SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तपसा यदि भवेद्विः सिद्धसाधनमिष्यते । सर्वमेतत्तपोमूलं तपो हि दुरतिक्रमम् ।। १ ।। ते च तपोयुक्ता न भवन्तीति । तस्मात्तपसापि ब्राह्मणो न भवतीति । संस्कारेणापि ब्राह्मणो न भवति, कथमिति चेत् ? क्षत्रियाणां वैश्यानां सीमन्तोन्नयनजातकर्मादिविशेषाः क्रियन्त एव, न च मे ब्राह्मणा भवन्ति, वशिष्ठादीनां ब्राह्मणकुलादन्यत्रोत्पन्नानां च जातकर्मादि न कृतमेव, तेऽपि प्रवरा द्विजा भवन्त्येव । व्रतसंस्कारेणापि ब्राह्मणो न भवति । संग्रह श्लोका न शौचादिशरीरेण जातजीवकुले न च । तपसा ज्ञानयोन्याथ संस्कारैर्न द्विजो भवेत् ॥ १ ॥ न जटाभिर्न गात्रेण न जात्या नापि चान्यतः । गुणैः कुन्देन्दुविमलैर्व्रत नियमपरायणः ॥ २ ॥ यो वाहयति पापानि स वै ब्राह्मण उच्यते । दानशीलक्षमावीर्यध्यानप्रज्ञादयो गुणाः । यत्र सर्वे समासन्ति स वै ब्राह्मण उच्यते ॥ ३॥ ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाम मात्रं स्यादिन्द्रगोपककीटवत् ॥ ४ ॥ तथाचोक्तं - धर्मशास्त्रे ० सत्यं ब्रह्म तपोब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदयाब्रह्म तद्धि ब्राह्मणलक्षणम् ॥ १ ॥ एकवर्णमिदं सर्वं पूर्वमासीद्युधिष्ठिरः । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ॥ २ ॥ शूद्रोऽपि शीलसम्पन्न गुणवान्ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाभ्रष्टः शूद्राऽपत्यसमो भवेत् ॥ ३ ॥ पञ्चेन्द्रियबलं घोरं यदि शूद्रोऽपि तीर्णवान् । तस्मै दानं प्रदातव्यं अप्रमेयं युधिष्ठिरः ॥ ४ ॥ न जातिदृश्यते राजन ! गुणाः कल्याणकारकाः । वृत्तस्थमपि चण्डालं तमेव ब्राह्मणं विदुः ॥ ५ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy