SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान्घृतम् । अविद्वान्मतिगृह्णानो भस्मीभवति दारुवत् ॥ २७८ ।। एककालं चरेद्रेक्ष्यं न प्रसज्येत विस्तरम् । भैक्षे प्रसक्तोहि यतिः प्रसज्येद्विषयेष्वपि ॥ २७९ ॥ अलामे न विषादी स्याल्लाभश्चेनं न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः ॥ २८० ॥ अल्पाशाभ्यवहारेण रहास्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवारयेत् ॥ २८१॥ अभिपुजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैस्तु यतिर्मुक्तोऽपि वञ्च्यते ॥ २८२ ॥ जीवितात्ययमापन्नो यो नमस्ति यतस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ २८३ ।। ब्रह्मचार्याहरेद्भक्षं गृहेभ्यः प्रयतोऽन्वहम् । भैक्षेण वतिनो वृत्तिरुपवाससमा मता ॥ २८४ ।। आदित्य-भेक्षेण वर्त्तनं नित्यं नैकान्नादी भवेदवती । उपवाससमा भिक्षा मोक्ता वै ब्रह्मचारिणाम् ॥ २८५ ॥ याज्ञव०- ब्रह्मचर्यस्थितो नैकमन्नमद्यादनापदि । दन्तधावनगीतादि ब्रह्मचारी विवजयेत् ॥ २८६ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ २८७ ।। भाग०-अलब्धा न विषदेत काले कालेऽशनं क्वचित् । लब्धा न हृष्येवृत्तिमानुभयं देवतन्त्रितम् ॥ २८८ ॥ चरेन्माधुकरी वृत्तिमपि ध्वान्तकुलादपि । एकान्नं नैव भुञ्जीत बृहस्पतिसमादपि ॥ २८९ ॥ अवधूतां च पूतां च मूर्खाद्यैः परिनिन्दिताम् । चरेन्माधुकरी वृत्तिं सर्वपापप्रणाशिनीम् ।। २९० ॥ नीली पटे जलं तके तथा गोर्लेच्छमन्दिरे । भिक्षान्नं पञ्चगव्यूतं पवित्राणि युगे युगे ॥ २९१ ॥ भृङ्गाघ्रातं यथा पुष्पं वत्सपीतं यथा पयः । भिक्षान्नं पञ्चगव्युतं पवित्राणि युगे युगे ॥ २९२ ॥ 955555 For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy