SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SANA देवीपु० विष्णुपु०इति० ARRRRRRRRR यावत्यः पङ्क्तयस्तत्र पुस्तकेऽक्षरसंश्रिताः । तावतो नरकात्कल्पानुद्धृत्य नयते दिवि ॥ ४६४ ॥ स गुरुः स पिता माता स च चिन्तामणिः स्मृतः । यः शास्त्रोपायमाख्याय नरकेभ्यः समुद्धरेत् ॥४६५।। कस्तेन सदृशो लोके बान्धवो विद्यते परः । यस्य वारश्मिवृन्देन हृदयानश्यते तमः ।। ४६६ ॥ एकं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ४६७।। आनृशंस्यं क्षमा सत्यमर्हिसा दम आर्जव: । दानं प्रसादो माधुर्य सन्तोषश्च यमा दश ॥ ४६८॥ शौचमित्यातपः सत्यं स्वाध्यायोपस्थनिग्रहः । व्रतोपवासमौनं च स्नानं च नियमा दश ।। ४६९ ॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । हीविद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ।। ४७० ।। के के नु ब्राह्मणा प्रोक्ताः किं वा ब्राह्मणलक्षणम् । एतदिच्छाम्यहं ज्ञातुं तन्मे कथय सुव्रत ! ४७१ ।। पञ्चलक्षणसंपूर्ण इदृशो यो भवेद्विजः । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ॥ ४७२ ।। नवनीतं यथा दध्नश्चन्दनं मलयादितः । औषधिभ्योऽमृतं यद्वेदेवारण्यकं तथा ॥ ४७३ ।। तत्र ऋपभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, तपसा च प्राप्तं परमपदमिनि । यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ४७४ ॥ यदा सर्वानृतं त्यक्तं मृषा भाषा विवर्जिता । अनवद्यं च भाषेत ब्रह्म सम्पद्यते तदा ॥ ४७५ ॥ परद्रव्यं यदा दृष्ट्वा आकुले ह्यथवा रहः । धर्मकामो न गृहाति ब्रह्म सम्पद्यते तदा ॥ ४७६ ॥ देवमानुपतिर्यक्षु मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा ।। ४७७ ।। CAUSERS.COM ब्रह्मण्याह For Private and Personal Use Only
SR No.020883
Book TitleVedankush
Original Sutra AuthorHemchandracharya
AuthorVeerchand Prabhudas Pandit
PublisherHemchandracharya Sabha
Publication Year1918
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy