________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वेदा
॥२९॥
इति०- मिता०
विवेकः संयमो ज्ञानं सत्यं शोचं दया क्षमा । मद्यात्मलीयते सर्व तृण्या वहिकणादिव ।। ७९७ ॥ दोषाणां कारण मद्यं मद्य कारणमापदाम् । रोगातुर इवापथ्यं तस्मान्मद्यं विवर्जयेत् ।। ७९८ ।।
अथ मधुनि. यो ददाति मधु श्राद्ध मोहितो धर्मलिप्सया । स याति नरकं घोरं खादकैः सह लम्पटैः ।। ७९९ ॥ सप्तग्रामे च यत्पापमग्निना भस्मसात्कृते । तदेतज्जायते पापं मधुबिन्दुप्रभक्षणात् ।। ८०० ॥ मद्ये मांसे मधुनि च नवनीते बहिर्जीते । उत्पद्यन्ते विलीयन्ते सुमूक्ष्मा जन्तुराशयः ।। ८०१ ।।. मधु मांस च ये नित्यं वर्जयन्तीह मानवाः । जन्मप्रभृति मत्स्यांश्च सर्वे ते मुनयः स्मृताः॥ ८०२।। मधुमांसाशने कार्यः कृच्छ्रः शेषकृतानि च । प्रतिकूलं गुरोः कृत्वा प्रसाद्यैव विशुध्यति ।। ८०३ ।। मधु मांसं च योऽश्नीयाच्छ्राद्धं मूतकमेव च । प्राजापत्यं चरेत्कृच्छं व्रतशेष समापयेत् ।। ८०४ ॥ अनेकजन्तुसंघातनिघातनसमुद्भवम् । जुगुप्सनीयं लालावत्कः स्वादयति माक्षिकम् ।। ८०५ ।। भक्षयन्माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः सौनिकेभ्योऽतिरिच्यति ।। ८०६ ।। एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधृच्छिष्टं तदनन्ति न धार्मिकाः ॥ ८०७ ।। अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ ८.८ ॥ मधुनोऽपि हि माधुर्यमबोधैरहहोच्यते । आसाद्यन्ते यदास्वादाचिरं नरकवेदनाः ॥ ८०९ ॥ मक्षिकामुखनिष्ठयतं जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ ८१०।।
म मांसं च योजनीयामद्भवम् । जुगुप्सनीय बनान्तभ्यः सौनिक
I
||२९॥
For Private and Personal Use Only