________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
EMICRORECORE
पूजयेदुपदेष्टारं वस्त्रवित्तविभूषणः । ग्रन्थस्योद्यापने देया गौरुपस्करसंयुता ॥ २३ ॥ श्लोकार्द्र श्लोकपादं वा नित्यं भागवतोद्भवम् । पठेत् शृणोति यो भक्त्या गोसहस्रफलं लभेत् ॥२४॥ यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने ! । अष्टादशपुराणानां फलमाप्नोति मानवः ॥ २५॥
श्लोकं भागवतं वापि श्लोकार्द्ध पादमेव वा । लिखितं तिष्ठति यस्य गृहे तस्य सदा हरिः ॥ २६॥ तत्र च- कृते प्रवर्तते धर्मश्चतुष्पात्तज्जनैधृतः । सत्यं तपो दया दानमिति पादा विभोप ! ।। २७ ॥
अहिंसा सत्यमस्तेयमकामक्रोधलोभता । भूतप्रियहितेहा च धर्मोऽयं सार्ववर्णिकः ।। २८ ॥ विवेकविलासे-एकवर्ण यथा दुग्धं बहुवर्णासु धेनुषु । तथा धर्मस्य वैचित्र्यं तत्त्वमेकं परं पुनः ॥ २९॥ मिताक्षरायां-धर्मार्थ यतमानस्तु न चेच्छन्नातिमानवः । प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ३० ॥ मनुस्मृतौ-अहिंसा सत्यमस्तेयं शौचमिन्द्रियसंयमः । एतं सामासिकं धर्म चातुर्वण्र्येऽब्रवीन्मनुः ॥ ३१॥ आदिपर्वणि-अहिंसा सत्यवचनं क्षमा वेति विनिश्चितम् । ब्राह्मणस्य परो धर्मो वेदानां धर्मणादपि ॥ ३२॥
अहिंसा परमो धर्मः सर्वप्राणभृतां वरः । तस्मात् प्राणभृतः सर्वान्न हिंस्यात् ब्राह्मणः क्वचित् ॥ ३३ ॥ मिताक्षरायाम-अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ ३४॥
ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् । सेवेत यो हि निष्कामो योग्यतां स्वं मनो नयन् ॥ ३५ ॥ विष्णुपुराणे-अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ॥ ३६॥ इतिहासे- अहिंसकाः क्षान्तिपरायणास्तथा मुखेषु दुःखेषु समानबुद्धयः ।
ऋजुस्वभावा विषयेषु निःस्पृहाः तरन्ति संसारसमुद्रमश्रमम् ॥ ३७ ॥
AMERCESSORRECRUICK
H
RECRUCROC
For Private and Personal Use Only