥ For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पिता०- गोमुत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वाऽपरेऽहयुपवासः कृच्छंसान्तपनं च तत् ॥ ५५९ ॥ गोमुत्रमाषकानष्टौ गोमयस्य च षोडश । क्षीरस्थ द्वादश प्रोक्ता दध्नश्च दश कीर्तिताः ॥ ५६० ॥ गोमुत्रवघृतस्याष्ट तदद्ध तु कुशोदकम् । प्रणवेन समालोड्य पिबेत्तत्पणवेन तु ॥ ५६१ ॥ पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ५६२ ॥ पण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । व्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ।। ५६३ ।। तिथिवृद्धयाचरेत्पिण्डान्शुक्ले शशिसंख्यसंमितान् । एकैकं हासयेत्कृष्णे पिण्डं चान्द्रायणं चरेत् ॥ ५६४ ॥ उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्माता पिता चान्यसुहृज्जनः ॥ ५६५ ॥ मनु०- ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृन्मुच्यते पापात्तथा दानेन चापदि ॥ ५६६ ॥ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ ५६७ ॥ आदित्य पु०-मायश्चित्तस्य सर्वस्य पश्चात्तापो हि कारणम् । न तेन रहितं पापं गच्छतीति सुनिश्चितम् ॥ ५६८ ॥ प्रायश्चित्तं न तस्यास्ति दत्तैामशतैरपि । शिवद्रव्यपहरणं गुरोरप्यणुमात्रकम् ॥ ५६९ ॥ पद्मपु०- ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च । षट्सु षट्सु च मासेषु प्रायश्चित्तं तु यश्चरेत् ॥ ५७० ॥ निष्कल्मषो नरो वैश्य ! स कृतान्तं न पश्यति । प्रायश्चित्तमकृत्वेह नरो भवति नारकी ।। ५७१ ॥ द्रव्यमानं फलं तोयं शिवस्वं न स्पृशेत्क्वचित् । निर्माल्यं नैव संलक्षेत्कूपे सर्व च तक्षिपेत् ॥५७२।। ता०- औषधं स्नेहमाहारं ददद्गोब्राह्मणे द्विजः । दीयमाने विपत्तिः स्यान्न स पापेन लिप्यते ॥५७३।। READARSHA For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra बेटा ॥२१॥ www.kobatirth.org पद्मपु० विष्णुपु० बन्धने गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ ५७४ ॥ आक्रुष्टस्ताडितो वाऽपि धनैर्वापि वियोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ||५७५|| अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्ननु यं परिकीर्तयेत् ॥ ५७६ ।। आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥ ५७७ ॥ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्विषं पर्षदं व्रजेत् ||५७८ ॥ ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च । पट्सु षट्सु च मासेषु प्रायश्चित्तं तु यश्चरेत् ।। ५७९ ॥ निष्कल्मषो नरो वैश्य ! स कृतान्तं न पश्यति । प्रायश्चित्तमकृत्वेह नरो भवति नारकी ॥ ५८० ॥ - ततश्च नरका विम ! भुवोऽधः सलिलस्य च । पापिनो येषु पात्यन्ते तान्शृणु च महामुने ! ||५८१ ॥ रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विमोहितः || ५८२ || रुधिरान्धो वैतरणी कृमीशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुणः || ५८३ || तथा पूयवह: पाव वह्निज्वालो ह्यधः शिराः । संदंशः कृष्णमूत्रश्च तमवावीचिरेव च ।। ५८४ ।। श्वभोजनोऽथाप्रतिष्टोऽवीचिश्चैव तथाऽपरः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ।। ५८५ ।। यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ।। ५८६ ।। कूटसाक्षी तथाsसम्यक् पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ||५८७|| भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्वोच्छ्वासनिरोधकः || ५८८ || Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २१॥ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RRERSAR सुरापो ब्रह्महा हर्ता सुवर्णस्य च मूकरे । प्रयाति नरके यश्च तैः संसर्गमुपैति वै ।। ५८९ ॥ राजन्यवैश्यहा ताले तथैव गुरुतल्पगः । तप्तकुम्भे स्वसगामी हन्ति राजभटांश्च यः ॥ ५९० ॥ साध्वीविक्रयकृद्वन्धपाल: केशरिविक्रयी । तप्तलोहे तु पच्यन्ते यश्च भक्तं परित्यजेत् ।। ५९१ ॥ स्नुषासुताभिगामी च महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥५९२॥ स याति कृमिभोक्ष्ये वै कृमीशे च दुरिष्टकृत् । मनुष्यपितृदेवान्यः पर्यश्नाति नराधमः ॥ ५९३ ॥ लालाभक्ष्ये स यात्युग्रे शरकर्ता च रोधके । करोति कर्णिनो यस्तु यश्च खड्गादिकृन्नरः ॥ ५९४ ।। प्रयान्त्येते विशसने नरके भृशदारुणे । अप्सत्पतिगृहीता तु नरके यात्यधोमुखः ॥ ५९५॥ अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । वेगात्पूयवहे चैको मिष्टान्न भुग्नरः किलः ॥ ५९६ ।। लाक्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तमेव नरकं द्विज ! ॥ ५९७ ।। मार्जारकुक्कुटच्छागश्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ! ।। ५९८ ॥ रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । मूची माहिषिकश्चैव पर्वगामी च यो द्विजः ।। ५९९ ।। अगारदाही मित्रघ्नः शाकुनिमियाजकः । रुधिरान्धे पतन्त्येते मांस विक्रीणते तु ये ॥ ६००॥ मधुहा ग्रामहन्ता च याति वैतरणी नरः । धनयौवनमत्ताश्च मर्यादाभेदिनो हि ये ॥६०१॥ ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये । असिपत्रवनं याति वनच्छेदी वृथैव यः ॥ ६०२ ।। औरभ्रिको मृगव्याधो वह्निज्वाले निपात्यते । यान्त्येते द्विज ! तत्रैव ये चापाकेषु वहिदाः ॥ ६०३ ।। SHIKHASORRECOM For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा - ॥२२॥ UAEDUCE घतानां लोपको यश्च स्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ ६०४ ॥ दिवा स्वप्ने तु स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ।। ६०५ ॥ एते चान्ये च नरकाः शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ ६०६॥ तथैव पापान्येतानि तथाऽज्यानि सहस्रशः । भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ ६०७ ।। वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नरा । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ ६०८ ।। क्रकचैः पाध्यमानानां मृषायां चापि धम्यताम् । कुठारैः कृश्यमानानां भूमौ चापि निखन्यताम् ॥ ६.९॥ शूलेष्वारोप्यमाणानां व्याघ्रववत्रे प्रवेश्यताम् । गृधैः संभक्ष्यमाणानां द्वीपिभि चोपभुज्यताम् ॥ ६१० ॥ क्वाथ्यतां तैलमध्ये च क्लिश्यतां क्षारकर्दमे । उच्चानिपत्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ६११ ।। नरके यानि दुःखानि पापहेतृद्भवानि वै । प्राप्यन्ते नारकैविप्र ! तेषां संख्या न विद्यते ॥ ६१२ ॥ न केवलं द्विजश्रेष्ठ ! नरके दुःखपद्धतिः । स्वर्गेऽपि पापभीतस्य क्षयिष्णोर्नास्ति निवृत्तिः ॥ ६१३ ॥ इतिहा०—परुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असम्बद्धप्रलापाश्च नरा निरयगामिनः ॥ ६१४ ॥ ये परस्वापहर्तारः परस्वानाममूयकाः । परश्रियाऽवतप्यन्ते ते वै निरयगामिनः ॥ ६१५ ॥ कूपानां च तडागानां प्राणिनां च परन्तपाः । सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ६१६ ॥ काष्टैर्वा शकुभिर्वापि सूत्ररश्मिभिरेव वा । ये मार्गमुपरुन्धन्ति ते वै निरयगामिनः ॥ ६१७ ॥ कन्याविक्रयिणश्चाथ रसविक्रयिणस्तथा । विषविक्रयिणचैव नरा निरयगामिनः ।। ६१८ ॥ DUCAREOG ॥२२॥ For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मिता० मद्यमांसरता नित्यं गीतवाद्यरतारतथा । वृत्तसङ्गरताश्व नरा निरय गामिनः ॥ ६१९ ॥ ये शरीरमलानग्नो प्रक्षिपन्ति जले तथा । उद्याने पथि गोष्ठे वा ते वै निरयगामिनः ।। ६२० ॥ शस्त्राणां चैव कर्तारः शिल्पानां धनुषां तथा । विक्रेतारश्च राजेन्द्र ! ते वै निरयगामिनः ॥ ६२१ । अनाथं कृपणं हीनं रोगात वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निग्यगामिनः ।। ६२२ ॥ नियमान्समुपादाय ये पश्चादजितेन्द्रियाः । विलोपयन्ति तान्भूयस्ते वै निरयगामिनः ॥ ६२३ ॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पमः। एते महापातकिनो यश्च नैः सह संवसेत् ।। ६२४ ॥ आचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतलगः । छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रिया अपि ॥ ६२५ ॥ सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजाए च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ६२६ ।। नीचाभिगमनं गर्भपातनं भर्तहिंसनम् । विशेषपतनीयानि स्त्रीणामेतानि निश्चितम् । ६२७ ।। पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । असम्बद्धप्रलापी च मृगपक्षियु जायते ।। ६२८ ।। अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वपि जायते ॥ ६२९ ॥ असत्कार्यरतो धीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ६३० ॥ निद्रालुः क्रूरकृत्यश्च नास्तिको याचकस्तथा । प्रमादवान्भिन्नत्तो भवेत्तिर्यक्षु तामसः ॥ ६३१ ॥ तपःप्रभाव महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसव सुतसेन मुच्यन्ते किल्विषात्ततः ।। ६३२ ॥ IRECRUAR.COPERACK - For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वेदा हुश. ॥२३॥ www.kobatirth.org कीटाश्वाहिपतङ्गाश्च पशवश्व वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ।। ६३३ ॥ किञ्चिदेनः कुर्वन्ति मनोव कर्मभिर्जनाः । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः || ६३४ ॥ अथ कर्मणि. तुर्यारण्य०- यः करोत्यशुभं कर्म शुभं वा द्विजसत्तम ! । अवश्यं फलमाप्नोति पुरुषा नात्र संशयः ।। ६३५ ।। बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः । महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु ।। ६३६ ।। तिर्यग्योनिसहस्राणि गत्वा नरकमेव च । जीवाः संपरिवर्त्तन्ते कर्मबन्धनिबन्धनाः ।। ६३७ ॥ जन्तुस्तु कर्मभिः स्त्रैः स्वैः स्वकृतैः प्रेत्य दुःखितः । तदुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ।। ६३८ ॥ ततः कर्म समादत्ते पुनरन्यन्नवं बहु । पच्यते तु पुनस्तेन भुक्त्वाऽपच्यमिवातुरः || ६३९ ।। पद्मपु० - सत्यं वदामि ते प्रीत्या नरैः कर्म शुभाशुभम् । स्वकृतं भुज्यते वैश्य ! काले काले पुनः पुनः ।। ६४० ॥ एक करोति कर्माणि एकस्तत्फलमश्नुते । अन्यो न लिप्यते वैश्य ! कर्मणाऽन्यस्य कुत्रचित् ॥ ६४१ ॥ इतिहा०—- यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा शुभाशुभं कर्म कर्त्तारमधिगच्छति ॥ ६४२ ॥ ग्रहा रोगा विषं स्तेना राजानः शकुनास्तथा । पीडयन्ति नरं पश्चात् पीडितं पूर्वकर्मणा ।। ६४३ ॥ अरक्षितं तिष्ठति दैवरक्षितं सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथ हि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ॥ ६४४ ॥ नोद्यमानोऽपि पापेषु शुद्धात्मा न प्रवर्तते । वार्यमाणोऽपि पापेभ्यः पापात्मा पापमिच्छति ॥ ६४५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २३॥ Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा । तमेव भजते जन्तुरुपदेशो निरर्थकः || ६४६ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ६४७ ॥ मिता० - प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः ।। ६४८ || अहङ्कारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्माऽयं मुक्तपूर्वः कदाचन ॥ ६४९ ॥ मनु - यादृशेन तु भावेन यद्यत्कर्म निषेवते । तादृशेन शरीरेण तत्फलमथाश्नुते ।। ६५० ॥ अथ भावे. मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्ग मुक्तेर्निर्विषयं मनः ।। ६५१ ॥ विषयेभ्यः समाहृत्य विज्ञानात्मा महामुनिः । चिन्तयेन्मुक्तये येन परं ब्रह्म परेश्वरम् ॥ ६५२ ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।। ६५३ ।। एवमम्यच्च वै शिष्य ! युक्तधर्मोपलक्षणम् । यस्य योगः स वै योगी मुमुक्षुरभिधीयते ।। ६५४ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषा मानसनिग्रहात् ।। ६५५ ॥ मनसश्चेन्द्रियाणां च ये नित्यं संयमे रताः । त्यक्तलोभभयक्रोधास्ते नरा स्वर्गगामिनः ।। ६५६ ॥ दानमिज्या तपः शौचं तीर्थं वेदाः श्रुतं तथा । अशान्तमनसः पुंसः सर्वमेतदनर्थकम् ॥ ६५७ ॥ यस्य वाग्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा । स वै च सर्वमाप्नोति वेदान्तोपगतं फलम् || ६५८ ॥ वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ ६५९ ॥ विष्णुपु० - मिता - इति० - www.kobatirth.org मनु० For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir घेदा भाग० श. ॥२४॥ समाहितं यस्य मनःप्रशान्तं दानादिभिः किं बद तस्य कृत्यम् । असंयतं यस्य मनो विनश्येदानादिभिश्चेदपरं किमेभिः ॥६६० ॥ नाऽयं जनो मे सुखदुःखहेतुर्नदेवतात्मग्रहकर्मकालः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥६६१॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गङ्गा तस्य पराङ्मुखी ॥ ६६२ ॥ चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणः । ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गा विनाप्यसौ ॥ ६६३ ॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाऽप्याह कदाऽऽगत्य मामयं पावयिष्यति ।। ६६४ ॥ कामरागमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः । न ते जलेन शुद्धयन्ति स्नातास्तीर्थशतैरपि ॥ ६६५॥ स्नानं मददर्पकरं कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य नैवं स्नान्ति दमे रताः ॥ ६६६ ॥ गङ्गातोयेन सर्वेण मृत्पिण्डैश्च नगोपमैः । अमृतराचरञ्शौचं दुष्टभावो न शुध्यति ॥ ६६७ ॥ यावर्षसहस्रं तु अहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन वधको नेव शुध्यति ।। ६६८॥ मृदो भारसहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुराचाराः स्नातास्तीर्थशतैरपि ॥ ६६९ ॥ नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरं शुचिः ॥ ६७० ॥ न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म ज्ञानध्यानतपोजलैः॥ ६७१ ॥ मृत्तिकोदकसम्पर्काद्यदि शुध्यन्ति जन्तवः । कुलाल: सकुटुम्बोऽपि तर्हि स्वर्ग गमिष्यति ॥ ६७२ ॥ चेच्छुध्यन्ति बहिःस्नानादन्तःपापमलीमसाः । तत्सेत्स्यन्ति ध्रुवं मत्स्यमकराद्याः पुरैव हि ॥ ६७३ ॥ PARA For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir USAHAR आत्मानदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोनिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुध्यति चान्तरात्मा ॥ ६७४ ॥ स्कन्दपु०-नक्तं दिनं निमज्जन्तः कैवर्ताः किमु पावनाः ? । शतशोऽपि तथा स्नाता न शुद्धा भावदुषिताः ॥ ६७५ ॥ न जलाप्लुतदेहस्य स्नानमित्यभिधीयते । स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः ॥ ६७६ ॥ यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः । सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः ॥ ६७७ ॥ न शरीरमलन्यागानरो भवति निर्मलः । मानसे तु मले त्यक्ते भवत्यन्तः स निर्मलः ॥ ६७८ ॥ जायन्ते च म्रियन्ते च जलेष्वेव जलौकसः । न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः ॥ ६७९ ॥ विषयेप्वतिसंरागो मानसो मल उच्यते । ते वेव हि विरागोऽस्य नैर्मल्यं समुदाहृतम् ॥ ६८० ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानान्न शुभ्यति । शतशोऽथ जलैधीतं सुराभाण्डमिवाशुचि ॥ ६८१॥ दानमिज्या तपः शोचं नीर्थसेवा श्रुतं तथा । सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः ॥ ६८२ ॥ ज्ञानपूते ध्यानजले रागरोषमलापहे । यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ ६८३ ॥ पद्मपु०- अन्तःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् । किं पावनाः प्रकीर्यन्ते रासभा भस्मधुसराः ॥ ६८४ ॥ स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः । तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥ ६८५ ॥ स्कन्द- श्रीपर्वतादितीर्थानि धारातीर्थ तथापरम् । मानसान्यपि तीर्थानि सत्यादीनि च वै पिये ! ॥ ६८६ ॥ सत्यं तीर्थ क्षमा तीथ तीर्थमिन्द्रियनिग्रहः । सर्वभूतदया तीर्थ तीर्थ मार्दवमेव च ॥ ६८७ ।। CARECROCHETAURCED Awk For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा-1 ॥२५॥ UCRACRICARICH दानं तीर्थ दमस्तीर्थ सन्तोषस्तीर्थमुच्यते । ब्रह्मचर्य पर तीर्थ तीर्थ च प्रियवादिता ॥ ६८८ ।। परद्रोहधियो ये च परेाकारिणस्तथा । परोपतापिनो ये वै तेषां काशी न सिद्धये ॥ ६८९ ॥ परापवादशीलेन परदाराभिलाषिणा । तेन काशी न संसेव्या क काशी निरयः क सः ॥ ६९० ॥ अर्थार्थिनस्तु ये विप्रा ये च कामार्थिनो नराः । अतिमुक्तं न संसेव्यं मोक्षक्षेत्रमिदं यतः ।। ६९९ ॥ प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् । अहङ्कारविमुक्तश्च स तीर्थफलमश्नुते ॥ ६९२ ॥ अकोपनोऽमलमतिः सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ६९३ ।। अदम्भको निरारम्भो लब्धाहारो जितेन्द्रियः । विमुक्तः सर्वसङ्गेयः स तीर्थफलमश्नुते ॥ ६९४॥ यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् । विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ६९५ ॥ - न तीर्थेन तपोभिश्च कृतघ्नस्य हि निष्कृतिः । सहते यातनां घोरां स नरो नरके चिरम् ॥ ६९६ ॥ न तीर्थे पातकं कुर्यात्यजेत्तीर्थोपजीविकाम् । तीर्थे परिग्रहस्त्याज्यस्त्याज्यो धर्मस्य विक्रयः ॥ ६९७ ॥ दुर्जरं पातकं तीर्थ दुर्जनश्च प्रतिग्रहः । तीर्थे तु दुर्जरं सर्वमेतत्कृन्नरकं व्रजेत् ॥ ६९८ ॥ विष्णुभक्तिचन्द्रोदये०-सप्तस्नानि प्रोक्तानि स्वयमेव स्वयंभुवा । द्रव्यभावविशुद्धयर्थमृषीणां ब्रह्मचारिणाम् ॥ ६९९ ॥ मान्त्रं पार्थिवमाग्नेयं वायव्यं दिव्यमेव च । वारुणं मानसं चेति स्नानं सप्तविधं स्मृतम् ।। ७००॥ आपोहिष्ठेति वै मान्नं मृदालम्मं च पार्थिवम् । भस्मना स्नानमाग्नेयं स्नानं गोरजसानिलम् ॥ ७०१॥ आतपे सति या दृष्टिदिव्यस्नानं तदुच्यते । बहिर्नयादिषु स्नानं वारुणं प्रोच्यते बुधैः ॥ ७०२॥ ARCORRECex ॥२५॥ For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ध्यानं यन्मनसा विष्णोर्मानसं तत्प्रकीर्तितम् । अतः स्नानेषु सर्वेषु मानसं स्नानमुत्तमम् ॥ ७०३ |! स्नानां मानसं स्नानं मन्वाद्यैः परमं स्मृतम् । कृतेन येन मुच्यन्ते गृहस्था अपि ते द्विजाः ॥ ७०४ ।। अथ शौचे सत्यं शौचं तपः शौच शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं जलशौचं च पञ्चमम् || ७०५ ।। शुचि भूमिगतं तोयं शुचिर्नारी पतिव्रता । शुचिर्धर्मपरो राजा ब्रह्मचारी सदा शुचिः ॥ ७०६ ।। आरम्भे वर्तमानस्य मैथुनाभिरतस्य च । कुतः शौचं भवेत्तस्य ब्राह्मणस्य युधिष्टिर ! ।। ७०७ || यदोऽङ्गशोणितकपायितचीवराणां सन्मांसभक्षणविचक्षणदक्षिणानाम् । विद्वन्निकायगुणनिन्दनकोविदानां पावित्र्यमुत्तममहो ! द्विजपुङ्गवानाम् ।। ७०८ ॥ मनु० आपः स्वभावतो मेध्याः किंपुनर्वह्नितापिताः । ऋषयस्तत्प्रशंसन्ति शुद्धिमुष्णेन वारिणा ॥ ७०९ ॥ उष्णोदकेन शुद्धिः स्यान्मूर्त्तिद्वयस्य मीलनात् । शीताम्बुनापि शुद्धिःस्यान्मूर्त्तिर्माहेश्वरी यतः ॥ ७१० || नासूर्ये हि व्रजेन्मार्गे नादृष्टां भूमिमाक्रमेत् । परिपूताभिरद्भिश्व कार्य कुर्वीत नित्यशः ।। ७११ ।। दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिवेज्जलम् । सत्यपूतां वदेद्वाणीं मनःपूतं समाचरेत् ॥ ७१२ ॥ आदित्य पु० - आपः पूता भवन्त्येता वस्त्रपूता ध्रुवं यतः । ततोऽद्भः सर्वकार्याणि पूताभिः सर्वसिद्धये ॥ ७१३ || अहिंसा तु परो धर्मः सर्वेषां प्राणिनां यतः । तस्मात्सर्व प्रयत्नेन वस्त्रपूतेन कारयेत् ।। ७१४ ।। आसंवत्सरेण यत्पापं कैवर्तस्येह न जायते । एकाहेन तदामोति अप्तजलसङ्ग्रही ।। ७१५ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा- नगरपु०-कुसुम्भकुङ्कमाम्भोवन्निचित्तं सूक्ष्मजन्तुभिः । सुदृढेनापि वस्त्रेण शक्यं शोधयितुं जलम् ॥ ७१६ ॥ उत्तरमीमांसायाम्-लूतास्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । मूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ ७१७ ॥ ॥२६॥ मूक्ष्माणि जन्तूनि जलश्रयाणि जलस्य वर्णाकृतिसंश्रितानि। तस्माज्जलं जीवदयानिमित्तं निग्रन्थशूराः परिवर्जयन्ति ॥ ७१८ ॥ विंशत्यङ्गलमानं तु त्रिंशदङ्गलमायतौ । तद्वस्त्रं द्विगुणीकृत्य गालयेज्जलमापिबन् ।। ७१९ ।। तस्मिन्वस्त्रे स्थिताञ्जीवान्स्थापयेज्जलमध्यतः । एवं कृत्वा पिबेत्तोयं स याति परमां गतिम् ॥ ७२० ॥ दक्षस्मृ०- शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथान्तरम् ॥ ७२१ ॥ शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् । जलादि शौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ ७२२ ॥ याज्ञवल्क्य०-कालोऽग्निः कर्मकृद्वायुर्मनो ज्ञानं तपो जलम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ७२३ ।। मिता०- रश्मिरनी रजश्छाया गौरवो वसुधाऽनिलः । विशुषो मक्षिकास्पर्श व सः प्रसवने शुचिः ॥ ७२४ ॥ पन्थानश्च विशुद्धयन्ति सोमसूर्याशुमारुतैः । श्मश्रु चास्यगतं दन्तं सृकं त्यक्त्वा ततः शुचिः ॥ ७२५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्याप्रसपणे । आचान्तः पुनराचामेद्वासो व्युत्परिधाय च ॥ ७२६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्धयन्ति पक्केष्टकचितानि च ॥ ७२७॥ श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियश्चात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७२८ ॥ है। मनु०- मक्षिका विशुषश्छाया गौरश्वसूर्यरश्मयः । रजो भूर्वायुरश्मिश्च स्पर्शमेध्यानि निर्देशेत् ।। ७२९ ॥ CORECAUTOCALCUSA IP॥२६॥ For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SARASHISHASKAR क्षान्त्या शुद्धयन्ति विद्वांसो दानेनाकार्यकारिणः । प्रच्छन्नपापा जापेन तपसा वेदवित्तमाः ॥ ७३० ॥ अद्भिः गात्राणि शुद्धयन्ति मनः सत्येन शुद्धयति । विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुद्धथति ॥ ७३१ ॥ नित्यं शुद्धः कारुहस्तः पण्यं यच्च प्रसारितम् । ब्रह्मचारिगतं भक्षं नित्यं शुद्धमिति स्थितिः ॥ ७३२ ।। सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् । योऽर्थशुचिः शुचिः सोध न मुद्वारिशुचिः शुचिः ॥ ७३३ ॥ विष्णुभक्तिच०-विष्णूत्सवसमायातान्स्पृष्ट्वा हीनजनान्क्वचित् । न कार्या ह्यशुचेः शङ्का पुण्यास्ते भक्तिपाविताः ॥७३४॥ आविकं तु सदा वस्त्रं पवित्रं राजसत्तम ! । पितृदेवमनुष्याणां क्रियायां च विशिष्यते ॥ ७३५ ॥ धौताधौतं तथा दग्धं सन्धितं रजकाहृतम् । शुक्रमूत्ररक्त लिप्तं तथापि परमं शुचि ॥ ७३६ ॥ वि०॥ श्वानगर्दभचाण्डालान्मद्यभाण्डं रजस्वलाम् । देवार्च च संरपर्य सचेलं स्नानमाचरेत् ॥ ७३७ ॥ अथ चोयें. पद्मपु०- परस्वं तृणमानं च मनसापि न यो हरेत् । न पश्यन्ति विशांश्रेष्ठ ! ते नरकयातनाम् ॥ ७३८ ॥ मिता०- धान्यानधनचौर्याणि कृत्वा कामाद्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्राब्देन विशुद्धयति ॥ ७३९ ॥ मनुष्याणां च हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणेन वा ॥ ७४० ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मनि । चरेत्सान्तपनं कृच्छू तन्निर्गत्यात्मशुद्धये ॥ ७४१॥ भक्ष्यभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशाधनम् ।। ७४२ ॥ तृणकाष्टद्रुमाणां च शुष्कान्नस्य गुडस्य च । चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ७४३ ॥ For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir C वेदा ॥२७| मुषको धान्यहारी स्याद्यानमुष्टः फलं कपिः । जलं प्लवः पयः काको गृहकारी घुपस्करम् ॥ ७४४ ॥ मधु दंशः पलं गृध्रो गां गोधाऽग्नि वकस्तथा । श्वित्री वस्त्रं वा रसं तु चारी लवणहारकः ॥ ७४५ ॥ अथ देहाशुचित्वे. मिता०- शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे च पञ्च पेशीशतानि च ॥ ७४६ ॥ एकत्रिंशल्लक्षणानि तथा नवशतानि च । षट्पञ्चाशच्च जानीयात शिरा धमनिसंयुताः ॥ ७४७ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा पापानि कुर्वते ॥ ७४८ ॥ विष्णुपु०-मांसामुक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतो । देहे चेत्पीतिमान्मूढो भविता नरकेऽपि सः ॥ ७४९ ।। शवस्मृ०-शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः । शरीराच्छ्वते धर्मः पर्वतात्सलिलं यथा ।। ७५० ॥ अथ दन्तधावने. प्रतिपदर्शषष्ठीषु मध्यान्ते नवमीतिथौ । सङ्क्रान्तिदिवसे प्राप्ते न कुर्याइन्तधावनम् ॥ ७५१ ।। उपवासे तथा श्राद्धे न कुर्यादन्तपावनम् । दन्तानां काष्टसंयोगो हन्ति सप्तकुलानि वै ॥ ७५२ ॥ विष्णुभक्तिचन्द्र०-उपवासे तथा श्राद्धे न कुर्यादन्तधावनम् । दन्तानां काष्टसंयोगो हन्ति सप्त कुलानि वै ।। ७५३ ॥ प्रतिपदर्शषष्ठीषु नवम्यां दन्तधावनम् । पर्णैरन्यत्र काष्टैस्तु जिहोल्लेखः सदैव हि ॥ ७५४ ॥ अलामे दन्तकाष्टानां निषिद्धायां तथा तिथौ । अपां द्वादशगण्डुर्विदध्यादन्तधावनम् ॥ ७५५ ॥ ONUARCREDUCEDUCE96 ४॥२७॥ For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ब्रह्मचर्यमहिंसा च सत्यमामिषवर्जनम् । व्रते चैतानि चत्वारि चरितव्यानि नित्यशः ॥ ७५६ ॥ असकृजलपानात्तु ताम्बूलस्य च भक्षणात् । उपवास: प्रदुष्येत दिवा स्वापाच्च मैथुनात् ।। ७५७ ।। विवेकविलासे-व्यतिपाते रविवारे सङ्क्रान्तौ ग्रहणेन च । दन्तकाष्टं नवाष्ट्रकभूतपक्षान्तषड्युषु ॥ ७५८ ॥ काशश्वासजराजीणशोकतृष्णास्यपाकयुक् । तम कुरिछरोनेत्रहत्कर्णामयवानपि ।। ७५९ ॥ अथ क्षमायाम्. तुर्यारण्यके- क्षमा ब्रह्म क्षमा विद्या क्षमा भूतं च भावि च । क्षमा तपः क्षमा शौच क्षमयेदं धृतं जगत् ।। ७६० ॥ क्षमा यज्ञः क्षमा धर्मः क्षमा वेदाः क्षमा श्रुतम् । यस्तामेवं विजानीते स सर्व क्षन्तुमर्हति ॥ ७६१ ॥ तां क्षमामीदशी कृष्णे ! कथमस्मद्विधरत्यजेत् । यस्यां ब्रह्म च वेदाश्च सर्वमेव प्रतिष्ठितम् ।। ७६२ ।। अथ मांसे. मनु०- वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः । मांसानि च न खादेत तयोः पुण्यफलं समम् ।। ७६३ ।। मिताक्षरा०- सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विमो मुनिर्मासविवर्जनात् ॥ ७६४ ॥ भोक्ताऽनुमन्ता संरकर्ता क्रयिविक्रयिहिंसकाः । उपकर्ता घातयिता हिंसकश्चाटधाऽधम ! ॥ ७६५ ॥ यः स्वार्थ मांसपचनं कुरुते पापमोहितः । यावन्ति पशुरोमणि तावत्स नरकं व्रजेत् ॥ ७६६ ।। परमाणैस्तु ये प्राणान्स्वान्पुष्णन्ति हि दुर्धियः । आकल्पं नरकान्भुत्तवा भुज्यन्ते तत्र तैः पुनः ।। ७६७ ॥ For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा HISHASH ॥२८॥ जातु मांसं न भोक्तव्यं प्राणः कण्ठगतैरपि । भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च ॥ ७६८॥ क्व मांसं क्व शिये भक्तिः क्व मद्य वव शिवार्चनम् । मद्यमांसरतानां हि दरे तिष्ठति शङ्करः ॥ ७६९ ॥ चिखादिषति यो मांस प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ।। ७७० ॥ अशनीयन्सदा मांस दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली स रोपयितुमिच्छति ॥ ७७१ ॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एवं यन्मनुः ।। ७७२ ॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपकर्ता च खादकश्शेति घातकाः ॥ ७७३ ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ ७७४ ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव धातका यन्न वधको भक्षकं विना ।। ७७५ ॥ मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ।। ७७६॥ मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृध्रकव्याघ्रशृङ्गालास्तैर्गुरूकृताः ॥ ७७७ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहादम्यहम् । एतन्मांसस्य मांसत्वे निरुक्ति मनुरब्रवीत् ॥ ७७८ ॥ मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ।। ७७९ ।। ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ ७८० ॥ न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन हि ॥ ७८१ ॥ केचिन्मांसं मदामोहादश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि कल्पयन्ति यदुचिरे ॥ ७८२ ॥ A RE ॥२८॥ For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsun Gyanmandir ACHAR कृत्वा स्वयं वाप्युत्पाद्य परोपहृतमेव वा । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दुष्यति ॥ ७८२ ॥ मन्त्रसंस्कृतमप्यद्याद्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय हालाहललबोऽपि हि ॥ ७८४ ॥ अथ मद्ये. - सुरां पीत्वा द्विजो मोहादग्निवर्णो सुरां पिबेत् । तया सकाये निर्दग्धे मुच्यते किल्मिषात्ततः ॥७८६॥ तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् । गौडी माध्वी च पष्टी च विज्ञेया त्रिविधा सुरा ॥७८६॥ | मिता०- सुरां पीत्वा द्विजं हत्वा रुक्म हृत्वा द्विजन्मनः । संयोनं पतितर्गत्वा द्विजश्चान्द्रायणं चरेत् ।। ॥७८७ ॥ पतिलोकं न सा याति ब्राह्मणी या सुरां पिबेत् । इहैव सा शुनी गृध्री मूकरी चोपजायते ॥ ७८९ ।। मदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धी बन्धुरस्यापि दौर्भाग्येणेव कामिनी ।। ७८९ ।। पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ।। ७९० ॥ न जानाति परं स्खं वा मद्याच्चलितचेतनः । स्वामीयति बराकः स्वं स्वामिनं किङ्करीयति ॥ ७९१ ॥ मद्यपस्य शवस्येव लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥ ७९२ ॥ मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ ७९३ ॥ वारुणीपानतो यान्ति कान्तिकोर्तिमतिश्रियः । विचित्राश्चित्ररचना विलुठत्कजलादिव ॥ ७९४ ॥ भूतार्त्तवन्नरीनति रारटीति स शोकवत् । दाहज्वरातवद् भूमौ सुरापो लोलुठीति च ॥ ७९५ ॥ विदधत्यङ्गशैथिल्यं ग्लापयन्तीन्द्रियाणि च ।मूर्छामतुच्छां यच्छन्ति हाला हालाहलोपमा ॥ ७९६ ॥ For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा ॥२९॥ इति०- मिता० विवेकः संयमो ज्ञानं सत्यं शोचं दया क्षमा । मद्यात्मलीयते सर्व तृण्या वहिकणादिव ।। ७९७ ॥ दोषाणां कारण मद्यं मद्य कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ।। ७९८ ।। अथ मधुनि. यो ददाति मधु श्राद्ध मोहितो धर्मलिप्सया । स याति नरकं घोरं खादकैः सह लम्पटैः ।। ७९९ ॥ सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं मधुबिन्दुप्रभक्षणात् ।। ८०० ॥ मद्ये मांसे मधुनि च नवनीते बहिर्जीते । उत्पद्यन्ते विलीयन्ते सुमूक्ष्मा जन्तुराशयः ।। ८०१ ।।. मधु मांस च ये नित्यं वर्जयन्तीह मानवाः । जन्मप्रभृति मत्स्यांश्च सर्वे ते मुनयः स्मृताः॥ ८०२।। मधुमांसाशने कार्यः कृच्छ्रः शेषकृतानि च । प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।। ८०३ ।। मधु मांसं च योऽश्नीयाच्छ्राद्धं मूतकमेव च । प्राजापत्यं चरेत्कृच्छं व्रतशेष समापयेत् ।। ८०४ ॥ अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्कः स्वादयति माक्षिकम् ।। ८०५ ।। भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः सौनिकेभ्योऽतिरिच्यति ।। ८०६ ।। एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधृच्छिष्टं तदनन्ति न धार्मिकाः ॥ ८०७ ।। अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ ८.८ ॥ मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसाद्यन्ते यदास्वादाचिरं नरकवेदनाः ॥ ८०९ ॥ मक्षिकामुखनिष्ठयतं जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ ८१०।। म मांसं च योजनीयामद्भवम् । जुगुप्सनीय बनान्तभ्यः सौनिक I ||२९॥ For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SAHARSAGAR अन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तमाचं नवनीतं विवेकिभिः ॥ ८११ ।। एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥ ८१२ ॥ उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥ ८१३ ।। अथ मलके. मूलकेन समं चान्नं यस्तु भुङ्क्ते नराधमः । तस्य शुद्धिर्न विद्युत चान्द्रायणशतैरपि ॥ ८१४ ॥ यस्मिन्गृहे स दानार्थ मूलकः पच्यते जनः । श्मशानतुल्यं तद्वेश्म पितृभिः परिवर्जितम् ।। ८१५ ॥ पितॄणां देवतानां च यः प्रयच्छति मूलकम् । स याति नरकं घोरं यावदाभूतसंप्लवम् ॥ ८१६ ।। गोविन्दकीर्तने-अज्ञानेन कृतं देव ! मया मूलकभक्षणम् । तत्पापं यातु गोविन्द ! गोविन्द इति कीर्तनात् ॥८१७॥ गोवि०॥ यस्तु वृन्ताककालिगमूलकानां च भक्षकः । अन्तकाले स मृढात्मा न मां रमरिष्यति प्रिये ! ।। ८१८ ॥ मुक्तं हालाहलं तेन कृतं चाभक्ष्यभक्षणम् । तेन क्रव्यादनं देवि ! यो भक्षयति मूलकम् ।। ८१९ ।। रसोनं गृञ्जनं चैव पलाण्डं पिण्डमूलकम् । मत्स्यमांससुराश्चैव मूलकस्तु ततोऽधिकः ॥ ८२० ॥ त्रमांसं वरं भुक्तं न तु मूलकभक्षणम् । भक्षणामरकं गच्छे(र्जनात्स्वर्गमाप्नुयात् ।। ८२१ ।। नीलीक्षेत्रं वपेद्यस्तु मूलकं चोपदंशति । न तस्य नरकोत्तारो यावदिन्द्राश्चतुर्दश ।। ८२२ ।। मिता.- पलाण्टं विद् वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। ८२३ ।। ॐॐॐॐॐॐ For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वेदा कुन. ॥३०॥ www.kobatirth.org अथ रात्रि भोजने ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ।। ८२४ ॥ विवेकविलासे - भानोः करैरसंस्पृष्टमुच्छिष्टं प्रेतसञ्चरात् । सूक्ष्मजीवाकुलं वापि निशि भोज्यं न युज्यते ।। ८२५ ।। चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव सन्धानानन्तकायके || ८२६ ॥ नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर ! | तपस्विना विशेषेण गृहिगा तु विवेकिना ॥ ८२७ ॥ मृते स्वजनमात्रे सूतकं जायते किल । अस्तंगते दिवानाथे भोजनं क्रियते कथम् १ ॥ ८२८ ।। . रक्तीभवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ भोजनसत्कस्य ग्रासे तत्मांसभक्षणम् ॥ ८२९ ॥ आयुर्वेदे — इन्नाभिपद्मसंकोचचण्ड रोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ।। ८३० ॥ चनारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ॥ ८३१ ॥ आहाराज्जायते व्याधिः कूरगर्भश्व मैथुनात् । निद्रातो धननाशश्च स्वाध्याये मरणं भवेत् ।। ८३२ ।। तत्त्वं मत्वा न भोक्तव्यं रात्रौ पुंसा सुमेधसा । क्षेमं शौचं दयाधर्म स्वर्ग मोक्षं च वाञ्छता ॥ ८३३ ॥ दिवसस्याष्टमे भागे मन्दीभूते दीवाकरे । नक्तं तद्धि विजानीयान्न नक्तं निशि भोजनम् ॥ ८३४ ॥ नैवाहुति च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्री भोजनं तु विशेषतः ।। ८३५ ।। संध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ८३६ ॥ अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नायादिनात्यये ।। ८३७ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥३०॥ Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra %% %, www.kobatirth.org घोरान्धकाररुद्धाक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र मुञ्जीत को निशि ।। ८३८ ॥ मेघां पिपीलिका हन्ति युका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं कुष्टं रोगं च कोलिकः ॥ ८३९ ॥ कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः || ८४० ॥ विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दोषाः सर्वेषां निशि भोजने ॥ ८४१ ॥ नापेक्ष्य सूक्ष्मजन्तूनि निष्पमात्मा शुकान्यपि । अप्युद्यत्केवलज्ञानैनहितं यन्निशाशनम् ॥। ८४२ ॥ धर्मविव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥ ८४३ ॥ तेजोमयो भानुरितो वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ ८४४ ॥ संशसज्जीवसंघातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मूढात्मानः कथं नु ते ।। ८४५ ॥ वासरे च रजन्यां च यः खादमेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ ८४६ ॥ अहमुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥। ८४७ ॥ उलूककाकमार्जारगृधशम्बरशूकरा: । अहिश्चिकगोधाश्च जायन्ते रात्रिभोजनात् ।। ८४८ ॥ श्रूयते ह्यन्यत्र पवनास्यैव लक्ष्मणः । निशाभोजनशपथं कारितो बनमालया || ८४९ ॥ इति महाभारतस्मृतिपुराणादिगतधर्म लोकाः वस्तुतत्त्वविहीनानामाज्ञा सिद्धिविधायिनाम् । चातुर्वर्णोत्तमो विमः ख्यातः पूजितः सत्कृतः ॥ १ ॥ इमे ला हीनार वर्णेयः कदाचन ॥ २ ॥ कण देतेषु For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra वेदा डुश. ॥३१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षपातं परित्यज्य प्रस्तावेऽस्मिन्विचार्यते । न्यायमार्ग गर्नेः सद्भिर्युक्तायुक्तपरीक्षकैः ॥ ३ ॥ यता केनचिदुक्तम् सर्ववर्णप्रधाना ब्राह्मणा इति । तत्कोऽयं ब्राह्मणो नाम ? किं शरीरेण ? किं जात्या ? कि जीवन ? किं कुलेन ? किं योन्या ? कि ज्ञानेन ? किं शौचाचारेण ! किं तपसा ? किं संस्कारेण वा १ इति । एतेषां मध्ये केन ब्राह्मणो भवति ? इति ब्रवीतु कश्चिद्ब्राह्मणस्तत्पक्षपाती वा । शरीरेण तावन्न भवति ब्राह्मणः । कथम् ? ब्राह्मणक्षत्रियवैश्यशूद्रशरीराणामविशेषात् किं च शुक्रशोणितमज्जास्थिश्यामादिषर्णयौवनादीनां च भेदाभावात् किं च मृतस्य ब्राह्मणस्य शरीरदहने ज्ञातीनां तथाशेर्ब्रह्महत्या स्यात् । अतो ज्ञायते शरीरेण तावब्राह्मणो न भवति ।। जात्यापि तावदब्राह्मणो न भवति । कस्मात् १ नित्या जातिरबिनाशिनी च ब्राह्मणैरभिप्रेता तस्याः पतनविनाशौ च विद्येते; श्रूयते च मानवे धर्मे तस्याः पतनम् - सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणक्षीरविक्रयी ॥ १ ॥ इतरेषां तु पण्यानां विक्रयादधिकं पयः । ब्राह्मणस्त्वेकरात्रेण वैश्यभावं निगच्छति ॥ २ ॥ वृषलीफेनपीनस्य निःश्वासोपहतस्य च । तत्रैवातिप्रसक्तस्य निष्कृतिर्नोपलभ्यते ॥ ३ ॥ ऋतुकालमतिक्रम्य यो हि गच्छति मैथुनम् । स एव ब्रह्महा नाम हतं ब्रह्म तदात्मजम् ॥ ४ ॥ ऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य सूतकं च दिने दिने ॥ ५ ॥ For Private and Personal Use Only ॥३१॥ Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir किं चापरं दृश्यते-कैवर्तचर्मकाररजकशौण्डकादिब्राह्मणाः । यद्यपि तैाह्मणैस्तेषु गृहेषु भुक्तम्, नित्यत्वाद्वर्णानां कयं | पतनं भवेत्तस्याः ? अतो ज्ञायते-जात्या ब्राह्मणो न भवति, कस्मात ? वेदमन्वादिवचनात् । उक्तं च वेदे इन्द्रः पशुरासीत् तमायजन्तः शतेन लोकं जयन्त्यस्मिन् | शतेन लोको भविष्यति । तं जेम्यति । पशवोऽपि देवा आपद्यन्त इति । एवं यावत् -अग्निः पशुरासीत् इति पुनः पठितव्यम् । उक्तं च मनौ-अधीत्य चतुरो वेदान्साङ्गोपाङ्गान्सलक्षणान् । शूद्रात्प्रतिग्रहं कृत्वा खरो भवति ब्राह्मणः ॥ १॥ खरो द्वादशजन्मानि षष्टिजन्मानि शूकरः । श्वानः सप्ततिजन्मानि इत्येवं मनुरब्रवीत् ॥ २॥ भारते चोक्तम्-सप्तव्याधा दशार्णायां मृगाः कालंजरे गिरौ । चक्रवाकाः शरद्वीपे हंसा: सरसि मानसे । १॥ ते च जाता कुरुक्षेत्रे ब्राह्मणा वेदपारगाः । प्रस्थिता दीर्घमध्वानं ऋजवो ! मा विषीदथ ॥ २॥ पशवोऽपि यदा देवा देवा हि पशवस्तथा । ब्राह्मणाः स्युस्तथा श्वानः श्वानो ब्राह्मणा अपि ॥ ३॥ तथा मृगहंसचक्रवाकदर्शनसभावात् । ततो जानीमः-जीवेनापि ब्राह्मणो न भवति । कुलेनापि ब्राह्मणो न भवति मुनीनां कुलदोषप्रसङ्गात् । तथाचोक्तंश्रुतौ-हस्तिन्यामचलो जात उलुक्यां केशकम्बलः । अगस्त्योऽगस्तिपुष्पाच्च कोशिकः कुशसंस्तरात् ॥१॥ कठिनात्कठिनोजातः शरगुल्माच्च गौतमः । द्रोणाचार्यस्तु कलशात्तित्तिरिस्तित्तिरीसुतः॥२॥ रेणुका जनयेद्रामं ऋष्यशृङ्गं मृगी बने । कैवर्ती जनयेद्व्यासं कक्षीवन्तं च शुद्रिका ॥३॥ ORDECEMUCHER For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा ||३२|| RitCROCECREC%A4" विश्वामित्रं च चाण्डाली वशिष्ठं चैव उर्वशी । विप्रनातिकुलाभावे ये ते ख्याता द्विजोत्तमाः ॥ ४॥ म तेषामृषीणां ब्राह्मणी माता तेऽपि लोकस्य ब्राह्मणाः । अतः श्रुति प्रामाण्यात्कुलेनापि ब्राह्मणो न भवति । * ब्राह्मणाः प्राहुः-न योनौ ब्राह्मणानां प्रादुर्भावः, येन धर्मशाने एवं पठ्यते ब्राह्मणो मुखादासीबाहो राजन्यमित्यपि । उरस्त:स्यादयं वैश्यः शूद्रापद्भ्यामजायत ॥१॥ युक्त्या तावनिरूप्यते योन्या ब्राह्मणो न भवतीति । कस्मात् ? ब्राह्मणा ये मुखाज्जाताः पूज्या विषा भवन्ति ते । शूद्रा इवाधुना जाता योनिजा हि कथं द्विजाः ॥१॥ ब्राह्मणी कुत्रोद्भूता ? तस्मान्मुखादिति चेत् ? एवं तर्हि भगिन्या सह मैथुनमाचरितं ब्राह्मणः । अथवा ब्राह्मणवन्मुखोदभूता ब्राह्मणी न भवति, एवं सति अन्यत्रोत्पमा कथमब्राह्मणी ब्राह्मणं जनयेत् ।। किंचापरम्-'ब्रह्मणः पदयोः शूद्रो जात' इत्येव वैदिकी श्रुतिः । वयं तु छमः पादौ तौ सनतं देवतादीनां शिरोभिर भ्यर्च्यते, न कदाचिदपि मुखम् मुखं हि नित्य मेवाशुचिश्रावि दुर्गन्धि, तत्र जाताः कथं ब्राह्मणाः श्रेष्ठाः ? अत एवोच्यतेयोन्यापि ब्राह्मणो न भवति । ज्ञानेनापि ब्राह्मणो न भवति, किं पुनः शेषैः ? यत:-सर्वेऽपि पागोपालादयः स्वकार्यज्ञानसम्पमाः; ज्ञानं च पृथक पृथग उत्पद्यते; इति । य एव येन ज्ञानी, स एव तेन ब्राह्मणो भवति । ध्यन्ते च केचिच्छद्राः सन्तो वेदव्याकरणमीमांसकवैशेषिकप्रभृतिसर्वशास्त्रविदः । तेन ते ब्राह्मणा न भवन्तीति । तपसापि ब्राह्मणो न भवति । MKUMAR ३२॥ For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तपसा यदि भवेद्विः सिद्धसाधनमिष्यते । सर्वमेतत्तपोमूलं तपो हि दुरतिक्रमम् ।। १ ।। ते च तपोयुक्ता न भवन्तीति । तस्मात्तपसापि ब्राह्मणो न भवतीति । संस्कारेणापि ब्राह्मणो न भवति, कथमिति चेत् ? क्षत्रियाणां वैश्यानां सीमन्तोन्नयनजातकर्मादिविशेषाः क्रियन्त एव, न च मे ब्राह्मणा भवन्ति, वशिष्ठादीनां ब्राह्मणकुलादन्यत्रोत्पन्नानां च जातकर्मादि न कृतमेव, तेऽपि प्रवरा द्विजा भवन्त्येव । व्रतसंस्कारेणापि ब्राह्मणो न भवति । संग्रह श्लोका न शौचादिशरीरेण जातजीवकुले न च । तपसा ज्ञानयोन्याथ संस्कारैर्न द्विजो भवेत् ॥ १ ॥ न जटाभिर्न गात्रेण न जात्या नापि चान्यतः । गुणैः कुन्देन्दुविमलैर्व्रत नियमपरायणः ॥ २ ॥ यो वाहयति पापानि स वै ब्राह्मण उच्यते । दानशीलक्षमावीर्यध्यानप्रज्ञादयो गुणाः । यत्र सर्वे समासन्ति स वै ब्राह्मण उच्यते ॥ ३॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाम मात्रं स्यादिन्द्रगोपककीटवत् ॥ ४ ॥ तथाचोक्तं - धर्मशास्त्रे ० सत्यं ब्रह्म तपोब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदयाब्रह्म तद्धि ब्राह्मणलक्षणम् ॥ १ ॥ एकवर्णमिदं सर्वं पूर्वमासीद्युधिष्ठिरः । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ॥ २ ॥ शूद्रोऽपि शीलसम्पन्न गुणवान्ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाभ्रष्टः शूद्राऽपत्यसमो भवेत् ॥ ३ ॥ पञ्चेन्द्रियबलं घोरं यदि शूद्रोऽपि तीर्णवान् । तस्मै दानं प्रदातव्यं अप्रमेयं युधिष्ठिरः ॥ ४ ॥ न जातिदृश्यते राजन ! गुणाः कल्याणकारकाः । वृत्तस्थमपि चण्डालं तमेव ब्राह्मणं विदुः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KirtsAH0WRAM ब्राह्मणक्षत्रियवैश्यशूद्राश्चैव युधिष्ठिर ! निर्वृत्तश्चरति यो धर्म तमेव ब्राह्मण विदः ॥ ६॥ यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा ॥ ७॥ चतुर्वेदोऽपि यो विप्रः शुक्लं धर्म न सेवते । वेदभारधरो मूर्खः स वै ब्राह्मणगर्दभः ॥ ८॥ शूद्रात्तत्मेष्यकारिणो ब्राह्मणस्य युधिष्ठिर ! | भूमावनं प्रदातव्यं यथा श्वानस्तथैव सः ॥ ९ ॥ कृषिवाणिज्यगोरक्षा राजसेवां चिकित्सितम् । ये विप्राः प्रतिपद्यन्ते न ते कौन्तेय ! ब्राह्मणाः ॥१०॥ गोरक्षकान्बाणिजकान्प्रेष्यान्वार्द्धषिकांस्तथा । मैथुने च रतान्नित्यं विप्रान्शुद्रपदाचरेत् ॥ ११ ॥ तस्माच्छुतप्रामाण्याचातुर्वर्ण्य न युज्यते । यच्चोक्तं ब्राह्मणैः- तीर्थरनानभक्तरछेदगोव्रतभरमशयनगोमयभक्षणादिभिः पुण्यं भवतीति' तदपि न युज्यते; व्यासवचनात नोदकक्लिन्नगात्रो हि रनात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरशुचिः ॥१॥ चित्तमन्तर्गतंदुष्टं तीर्थस्नान शुद्धयति । शतशोऽपि जलधौंतं सुराभाण्डमिवाशुचि ॥ २ ॥ आत्मानदी भारत ! पुप्यतीर्था सत्योदका शीलतटादयोभिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुद्धयति चान्तरात्मा ॥३॥ भक्तच्छेदोऽप्यजीर्णादिदोषप्रतिपक्षभूतः, स पुण्यबुद्धया सेव्यमानः परं मोहाऽभिवृद्धये भवति, मोहश्च सर्वसंक्लेशानयहेतुः [8] इति त्याज्य एव । अथात्मकामैः मुखितस्य चित्तमाधीयते, समाहितचित्तस्य कुशलं प्रति चित्तं प्रवर्तते, न क्षुत्तृषाभिभृतस्प, | तस्मादभक्तच्छेदेन पुण्यं न भवति इति युक्तिरियम् । ॥३३॥ For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth org Acharya Shri Kailassagarsun Gyanmandir अथ कश्चिद्व्यात् 'श्रुनिस्मृतिनिहितो धर्मः सर्वथा न्याय्य एव' इति तन्न, कस्मात् ? यस्माद्यःमाणातिपातादिषु प्रवृत्तः, स त्याज्यः, विरुद्धत्वात् । यस्तु प्राणातिपातादेनिवृत्तः, स प्रायोऽविपरीतत्वात् । श्रुतिस्मृतिवेदवचनं तथाहि-वाजसोनयागे पठ्यते बृहदारण्यके-एतत्पदत्रय शिक्षयेदानं दमं दयामिति । तदेवं सौगतानां दानशीलक्षान्तिकरणाद्यास्याः प्रसिद्धाः । मानवे धर्मे पष्टेऽध्याये यतिधर्मोपदेशे पठ्यते दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः । धृतिः क्षमा दया स्तेयं शौचमिन्द्रिय निग्रहः । धीविद्या सत्यमक्रोधो दशमं धर्मलक्षणम् ॥ १॥ दशलक्षणानि धर्मस्य ये विमास्तमधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ २॥ तथा व्यासेनापि चतुष्टयलक्षणं कुर्वता पठितम् धर्मात्मा पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते । सर्वभूतहितः साधुरसाधु निर्दयः स्मृतः ॥ १ ॥ गच्छतस्तिष्ठतो वापि जाग्रतः स्वपितोऽपि वा । यन्न भूतहिताधायि रुज्जीवितमनर्थकम् ॥ २ ॥ मर्तव्यमिति यदुःखं पुरुषस्योपजायते । युक्तं तेनानुमामेन परोऽपि परिरक्षितम् ॥ ३ ॥ वरमेकस्य सवस्य प्रदत्ताऽभयदक्षिणा । न तु विषसहस्रेभ्यो गोसहरूमस कृतम् ॥ ४॥ सत्यं सत्यं पुनः सत्यमुक्षिप्य भुजमुच्यते । नास्ति नास्त्येव हि स्वार्थः परस्यार्थमकुर्वतः ॥५॥ न तत्वं वचनं सत्यं नातत्वं वचनं मृषा । यद्भूतहितमत्यन्तं तत्सत्यमितरन्मषा ॥ ६॥ यदेतत्सर्वमभिहित मुनिभिस्तत्सुगतवचनवल्लोके आदेयम, इदं तावविरुद्धवचनं न भवति । इदमपरमपिवचन विशेषेणावस्थित र For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥३४॥ %AUCLOSEXC दुर्गतिमार्गसूचकं तत्याज्यं बुधैः । तद्यथा सुत्रे तित्तिरिमाणके पाठ: 'पत्रिंशत्संवत्सरे स्थिते गृहपतिर्मंगयां यायात् । स तत्र यात्वा यान्मृगान्दन्ति ते तरसा समानीयाः पुरोदासी भवन्ति, इति यागकर्मणि । वेदे वाजसेनेयके पाठः-'चक्षुस्ते सुंधामि, वाचस्ते सुन्धामि, मेंदं ते सुन्धामि, कुतिं ते सुन्धामि, नाभि ते सुन्धामि, मनस्ते सुंधामि। Pउक्तं च सर्वशाखासु-षट्सहस्राणि युज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनानानि पशुभित्रिभिः ॥९॥ | उक्तं च यजुर्वेदे शतपथाध्याये-देवे सवितरि पुरुषमेधप्रकरणे नियुक्त पुरुषान्त्रप्रदक्षिणतः पुरुषेण नारायणेनाभिष्टौति'सहस्रशीर्षो वै पुरुषः, सहस्राभः, सहस्रशीर्षपदानि, शतेन षोडशान प्रथमं तावद्ब्राह्मणो ब्राह्मणमालभेत, क्षत्राय राजन्यम्, वैश्येभ्यो वैश्यम्, तपसे शूरम्, तमसे तस्करम्, नारकाय वीरहणं माप्यते क्लीपमित्येवमादीनां पुरुषाणां शतमालभेत् । उक्तंच-शतमालभेत, शतायुर्वं पुरुषः, शतेन्द्रियः शतवीर्यः, आयुर्वेद इन्द्रियं वीर्यपातन्यते इति सर्वाण्येतानि वचनानि प्राणातिपातसंसुचकानि । शतशाखः सापवेदः, तत्र मध्ये सौमित्रिकानां वेदे गोसवे दानोपदेशे पाठ:-'इदं ते सुभगे ! भगं मधुसर्पिषालिख्य ४| जिह्वया लेलिहामि, प्रजापतेमुखमेतत् द्वितीयम् । । तथा ऋग्वेदे च त्रयस्त्रिंशत्तमेऽध्याये ब्राह्मणहरिश्चन्द्रकथायां पठयते-नापुत्रस्य गतिरस्ति ' इति, 'सर्वे पशवो 8 विदुः तस्मात्पुत्रो मातरं स्वसारं वाभिरोहति, एष पन्था उभगा पशुषे धोरेयं पुत्रीणामाक्रमन्ति, विशेषकामास्तं पश्यन्ति पशवो है O M ॥३४॥ For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir बयांसि वा'। तस्माते मात्रापि सह मैथुनीभवन्ति । अथावरं वहिवायने पाठः प्रजापतिः स्वां दुहितरमभ्यकामयत् । मात्रेयस्मृतौ पठयते-न स्त्री दुष्यति जारेण नाग्निदहनकर्मणा । नापो मृत्रपुरीपेण न विप्रो वेदकर्मणा ॥१॥ बलात्कारोपभुक्ता वा चौरहस्तगतापिवा । स्वयं विप्रसिपमा वा यदि वा विप्रवादिता ॥ २॥ तत्याज्या दक्षिता नारी नास्यास्त्यागो विधीयते । त्रियो हि द्रव्यमतुलं नैता दुष्यन्ति केनचित् ॥३॥ मासि मासि रजो भूत्वा दुष्कृतान्यपकर्षति । पुष्पकाले उपासित्वा ऋतुकालेन शुद्धयति ॥ ४॥ मसवर्णेन यो गर्भो नारीयोनौ निष्पयते । अशुद्धा सा भवेमारी यावच्छत्यं न मुञ्चति ॥५॥ एतान्यपि काममिथ्याचारागम्यगमनप्रतिपादकानि वचनानि । उक्तं च मानवे धर्मशास्त्रे प्रथमेऽध्याये सृष्टिवादसम्रद्देशे सर्व ब्राह्मणस्येदं यत्किंचिजगति गतम् । श्रेष्ठेनाभिजनेनेदं सर्व ब्रामणोऽर्हति ।। स्वयमेव ब्राह्मणो भुते सर्वस्येदं ददाति च । यच्छेषं स्याब्राह्मणस्य भजते हीतरे जनाः ॥ १॥ एतान्यप्यदत्तादानप्रतिपादकानि वचनानि । न नर्मयुक्तं ह्यनृतं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनात्यये च पश्चानृतान्याहुरपातकानि ॥१॥ एतदपि मृषावादसंमूचकं वचनम् । तथा सौत्रायणीयनामाध्ययने विश्वरूपप्रश्नमध्यमकाण्डे दृष्टीकल्पे पठितम्-' तस्माज्यायांश्च कनीयांश्च, स्नुषा च श्वसुरश्च सुरां पीत्वा प्रललापतुः । आसवे मालव्यं हि पास्या वै मालव्यं ततो ब्राह्मणः सुरां पिवेत् । अतःसात्रायणीययज्ञे स्वगृहे मद्यसस्थानमनुष्ठीयते । For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तत्रैव सौत्रायणीयप्रकरणे पाठः-'नैव सुरांपीत्वा हिनस्ति, य एवंविधां सुरां पिबति प्रजापतिवीर्यमादधाति । एतानि मद्यवेदा- पानप्रतिपादकानि वचनानि । ॥३५॥ इदमपरं विरुद्धतरम् । 8] उक्तं च मनौ-ये शूद्रार्थमुपादाय अग्निहोत्रमुपासते । ते ऋत्विजो हि शूद्राणां ब्राह्मणादिषु गहिताः ॥१॥ न यज्ञार्थ क्वचिच्छूद्राद्विमो भक्षेत कुत्रचित् । यजमानो हि भक्षित्वा चण्डाल: प्रेत्य जायते ॥२॥ शुदादादाय निर्वापं ये पचन्ति द्विजातयः । ते यान्ति नरकं घोरं ब्रह्मतेजोविवर्जिताः॥३॥ शद्वान्नं शद्रसम्पर्क शूद्रेण च सहाशनम् । शूद्राज्ज्ञानागमो वापि स्वर्गस्थानपि पातयेत् ॥ ४॥ तपश्च अग्निहोत्रं च वैश्वदेवी तथाहुतिः । सर्व तन्नश्यते तस्य शद्रान्नपचने कृते ॥५॥ शद्वानरसपुष्टाङ्ग आहितानिश्च नित्यशः । जपः शान्तिःकुतश्चापि गतिर्वा न विद्यते ॥६॥ सर्वमेव एतच्छूद्रप्रतिग्रहादिकमनुष्ठीयते, न किंचिद्ब्राह्मणेन परित्यक्तम् । तस्मात्पाठमात्रमेव केवलमिति विरुद्धवचनं भवति । इदमपरं दोषान्तरम् । चैत्यक्षार्चनं पुमांश्चण्डालं वेदविक्रयिणम् । स्पृष्ट्वा देवलकं चैव सचेलो जलमाविशेत् ॥ १॥ चितिं च चितिकाष्टं च चाण्डालं यूपमेव च । स्पृष्ट्वा देवलकं विषं जलस्नानेन शुद्धयति ॥ २॥ रवि गणपति चैव इश्वरं इव जनाईनम् । चण्डिकां पूजयेद्यस्तु स वै देवलकः स्मृतः ॥ ३ ॥ SHERLOCK49973206754 AMARISSAARLARI For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ASHOGAUGUAGE प्रख्यापनं प्रत्ययन प्रश्नपूर्वः प्रतिग्रहः । याचनाध्ययनं चापि पड्विधो वेदविक्रयः ।। बृहस्पतिस्मृतावुक्तम्-मन्त्रभेदी पृथक्पाकी आदेशी वेदविक्रयी । तरुण्या योषितरत्यागी पञ्चते ब्रह्महाः स्मृताः ॥१॥ ___ आदिशन्ति च ये विप्रा नादिष्टाश्च पठन्ति ये । आदेशी पाठकश्चैव द्वावेतौ ब्रह्मघातकौ ॥ २॥ वेदाक्षराणि यावन्ति युज्यन्तेऽर्थस्य कारणात् । तावत्यो ब्रह्महत्यापि वेद विक्रयकारणात् ॥ ३ ॥ सातातपः प्राह-वेदविक्रयनिर्दिष्टं स्त्रीषु यचार्जितं धनम् । न देयं पितृदेवेभ्यो यच्च क्लीवादुपार्जितम् ॥ ४॥ येनस्मृतावुक्तम्-नैतांस्ततो निरीक्षेत चण्डालानन्त्यजान्ववचित् । सुवर्णरतेयिनां चैव वेदविक्रायिणं तथा ॥१॥ उक्तं च मनौ चतुर्थेऽध्याये०-शिल्पेन व्यवहारेण शूद्रपाठैश्च केवलैः । गोभिरश्चैश्च यानश्च कृष्या राजोपसेवनैः ॥ १॥ सत्यानृते नु वाणिज्यं एतैश्चापि स जीवति । सेवावृत्तिः समाख्याता तस्मात्तां परिवर्जयेत् ॥२॥ यमस्मृतौ पुनः पाठः-संवत्सरेण यत्पापं मत्स्याघाती समाप्नुयात् । एकाहेन तदाप्नोति सकृयुक्ते तु लागले ॥१॥ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ २ ॥ उक्तं च मनावेकादशमेऽध्याये न शूद्रराज्ये निवसेन्नाधर्मिकजनावृते । न षण्डकजनाक्रान्ते नोपमृष्टित्यजेभिः ॥१॥ तदेवं विरुद्धवचनेन सकलपृथिव्यामध्यवरथानं नास्तीति प्रतिपादितम् कि बहुना ? अनेन प्रकारेण चतुर्णा वर्णानां मध्ये बहिष्कृता ब्राह्मणाः, इत्यवसीयते ब्राह्मणोत्कर्षवादेनात्मानं यः प्रतिपाद्यते । स वक्तव्यः सदा सद्भिर्वेदयुक्तः सुभाषितैः ॥१॥ ASSROOMSASUMARCLX For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra __www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 36 // द्विजवदनचपेटां न्यायतत्त्वेषु मुद्रां श्रुतिपदकृतमात्राश्रेणिभङ्गैकदक्षाम् / द्विजसदसि निषण्णा यः समुत्कर्षतीमां क्षणभपि न पुरस्तात्तस्य तिष्ठन्ति विप्राः // 1 // द्विजवदनचपेटा वेदाङ्कशः सम्पूर्णः / कृतिरियं हेमचन्द्रसूरीणाम् // हरिभद्रमूरिविरचिता (इति प्रत्यन्तरे) xॐॐॐॐॐॐॐॐॐॐ For Private and Personal Use Only