SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा १५॥ R उर्वशीगर्भसंभृतो वशिष्ठश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०५॥ शफरीगर्भसंभूतो वल्मीकश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माजातिरकारणम् ॥ ४०६॥ क्षत्रवंशसमुत्पन्नो विश्वामित्रो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०७॥ कलशीगर्भसंभृतो द्रोणाचार्यों महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०८ ।। न तेषां ब्राह्मणी माता न संस्कारश्च विद्यते । तपसा ब्राह्मणा जातास्तस्माज्जातिरकारणम् ॥ ४०९ ॥ शीलं प्रधानं न कुलं प्रधानं कुलेन कि शीलविवर्जितेन। बहवो नरा नीचकुलपमूताः स्वर्ग गताः शीलमुपेत्य धीराः ॥ ४१० ॥ मनु०- आचाराद्विच्युतो विमो न वेदफलमश्नुते । आचारेण तु संयुक्तः संपूर्णफलभाक स्मृतः ॥ ४११ ॥ आचाराल्लभते चायुराचारादीप्सितमजाः । आचाराद्धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ ४१२ ॥ दुराचारो हि पुरुषो लोके भवति निन्दितः । दुःखभागीव सतनं व्याधितोऽल्पायुरेव च ॥ ४१३ ॥ संरक्षणार्थ जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव संवीक्ष्य वसुधां चरेत् ।। ४१४ ॥ विष्णुपु०- नोर्च न तिर्यग् दूरं वा निरीक्षन्पर्यटेबुधः । युगमात्रं महीपृष्टे नरो गच्छेद्विलोकयन् ॥ ४१५ ॥ इति०- बहुना किमधीतेन नटस्येव दुरात्मना । तेनाधीतं श्रुतं सर्वं यो वृत्तमनुतिष्ठति ॥ ४१६ ॥ चतुर्य- कर्म शूद्रे कृषिवैश्ये सामः क्षत्रिये स्मृतः । ब्रह्मचर्यतपोमन्त्राः सत्यं चैव द्विजे तथा ॥ ४१७ ॥ 8| वाशि० स्मृ०-दीर्घवैरमसूया चासत्यं ब्राह्मणपणम् । पैशुन्यं निर्दयत्वं च जानीयाच्छ्द्रलक्षणम् ॥ ४१८ ॥ ECOG For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy