________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
श्रीहेमचन्द्रसूरिविरचितवेदाशः॥
विशेषं विना महाभारतादौ । इतिहाससमुच्चयेश्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥१॥
श्लोकादन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ॥ २॥ पद्मपुराणे-कर्मणा मनसा वाचा सर्वाऽवस्थासु सर्वदा । परपीडां न कुर्वन्ति न ते यान्ति यमक्षयम् ॥ ३ ॥ स्कन्दपुराणे-परोपकरणं येषां जागर्ति हृदये सताम् । नश्यन्ति विपदस्तेषां संपदः स्युः पदे पदे ॥ ४ ॥
परोपकृत्या यो धर्मो धर्मो दानाद्धि संभवः । एकत्र तुलितो धात्रा तत्र पूर्वोऽभवद् गुरुः ॥५॥ परिनिर्मथ्य वाग्जालं निर्णीतमिदमेव हि । नोपकारात्परो धर्मो नाऽपकारादघं परम् ॥ ६॥
तीर्थस्नानैर्न सा शुद्धिर्बहुदानैर्न तत्फलम् । तपोभिरुस्तन्नाप्यमुपकृत्या यदाप्यते ॥ ७॥ विष्णुपुराणे-पुराणं वैष्णवं चैतत्सर्वकिल्विषनाशनम् । विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपसाधकम् ॥८॥
SS-ACHARIPOCRICIRII
For Private and Personal Use Only