SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वेदा डुश. ॥३१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पक्षपातं परित्यज्य प्रस्तावेऽस्मिन्विचार्यते । न्यायमार्ग गर्नेः सद्भिर्युक्तायुक्तपरीक्षकैः ॥ ३ ॥ यता केनचिदुक्तम् सर्ववर्णप्रधाना ब्राह्मणा इति । तत्कोऽयं ब्राह्मणो नाम ? किं शरीरेण ? किं जात्या ? कि जीवन ? किं कुलेन ? किं योन्या ? कि ज्ञानेन ? किं शौचाचारेण ! किं तपसा ? किं संस्कारेण वा १ इति । एतेषां मध्ये केन ब्राह्मणो भवति ? इति ब्रवीतु कश्चिद्ब्राह्मणस्तत्पक्षपाती वा । शरीरेण तावन्न भवति ब्राह्मणः । कथम् ? ब्राह्मणक्षत्रियवैश्यशूद्रशरीराणामविशेषात् किं च शुक्रशोणितमज्जास्थिश्यामादिषर्णयौवनादीनां च भेदाभावात् किं च मृतस्य ब्राह्मणस्य शरीरदहने ज्ञातीनां तथाशेर्ब्रह्महत्या स्यात् । अतो ज्ञायते शरीरेण तावब्राह्मणो न भवति ।। जात्यापि तावदब्राह्मणो न भवति । कस्मात् १ नित्या जातिरबिनाशिनी च ब्राह्मणैरभिप्रेता तस्याः पतनविनाशौ च विद्येते; श्रूयते च मानवे धर्मे तस्याः पतनम् - सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणक्षीरविक्रयी ॥ १ ॥ इतरेषां तु पण्यानां विक्रयादधिकं पयः । ब्राह्मणस्त्वेकरात्रेण वैश्यभावं निगच्छति ॥ २ ॥ वृषलीफेनपीनस्य निःश्वासोपहतस्य च । तत्रैवातिप्रसक्तस्य निष्कृतिर्नोपलभ्यते ॥ ३ ॥ ऋतुकालमतिक्रम्य यो हि गच्छति मैथुनम् । स एव ब्रह्महा नाम हतं ब्रह्म तदात्मजम् ॥ ४ ॥ ऋतुकाले व्यतिक्रान्ते यस्तु सेवेत मैथुनम् । ब्रह्महत्याफलं तस्य सूतकं च दिने दिने ॥ ५ ॥ For Private and Personal Use Only ॥३१॥
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy