Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 58
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir C वेदा ॥२७| मुषको धान्यहारी स्याद्यानमुष्टः फलं कपिः । जलं प्लवः पयः काको गृहकारी घुपस्करम् ॥ ७४४ ॥ मधु दंशः पलं गृध्रो गां गोधाऽग्नि वकस्तथा । श्वित्री वस्त्रं वा रसं तु चारी लवणहारकः ॥ ७४५ ॥ अथ देहाशुचित्वे. मिता०- शिराः शतानि सप्तैव नव स्नायुशतानि च । धमनीनां शते द्वे च पञ्च पेशीशतानि च ॥ ७४६ ॥ एकत्रिंशल्लक्षणानि तथा नवशतानि च । षट्पञ्चाशच्च जानीयात शिरा धमनिसंयुताः ॥ ७४७ ॥ सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते मूढा पापानि कुर्वते ॥ ७४८ ॥ विष्णुपु०-मांसामुक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतो । देहे चेत्पीतिमान्मूढो भविता नरकेऽपि सः ॥ ७४९ ।। शवस्मृ०-शरीरं धर्मसर्वस्वं रक्षणीयं प्रयत्नतः । शरीराच्छ्वते धर्मः पर्वतात्सलिलं यथा ।। ७५० ॥ अथ दन्तधावने. प्रतिपदर्शषष्ठीषु मध्यान्ते नवमीतिथौ । सङ्क्रान्तिदिवसे प्राप्ते न कुर्याइन्तधावनम् ॥ ७५१ ।। उपवासे तथा श्राद्धे न कुर्यादन्तपावनम् । दन्तानां काष्टसंयोगो हन्ति सप्तकुलानि वै ॥ ७५२ ॥ विष्णुभक्तिचन्द्र०-उपवासे तथा श्राद्धे न कुर्यादन्तधावनम् । दन्तानां काष्टसंयोगो हन्ति सप्त कुलानि वै ।। ७५३ ॥ प्रतिपदर्शषष्ठीषु नवम्यां दन्तधावनम् । पर्णैरन्यत्र काष्टैस्तु जिहोल्लेखः सदैव हि ॥ ७५४ ॥ अलामे दन्तकाष्टानां निषिद्धायां तथा तिथौ । अपां द्वादशगण्डुर्विदध्यादन्तधावनम् ॥ ७५५ ॥ ONUARCREDUCEDUCE96 ४॥२७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76