SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagarsuri Gyanmandir इतिहा० REACHERS ये तपसा प्रतप्यन्ते कौमारवतचारिणः । जितेन्द्रिया जितक्रोधा दुर्गाष्यतितरन्ति ते ॥ ३३६ ।। दम निश्रेयसं पाहुद्धा निश्चयदर्शिनः । ब्राह्मणस्य विशेषेण दो धर्मः सनातनः ॥ ३३७ ।। ये केचिनियमा लोके याश्च धर्मश्रुतिक्रियाः । सर्वयज्ञफलं चैव दमरतेभ्यो विशिष्यते ॥ ३३८ ॥ किमरण्येनादान्तस्य दान्तस्य तु किमाश्रमैः । यत्र यत्र वसेदान्तस्तदरण्यं तदाश्रमः ।। ३३९ ।। बनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पश्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ।। ३४० ॥ न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।। न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥ ३४१ ॥ दमे कृते सर्वमतं प्रजानां दमाद्विशिष्टं न च वस्तु किश्चित् । वेदाश्च शास्त्राणि च सर्वमेतदमेन हीनस्य निरर्थकानि ॥ ३४२ ॥ कामक्रोधौ विनिर्जित्य किमरण्येन करिष्यति ? । अथवा तावनिर्जित्य किमरण्येन करिष्यति ? ॥३४३ ॥ मातृवत्परदाराणि परद्रव्याणि लोष्टुवत् । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ३४४ ॥ मातृवत्परदारान्ये संपश्यन्ति नरोत्तमाः । न ते यान्ति विशांश्रष्ठ ! कदाचिद्यमयातनाम् ॥ ३४५ ॥ मनसापि परेषां यः कलत्राणि न सेवते । स हि लोकद्वयेनेव तेन वैश्य ! धरा धृता ॥ ३४६॥ तस्माद्धान्वितैस्त्याज्यं परदारोपसेवनम् । नयन्ति परदारास्तु नरकानेकविंशतिम् ।। ३४७ ॥ प० । पद्म पु० For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy