Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir USAHAR आत्मानदी संयमतोयपूर्णा सत्यावहा शीलतटा दयोनिः। तत्राभिषेकं कुरु पाण्डुपुत्र ! न वारिणा शुध्यति चान्तरात्मा ॥ ६७४ ॥ स्कन्दपु०-नक्तं दिनं निमज्जन्तः कैवर्ताः किमु पावनाः ? । शतशोऽपि तथा स्नाता न शुद्धा भावदुषिताः ॥ ६७५ ॥ न जलाप्लुतदेहस्य स्नानमित्यभिधीयते । स स्नातो यो दमस्नातः शुचिः शुद्धमनोमलः ॥ ६७६ ॥ यो लुब्धः पिशुनः क्रूरो दाम्भिको विषयात्मकः । सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः ॥ ६७७ ॥ न शरीरमलन्यागानरो भवति निर्मलः । मानसे तु मले त्यक्ते भवत्यन्तः स निर्मलः ॥ ६७८ ॥ जायन्ते च म्रियन्ते च जलेष्वेव जलौकसः । न च गच्छन्ति ते स्वर्गमविशुद्धमनोमलाः ॥ ६७९ ॥ विषयेप्वतिसंरागो मानसो मल उच्यते । ते वेव हि विरागोऽस्य नैर्मल्यं समुदाहृतम् ॥ ६८० ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानान्न शुभ्यति । शतशोऽथ जलैधीतं सुराभाण्डमिवाशुचि ॥ ६८१॥ दानमिज्या तपः शोचं नीर्थसेवा श्रुतं तथा । सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः ॥ ६८२ ॥ ज्ञानपूते ध्यानजले रागरोषमलापहे । यः स्नाति मानसे तीर्थे स याति परमां गतिम् ॥ ६८३ ॥ पद्मपु०- अन्तःकरणशुद्धा ये तान्विभूतिः पवित्रयेत् । किं पावनाः प्रकीर्यन्ते रासभा भस्मधुसराः ॥ ६८४ ॥ स स्नातः सर्वतीर्थेषु स सर्वमलवर्जितः । तेन क्रतुशतैरिष्टं चेतो यस्येह निर्मलम् ॥ ६८५ ॥ स्कन्द- श्रीपर्वतादितीर्थानि धारातीर्थ तथापरम् । मानसान्यपि तीर्थानि सत्यादीनि च वै पिये ! ॥ ६८६ ॥ सत्यं तीर्थ क्षमा तीथ तीर्थमिन्द्रियनिग्रहः । सर्वभूतदया तीर्थ तीर्थ मार्दवमेव च ॥ ६८७ ।। CARECROCHETAURCED Awk For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76