Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा । तमेव भजते जन्तुरुपदेशो निरर्थकः || ६४६ ॥ किं करोति नरः प्राज्ञः प्रेर्यमाणः स्वकर्मभिः । प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ॥ ६४७ ॥ मिता० - प्रतिजन्म यदभ्यस्तं दानमध्ययनं तपः । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते पुनः ।। ६४८ || अहङ्कारेण मनसा गत्या कर्मफलेन च । शरीरेण च नात्माऽयं मुक्तपूर्वः कदाचन ॥ ६४९ ॥ मनु - यादृशेन तु भावेन यद्यत्कर्म निषेवते । तादृशेन शरीरेण तत्फलमथाश्नुते ।। ६५० ॥ अथ भावे.
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धस्य विषयासङ्ग मुक्तेर्निर्विषयं मनः ।। ६५१ ॥ विषयेभ्यः समाहृत्य विज्ञानात्मा महामुनिः । चिन्तयेन्मुक्तये येन परं ब्रह्म परेश्वरम् ॥ ६५२ ॥ आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः । तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ।। ६५३ ।। एवमम्यच्च वै शिष्य ! युक्तधर्मोपलक्षणम् । यस्य योगः स वै योगी मुमुक्षुरभिधीयते ।। ६५४ ॥ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषा मानसनिग्रहात् ।। ६५५ ॥ मनसश्चेन्द्रियाणां च ये नित्यं संयमे रताः । त्यक्तलोभभयक्रोधास्ते नरा स्वर्गगामिनः ।। ६५६ ॥ दानमिज्या तपः शौचं तीर्थं वेदाः श्रुतं तथा । अशान्तमनसः पुंसः सर्वमेतदनर्थकम् ॥ ६५७ ॥ यस्य वाग्मनसे शुद्धे सम्यग्गुप्ते च सर्वदा । स वै च सर्वमाप्नोति वेदान्तोपगतं फलम् || ६५८ ॥ वाग्दण्डोऽथ मनोदण्डः कर्मदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥ ६५९ ॥
विष्णुपु० -
मिता - इति० -
www.kobatirth.org
मनु०
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76