________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पद्मपु
RECHAIRMER
गोबजे वा वने चापि ग्रामे वा नगरेऽपि वा । योऽग्नि समुत्सृजेत्मृढस्तं विद्यात् ब्रह्मघातकम् ॥ ११९ ॥ आत्मा विष्णुः समस्तानां वासुदेवो जगत्पतिः। तस्मान वैष्णवैः कार्या परहिंसा विशेषतः ॥ १२०॥ पवन्धवालवृद्धानां रोग्यनाथद्ररिद्रिणाम् । ये पुष्णन्ति सदा वैश्य ! ते मोदन्ते सदा दिवम् ॥ १२१ ॥ न देवेनैव दानश्च न तपोभिनवाऽध्वरैः । कथंचित्सद्गतिं यान्ति पुरुषाः प्राणहिंसकाः ॥ १२२ ॥ अहिंसा परमो धर्मः अहिंसैव परं तपः । अहिंसैव परं दानमित्याहुर्मुनयः सदा ॥ १२३ ॥ मशकान्मत्कुणान्देशान् यकादिप्राणिनस्तथा । आत्मौपम्येन रक्षन्ति पुरुषा ये दयालवः ॥ १२४ ॥ तप्ताङ्गारमयःकीलं मार्ग प्रेतां तरङ्गिणीम् । दुर्गतिं च न पश्यन्ति कृतान्तास्यं च ते नराः ॥ १२५ ॥ भूतानि येव हिंसन्ति जलस्थलचराणि च । जीवनाथ च ते यान्ति कालसूत्रं च दुर्गतिम् ॥ १२६ ॥ स्वमांसभोजनास्तत्र पूयशोणितफेनपाः । मज्जन्तश्च वसापके दष्टाः कीटैरयोरदैः ॥ १२७ ॥ परस्परं च खादन्तो ध्वान्ते चान्योन्यघातिनः । वसन्ति कल्पमेकं ते रटन्तो दारुणं भृशम् ॥ १२८ ॥ नरकानिर्गता वैश्य ! स्थावराः स्युश्चिरं तु ते । ततो गच्छन्ति ते क्रूरास्तिर्यग्योनिशतेषु च ॥ १२९ ॥ पश्चाद्भवन्ति जात्यन्धाः काणाः कुटजाश्च पङ्गवः । दरिद्रा अङ्गहीनाश्च मानुष्याः प्राणिहिंसकाः ॥ १३० ॥ तस्माद्वैश्य ! परद्रोहं कर्मणा मनसा गिरा । लोकद्वयसुखे सुर्यो धर्मज्ञो न समाचरेत् ॥ १३१॥ प्रविशन्ति यथा नद्यः समुद्रमजुवक्रगाः । सर्वे धर्मा अहिंसायां प्रविशन्ति तथा दृढम् ॥ १३२ ॥ स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । अभयं येन भूतेभ्यो दत्तं सर्वसुखावहम् ॥ १३३ ॥
RECEMOREACHECK
For Private and Personal Use Only