Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 48
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा - ॥२२॥ UAEDUCE घतानां लोपको यश्च स्वाश्रमाद्विच्युतश्च यः । सन्दंशयातनामध्ये पततस्तावुभावपि ॥ ६०४ ॥ दिवा स्वप्ने तु स्कन्दन्ते ये नरा ब्रह्मचारिणः । पुत्रैरध्यापिता ये च ते पतन्ति श्वभोजने ।। ६०५ ॥ एते चान्ये च नरकाः शतशोऽथ सहस्रशः । येषु दुष्कृतकर्माणः पच्यन्ते यातनागताः ॥ ६०६॥ तथैव पापान्येतानि तथाऽज्यानि सहस्रशः । भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः ॥ ६०७ ।। वर्णाश्रमविरुद्धं च कर्म कुर्वन्ति ये नरा । कर्मणा मनसा वाचा निरयेषु पतन्ति ते ॥ ६०८ ।। क्रकचैः पाध्यमानानां मृषायां चापि धम्यताम् । कुठारैः कृश्यमानानां भूमौ चापि निखन्यताम् ॥ ६.९॥ शूलेष्वारोप्यमाणानां व्याघ्रववत्रे प्रवेश्यताम् । गृधैः संभक्ष्यमाणानां द्वीपिभि चोपभुज्यताम् ॥ ६१० ॥ क्वाथ्यतां तैलमध्ये च क्लिश्यतां क्षारकर्दमे । उच्चानिपत्यमानानां क्षिप्यतां क्षेपयन्त्रकैः ॥ ६११ ।। नरके यानि दुःखानि पापहेतृद्भवानि वै । प्राप्यन्ते नारकैविप्र ! तेषां संख्या न विद्यते ॥ ६१२ ॥ न केवलं द्विजश्रेष्ठ ! नरके दुःखपद्धतिः । स्वर्गेऽपि पापभीतस्य क्षयिष्णोर्नास्ति निवृत्तिः ॥ ६१३ ॥ इतिहा०—परुषाः पिशुनाश्चैव मानिनोऽनृतवादिनः । असम्बद्धप्रलापाश्च नरा निरयगामिनः ॥ ६१४ ॥ ये परस्वापहर्तारः परस्वानाममूयकाः । परश्रियाऽवतप्यन्ते ते वै निरयगामिनः ॥ ६१५ ॥ कूपानां च तडागानां प्राणिनां च परन्तपाः । सरसां चैव भेत्तारो नरा निरयगामिनः ॥ ६१६ ॥ काष्टैर्वा शकुभिर्वापि सूत्ररश्मिभिरेव वा । ये मार्गमुपरुन्धन्ति ते वै निरयगामिनः ॥ ६१७ ॥ कन्याविक्रयिणश्चाथ रसविक्रयिणस्तथा । विषविक्रयिणचैव नरा निरयगामिनः ।। ६१८ ॥ DUCAREOG ॥२२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76