SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SAHARSAGAR अन्तर्मुहूर्तात्परतः सुसूक्ष्मा जन्तुराशयः । यत्र मूर्छन्ति तमाचं नवनीतं विवेकिभिः ॥ ८११ ।। एकस्यापि हि जीवस्य हिंसने किमघं भवेत् । जन्तुजातमयं तत्को नवनीतं निषेवते ॥ ८१२ ॥ उदुम्बरवटप्लक्षकाकोदुम्बरशाखिनाम् । पिष्पलस्य च नाश्नीयात् फलं कृमिकुलाकुलम् ॥ ८१३ ।। अथ मलके. मूलकेन समं चान्नं यस्तु भुङ्क्ते नराधमः । तस्य शुद्धिर्न विद्युत चान्द्रायणशतैरपि ॥ ८१४ ॥ यस्मिन्गृहे स दानार्थ मूलकः पच्यते जनः । श्मशानतुल्यं तद्वेश्म पितृभिः परिवर्जितम् ।। ८१५ ॥ पितॄणां देवतानां च यः प्रयच्छति मूलकम् । स याति नरकं घोरं यावदाभूतसंप्लवम् ॥ ८१६ ।। गोविन्दकीर्तने-अज्ञानेन कृतं देव ! मया मूलकभक्षणम् । तत्पापं यातु गोविन्द ! गोविन्द इति कीर्तनात् ॥८१७॥ गोवि०॥ यस्तु वृन्ताककालिगमूलकानां च भक्षकः । अन्तकाले स मृढात्मा न मां रमरिष्यति प्रिये ! ।। ८१८ ॥ मुक्तं हालाहलं तेन कृतं चाभक्ष्यभक्षणम् । तेन क्रव्यादनं देवि ! यो भक्षयति मूलकम् ।। ८१९ ।। रसोनं गृञ्जनं चैव पलाण्डं पिण्डमूलकम् । मत्स्यमांससुराश्चैव मूलकस्तु ततोऽधिकः ॥ ८२० ॥ त्रमांसं वरं भुक्तं न तु मूलकभक्षणम् । भक्षणामरकं गच्छे(र्जनात्स्वर्गमाप्नुयात् ।। ८२१ ।। नीलीक्षेत्रं वपेद्यस्तु मूलकं चोपदंशति । न तस्य नरकोत्तारो यावदिन्द्राश्चतुर्दश ।। ८२२ ।। मिता.- पलाण्टं विद् वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ।। ८२३ ।। ॐॐॐॐॐॐ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy