SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वेदा- नगरपु०-कुसुम्भकुङ्कमाम्भोवन्निचित्तं सूक्ष्मजन्तुभिः । सुदृढेनापि वस्त्रेण शक्यं शोधयितुं जलम् ॥ ७१६ ॥ उत्तरमीमांसायाम्-लूतास्यतन्तुगलिते ये बिन्दौ सन्ति जन्तवः । मूक्ष्मा भ्रमरमानास्ते नैव मान्ति त्रिविष्टपे ॥ ७१७ ॥ ॥२६॥ मूक्ष्माणि जन्तूनि जलश्रयाणि जलस्य वर्णाकृतिसंश्रितानि। तस्माज्जलं जीवदयानिमित्तं निग्रन्थशूराः परिवर्जयन्ति ॥ ७१८ ॥ विंशत्यङ्गलमानं तु त्रिंशदङ्गलमायतौ । तद्वस्त्रं द्विगुणीकृत्य गालयेज्जलमापिबन् ।। ७१९ ।। तस्मिन्वस्त्रे स्थिताञ्जीवान्स्थापयेज्जलमध्यतः । एवं कृत्वा पिबेत्तोयं स याति परमां गतिम् ॥ ७२० ॥ दक्षस्मृ०- शौचं च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा । मृज्जलाभ्यां स्मृतं बाह्य भावशुद्धिस्तथान्तरम् ॥ ७२१ ॥ शौचमाभ्यन्तरं त्यक्त्वा भावशुद्धयात्मकं शुभम् । जलादि शौचं यत्रेष्टं मूढविस्मापनं हि तत् ॥ ७२२ ॥ याज्ञवल्क्य०-कालोऽग्निः कर्मकृद्वायुर्मनो ज्ञानं तपो जलम् । पश्चात्तापो निराहारः सर्वेऽमी शुद्धिहेतवः ॥ ७२३ ।। मिता०- रश्मिरनी रजश्छाया गौरवो वसुधाऽनिलः । विशुषो मक्षिकास्पर्श व सः प्रसवने शुचिः ॥ ७२४ ॥ पन्थानश्च विशुद्धयन्ति सोमसूर्याशुमारुतैः । श्मश्रु चास्यगतं दन्तं सृकं त्यक्त्वा ततः शुचिः ॥ ७२५ ॥ स्नात्वा पीत्वा क्षुते सुप्ते भुक्ते रथ्याप्रसपणे । आचान्तः पुनराचामेद्वासो व्युत्परिधाय च ॥ ७२६ ॥ रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुद्धयन्ति पक्केष्टकचितानि च ॥ ७२७॥ श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियश्चात्मनः । सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ ७२८ ॥ है। मनु०- मक्षिका विशुषश्छाया गौरश्वसूर्यरश्मयः । रजो भूर्वायुरश्मिश्च स्पर्शमेध्यानि निर्देशेत् ।। ७२९ ॥ CORECAUTOCALCUSA IP॥२६॥ For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy