SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बेटा ॥२१॥ www.kobatirth.org पद्मपु० विष्णुपु० बन्धने गोचिकित्सार्थे गूढगर्भविमोचने । यत्ने कृते विपत्तिः स्यात्प्रायश्चित्तं न विद्यते ॥ ५७४ ॥ आक्रुष्टस्ताडितो वाऽपि धनैर्वापि वियोजितः । यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातकम् ||५७५|| अकारणं तु यः कश्चिद्विजः प्राणान्परित्यजेत् । तस्यैव तत्र दोषः स्यान्ननु यं परिकीर्तयेत् ॥ ५७६ ।। आर्त्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥ ५७७ ॥ अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्रायश्चित्ती भवेत्पूतः किल्विषं पर्षदं व्रजेत् ||५७८ ॥ ज्ञाताज्ञातेषु पापेषु क्षुद्रेषु च महत्सु च । पट्सु षट्सु च मासेषु प्रायश्चित्तं तु यश्चरेत् ।। ५७९ ॥ निष्कल्मषो नरो वैश्य ! स कृतान्तं न पश्यति । प्रायश्चित्तमकृत्वेह नरो भवति नारकी ॥ ५८० ॥ - ततश्च नरका विम ! भुवोऽधः सलिलस्य च । पापिनो येषु पात्यन्ते तान्शृणु च महामुने ! ||५८१ ॥ रौरवः सूकरो रोधस्तालो विशसनस्तथा । महाज्वालस्तप्तकुम्भो लवणोऽथ विमोहितः || ५८२ || रुधिरान्धो वैतरणी कृमीशः कृमिभोजनः । असिपत्रवनं कृष्णो लालाभक्ष्यश्च दारुणः || ५८३ || तथा पूयवह: पाव वह्निज्वालो ह्यधः शिराः । संदंशः कृष्णमूत्रश्च तमवावीचिरेव च ।। ५८४ ।। श्वभोजनोऽथाप्रतिष्टोऽवीचिश्चैव तथाऽपरः । इत्येवमादयश्चान्ये नरका भृशदारुणाः ।। ५८५ ।। यमस्य विषये घोराः शस्त्राग्निभयदायिनः । पतन्ति येषु पुरुषाः पापकर्मरताश्च ये ।। ५८६ ।। कूटसाक्षी तथाsसम्यक् पक्षपातेन यो वदेत् । यश्चान्यदनृतं वक्ति स नरो याति रौरवम् ||५८७|| भ्रूणहा पुरहन्ता च गोघ्नश्च मुनिसत्तम । यान्ति ते नरकं रोधं यश्वोच्छ्वासनिरोधकः || ५८८ || Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only २१॥
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy