SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir मिता० मद्यमांसरता नित्यं गीतवाद्यरतारतथा । वृत्तसङ्गरताश्व नरा निरय गामिनः ॥ ६१९ ॥ ये शरीरमलानग्नो प्रक्षिपन्ति जले तथा । उद्याने पथि गोष्ठे वा ते वै निरयगामिनः ।। ६२० ॥ शस्त्राणां चैव कर्तारः शिल्पानां धनुषां तथा । विक्रेतारश्च राजेन्द्र ! ते वै निरयगामिनः ॥ ६२१ । अनाथं कृपणं हीनं रोगात वृद्धमेव च । नानुकम्पन्ति ये मूढास्ते वै निग्यगामिनः ।। ६२२ ॥ नियमान्समुपादाय ये पश्चादजितेन्द्रियाः । विलोपयन्ति तान्भूयस्ते वै निरयगामिनः ॥ ६२३ ॥ ब्रह्महा मद्यपः स्तेनस्तथैव गुरुतल्पमः। एते महापातकिनो यश्च नैः सह संवसेत् ।। ६२४ ॥ आचार्यपत्नी स्वसुतां गच्छंस्तु गुरुतलगः । छित्त्वा लिङ्गं वधस्तस्य सकामायाः स्त्रिया अपि ॥ ६२५ ॥ सखिभार्याकुमारीषु स्वयोनिष्वन्त्यजाए च । सगोत्रासु सुतस्त्रीषु गुरुतल्पसमं स्मृतम् ॥ ६२६ ।। नीचाभिगमनं गर्भपातनं भर्तहिंसनम् । विशेषपतनीयानि स्त्रीणामेतानि निश्चितम् । ६२७ ।। पुरुषोऽनृतवादी च पिशुनः परुषस्तथा । असम्बद्धप्रलापी च मृगपक्षियु जायते ।। ६२८ ।। अदत्तादाननिरतः परदारोपसेवकः । हिंसकश्चाविधानेन स्थावरेष्वपि जायते ॥ ६२९ ॥ असत्कार्यरतो धीर आरम्भी विषयी च यः । स राजसो मनुष्येषु मृतो जन्माधिगच्छति ॥ ६३० ॥ निद्रालुः क्रूरकृत्यश्च नास्तिको याचकस्तथा । प्रमादवान्भिन्नत्तो भवेत्तिर्यक्षु तामसः ॥ ६३१ ॥ तपःप्रभाव महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसव सुतसेन मुच्यन्ते किल्विषात्ततः ।। ६३२ ॥ IRECRUAR.COPERACK - For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy