________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥२॥
*****
KAREENASERECRUAR
*
अहर्निशं चित्तविनिग्रहे रताः स्वपुत्रदारेष्वपि त्यक्तबुद्धयः ।
अहंकृतेर्निर्गतचित्तवृत्तयस्तरन्ति संसारसमुद्रमश्रमम् ॥ ३८ ॥ भागवते- वलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिश्र चरमं तमसः पदम् ॥ ३९ ॥ चतुर्थारण्यके-ये नैव विद्यां न तपो न दानं न चापि मूढा नियमे यतन्ते ।।
नचाधिगच्छन्ति सुखानि भाग्यास्तेषामयं चैव परश्च नास्ति ॥ ४० ॥ मनुस्मृतौ-पुराणं मानवो धर्मः साङगो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि न हन्तव्यानि हेतुभिः ॥४१॥ कात्यायनस्मृतौ-स्मृतिवाक्यं यो मोहादज्ञानाद्वा सुखेच्छया। अतिक्रमेत पापात्मा महापातकदोषकृत् ॥ ४२ ॥ स्कन्दपुराणे-अष्टादशमु विद्यासु मीमांसा गरीयसी । तोपि तर्कशास्त्राणि पुराण तेभ्य एव च ॥ ४३॥ आदिपर्वणि-चत्वार एकतो वेदा भारतं चैकमेकतः । समागतैः सुरर्षिभिस्तुलामारोपितं पुरा ॥ ४४ ॥ महत्वे च गुरुत्वे च ध्रियमाणे यतोऽधिकम् । महत्वाद्धारवत्त्वाच महाभारतमित्यतः ॥४५॥
वेदाः प्रमाणं स्मृतयः प्रमाणं धर्मार्थयुक्तं वचनं प्रमाणम् ।
नैतत्त्रयं यस्य भवेत्प्रमाणं कस्तस्य कुर्याद्वचनं प्रमाणम् ॥ ४६ ॥ इतिहासे- तर्कोऽप्रतिष्ठः स्मृतयोऽवभिन्ना नासायषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥ ४७ ॥
यथा चतुर्भिः कनकं परीक्ष्यते निधर्षणच्छेदनतापताइनैः ।
***
*
२॥
For Private and Personal Use Only