SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वेदा कुन. ॥३०॥ www.kobatirth.org अथ रात्रि भोजने ये रात्रौ सर्वदाऽऽहारं वर्जयन्ति सुमेधसः । तेषां पक्षोपवासस्य फलं मासेन जायते ।। ८२४ ॥ विवेकविलासे - भानोः करैरसंस्पृष्टमुच्छिष्टं प्रेतसञ्चरात् । सूक्ष्मजीवाकुलं वापि निशि भोज्यं न युज्यते ।। ८२५ ।। चत्वारो नरकद्वाराः प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव सन्धानानन्तकायके || ८२६ ॥ नोदकमपि पातव्यं रात्रावत्र युधिष्ठिर ! | तपस्विना विशेषेण गृहिगा तु विवेकिना ॥ ८२७ ॥ मृते स्वजनमात्रे सूतकं जायते किल । अस्तंगते दिवानाथे भोजनं क्रियते कथम् १ ॥ ८२८ ।। . रक्तीभवन्ति तोयानि अन्नानि पिशितानि च । रात्रौ भोजनसत्कस्य ग्रासे तत्मांसभक्षणम् ॥ ८२९ ॥ आयुर्वेदे — इन्नाभिपद्मसंकोचचण्ड रोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ।। ८३० ॥ चनारि खलु कर्माणि सन्ध्याकाले विवर्जयेत् । आहारं मैथुनं निद्रां स्वाध्यायं च विशेषतः ॥ ८३१ ॥ आहाराज्जायते व्याधिः कूरगर्भश्व मैथुनात् । निद्रातो धननाशश्च स्वाध्याये मरणं भवेत् ।। ८३२ ।। तत्त्वं मत्वा न भोक्तव्यं रात्रौ पुंसा सुमेधसा । क्षेमं शौचं दयाधर्म स्वर्ग मोक्षं च वाञ्छता ॥ ८३३ ॥ दिवसस्याष्टमे भागे मन्दीभूते दीवाकरे । नक्तं तद्धि विजानीयान्न नक्तं निशि भोजनम् ॥ ८३४ ॥ नैवाहुति च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्री भोजनं तु विशेषतः ।। ८३५ ।। संध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! । सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ ८३६ ॥ अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नायादिनात्यये ।। ८३७ ।। For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥३०॥
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy