SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir चेदा ॥११॥ अथातिथी. मनु०- एकरात्रं तु निवसन्नतिथिाह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९३ ॥ कृत्वैतद्वलिकमैवमतिथिं पूर्वमाशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।। २९४ ।। विष्णुपु०- अतिथिर्यस्य भग्नाशो गृहाद्यात्यन्यतोमुखः । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥ २९५ ॥ दत्त्वा त्वयं विशिष्टेभ्यः क्षुधितेभ्यस्तथा गृही । प्रशस्तं शुद्धपात्रेभ्यो भुञ्जीताकुपितो नृपः ॥ २९६ ॥ धाता प्रजापतिः शक्रो बहिर्वसुगणोर्यमा । प्रविश्यातिथिमेते वै भुञ्जतेऽनं नरेश्वर ! ॥ २९७ ।। तस्मादतिथिपूजायां यतेत सततं नरः । स केवलमपं मुझे यो ह्यतिथिं विना ॥ २९८ ॥ मिताक्ष- सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेद्वाऽऽगतान्काले सखिसम्बन्धिवान्धवान् ।। २९९ ।। इतिहा०- सत्यं शौच तपोऽधीतं दत्तमिष्टं श्रुतं तथा । तस्य सर्वमिदं व्यर्थमतिथिं यो न पूजयेत् ॥ ३०॥ पद्मपु०- मूल् वा पण्डितो वाथ श्रोत्रियः पतितोऽथवा । ब्रह्मतुल्योऽतिथिवैश्य ! मध्याह्ने यः समागतः ।। ३०१॥ पथि श्रान्ताय विप्राय अन्यस्मै क्षुधिताय वा । प्रयच्छन्त्यन्नपानीयं ते नाके चिरवासिनः ॥ ३०२ ।। अतिथिर्विमुखो यस्य न याति गृहमागतः । मध्याह्ने वैश्य ! सायं वा स न याति यमालयम् ।। ३०३ ॥ नास्ति नास्ति वचः श्रुत्वा त्यक्त्वाऽऽशामतिथिजन् । आजन्मसञ्चितं पुण्यं गृह्णाति गृहमेधिनः ।। ३०४ ॥ नास्त्यतिथिसमी बन्धुर्नास्त्यतिथिसमं धनम् । नास्त्यतिथिसमो धर्मो नास्त्यतिथिसमो हितः॥ ३०५ ।। विवेक वि०- आस्तृिष्णाक्षुधाभ्यां यो वित्रस्तो वा स्वमन्दिरात् । आगतः सोऽतिथिः पूज्यो विशेषेण मनीषिणा ॥ ३०६ ॥ ARRORRECROCRACRECE ॥शा For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy