SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir RRERSAR सुरापो ब्रह्महा हर्ता सुवर्णस्य च मूकरे । प्रयाति नरके यश्च तैः संसर्गमुपैति वै ।। ५८९ ॥ राजन्यवैश्यहा ताले तथैव गुरुतल्पगः । तप्तकुम्भे स्वसगामी हन्ति राजभटांश्च यः ॥ ५९० ॥ साध्वीविक्रयकृद्वन्धपाल: केशरिविक्रयी । तप्तलोहे तु पच्यन्ते यश्च भक्तं परित्यजेत् ।। ५९१ ॥ स्नुषासुताभिगामी च महाज्वाले निपात्यते । अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः ॥५९२॥ स याति कृमिभोक्ष्ये वै कृमीशे च दुरिष्टकृत् । मनुष्यपितृदेवान्यः पर्यश्नाति नराधमः ॥ ५९३ ॥ लालाभक्ष्ये स यात्युग्रे शरकर्ता च रोधके । करोति कर्णिनो यस्तु यश्च खड्गादिकृन्नरः ॥ ५९४ ।। प्रयान्त्येते विशसने नरके भृशदारुणे । अप्सत्पतिगृहीता तु नरके यात्यधोमुखः ॥ ५९५॥ अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः । वेगात्पूयवहे चैको मिष्टान्न भुग्नरः किलः ॥ ५९६ ।। लाक्षामांसरसानां च तिलानां लवणस्य च । विक्रेता ब्राह्मणो याति तमेव नरकं द्विज ! ॥ ५९७ ।। मार्जारकुक्कुटच्छागश्ववराहविहङ्गमान् । पोषयन्नरकं याति तमेव द्विजसत्तम ! ।। ५९८ ॥ रङ्गोपजीवी कैवर्तः कुण्डाशी गरदस्तथा । मूची माहिषिकश्चैव पर्वगामी च यो द्विजः ।। ५९९ ।। अगारदाही मित्रघ्नः शाकुनिमियाजकः । रुधिरान्धे पतन्त्येते मांस विक्रीणते तु ये ॥ ६००॥ मधुहा ग्रामहन्ता च याति वैतरणी नरः । धनयौवनमत्ताश्च मर्यादाभेदिनो हि ये ॥६०१॥ ते कृष्णे यान्त्यशौचाश्च कुहकाजीविनश्च ये । असिपत्रवनं याति वनच्छेदी वृथैव यः ॥ ६०२ ।। औरभ्रिको मृगव्याधो वह्निज्वाले निपात्यते । यान्त्येते द्विज ! तत्रैव ये चापाकेषु वहिदाः ॥ ६०३ ।। SHIKHASORRECOM For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy