Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वेदा
||३२||
RitCROCECREC%A4"
विश्वामित्रं च चाण्डाली वशिष्ठं चैव उर्वशी । विप्रनातिकुलाभावे ये ते ख्याता द्विजोत्तमाः ॥ ४॥
म तेषामृषीणां ब्राह्मणी माता तेऽपि लोकस्य ब्राह्मणाः । अतः श्रुति प्रामाण्यात्कुलेनापि ब्राह्मणो न भवति । * ब्राह्मणाः प्राहुः-न योनौ ब्राह्मणानां प्रादुर्भावः, येन धर्मशाने एवं पठ्यते
ब्राह्मणो मुखादासीबाहो राजन्यमित्यपि । उरस्त:स्यादयं वैश्यः शूद्रापद्भ्यामजायत ॥१॥ युक्त्या तावनिरूप्यते योन्या ब्राह्मणो न भवतीति । कस्मात् ?
ब्राह्मणा ये मुखाज्जाताः पूज्या विषा भवन्ति ते । शूद्रा इवाधुना जाता योनिजा हि कथं द्विजाः ॥१॥ ब्राह्मणी कुत्रोद्भूता ? तस्मान्मुखादिति चेत् ? एवं तर्हि भगिन्या सह मैथुनमाचरितं ब्राह्मणः । अथवा ब्राह्मणवन्मुखोदभूता ब्राह्मणी न भवति, एवं सति अन्यत्रोत्पमा कथमब्राह्मणी ब्राह्मणं जनयेत् ।।
किंचापरम्-'ब्रह्मणः पदयोः शूद्रो जात' इत्येव वैदिकी श्रुतिः । वयं तु छमः पादौ तौ सनतं देवतादीनां शिरोभिर भ्यर्च्यते, न कदाचिदपि मुखम् मुखं हि नित्य मेवाशुचिश्रावि दुर्गन्धि, तत्र जाताः कथं ब्राह्मणाः श्रेष्ठाः ? अत एवोच्यतेयोन्यापि ब्राह्मणो न भवति ।
ज्ञानेनापि ब्राह्मणो न भवति, किं पुनः शेषैः ? यत:-सर्वेऽपि पागोपालादयः स्वकार्यज्ञानसम्पमाः; ज्ञानं च पृथक पृथग उत्पद्यते; इति । य एव येन ज्ञानी, स एव तेन ब्राह्मणो भवति । ध्यन्ते च केचिच्छद्राः सन्तो वेदव्याकरणमीमांसकवैशेषिकप्रभृतिसर्वशास्त्रविदः । तेन ते ब्राह्मणा न भवन्तीति ।
तपसापि ब्राह्मणो न भवति ।
MKUMAR
३२॥
For Private and Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76