Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
घेदा
भाग०
श. ॥२४॥
समाहितं यस्य मनःप्रशान्तं दानादिभिः किं बद तस्य कृत्यम् ।
असंयतं यस्य मनो विनश्येदानादिभिश्चेदपरं किमेभिः ॥६६० ॥ नाऽयं जनो मे सुखदुःखहेतुर्नदेवतात्मग्रहकर्मकालः । मनः परं कारणमामनन्ति संसारचक्रं परिवर्तयेद्यत् ॥६६१॥ चित्तं रागादिभिः क्लिष्टमलीकवचनैर्मुखम् । जीवहिंसादिभिः कायो गङ्गा तस्य पराङ्मुखी ॥ ६६२ ॥ चित्तं शमादिभिः शुद्धं वदनं सत्यभाषणः । ब्रह्मचर्यादिभिः कायः शुद्धो गङ्गा विनाप्यसौ ॥ ६६३ ॥ परदारपरद्रव्यपरद्रोहपराङ्मुखः । गङ्गाऽप्याह कदाऽऽगत्य मामयं पावयिष्यति ।। ६६४ ॥ कामरागमदोन्मत्ताः स्त्रीणां ये वशवर्तिनः । न ते जलेन शुद्धयन्ति स्नातास्तीर्थशतैरपि ॥ ६६५॥ स्नानं मददर्पकरं कामाङ्गं प्रथमं स्मृतम् । तस्मात्कामं परित्यज्य नैवं स्नान्ति दमे रताः ॥ ६६६ ॥ गङ्गातोयेन सर्वेण मृत्पिण्डैश्च नगोपमैः । अमृतराचरञ्शौचं दुष्टभावो न शुध्यति ॥ ६६७ ॥ यावर्षसहस्रं तु अहन्यहनि मज्जनम् । सागरेणापि कृत्स्नेन वधको नेव शुध्यति ।। ६६८॥ मृदो भारसहस्रेण जलकुम्भशतेन च । न शुध्यन्ति दुराचाराः स्नातास्तीर्थशतैरपि ॥ ६६९ ॥ नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः स बाह्याभ्यन्तरं शुचिः ॥ ६७० ॥ न मृत्तिका नैव जलं नाप्यग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म ज्ञानध्यानतपोजलैः॥ ६७१ ॥ मृत्तिकोदकसम्पर्काद्यदि शुध्यन्ति जन्तवः । कुलाल: सकुटुम्बोऽपि तर्हि स्वर्ग गमिष्यति ॥ ६७२ ॥ चेच्छुध्यन्ति बहिःस्नानादन्तःपापमलीमसाः । तत्सेत्स्यन्ति ध्रुवं मत्स्यमकराद्याः पुरैव हि ॥ ६७३ ॥
PARA
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76