SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा HISHASH ॥२८॥ जातु मांसं न भोक्तव्यं प्राणः कण्ठगतैरपि । भोक्तव्यं तर्हि भोक्तव्यं स्वमांसं नेतरस्य च ॥ ७६८॥ क्व मांसं क्व शिये भक्तिः क्व मद्य वव शिवार्चनम् । मद्यमांसरतानां हि दरे तिष्ठति शङ्करः ॥ ७६९ ॥ चिखादिषति यो मांस प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ।। ७७० ॥ अशनीयन्सदा मांस दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली स रोपयितुमिच्छति ॥ ७७१ ॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एवं यन्मनुः ।। ७७२ ॥ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपकर्ता च खादकश्शेति घातकाः ॥ ७७३ ॥ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वय॑स्तस्मान्मांसं विवर्जयेत् ॥ ७७४ ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव धातका यन्न वधको भक्षकं विना ।। ७७५ ॥ मिष्टान्नान्यपि विष्टासादमृतान्यपि मूत्रसात् । स्युर्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ।। ७७६॥ मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याधगृध्रकव्याघ्रशृङ्गालास्तैर्गुरूकृताः ॥ ७७७ ॥ मां स भक्षयिताऽमुत्र यस्य मांसमिहादम्यहम् । एतन्मांसस्य मांसत्वे निरुक्ति मनुरब्रवीत् ॥ ७७८ ॥ मांसास्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ।। ७७९ ।। ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ ७८० ॥ न धर्मो निर्दयस्यास्ति पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन हि ॥ ७८१ ॥ केचिन्मांसं मदामोहादश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि कल्पयन्ति यदुचिरे ॥ ७८२ ॥ A RE ॥२८॥ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy