Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrtn.org
Acharya Shn Kailassagarsur Gyanmandir
वेदा-18
॥४॥
यावन्ति पशुरोमाणि पशुगात्रेषु भारत ! । तावद्वर्षसहस्राणि पच्यन्ते पशुधातकाः ।। ८९ ।। मनु०-यावन्ति पशुरोमाणि तावत्कृत्वोत्र मारणम् । वृथा पशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ ९ ॥
शोणितं यावतः पांशून् संगृह्णाति महीतलात् । तावतोद्धानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ ९१॥ ताडयित्वा तृणेनापि संरम्भान्मतिपूर्वकम् । एकविंशतिमाजानीः पापयोनिषु जायते ॥ ९२॥ तामिस्रगन्धतामिसं महारौरवरौरवम् । नरकं कालमूत्रं च महानरकमेव च ॥ ९३ ॥ संजीवनमहावीची तपनं सांप्रपातनम् । संघातं च सकाकोलं कुल्मलं प्रतिमृत्तिकम् ॥ ९४ ॥ लोहशकुमृधीशं च पन्थानं शाल्मली नदीम् । अप्तिपत्रं वनं चैव लोहवारकमेव वै ॥ ९५॥ यो हिंसकानि भूतानि हिनस्त्यात्मसुखेच्छया। संजीवंश्च मृतश्चैव न क्वापि सुखमेधते ॥ ९६ ॥ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति । स सर्वस्य हितं प्रेम सुखमानन्त्यमश्नुते ॥ ९७॥
यद्धयायति तत्कुरुते रति बध्नाति यत्र च । तदवाप्नोति यत्नेन यो हिनस्ति न किचन ॥ ९८॥ न्द०-यथैव मरणाद्भितिरस्मदादिवपुष्मताम् । ब्रह्मादिकीटकान्तानां तथा मरणतो भयम् ॥ ९९ ॥
धों जीवदयातुल्यो न क्वापि जगतीतले । तस्मात्सर्वप्रयत्नेन कार्या जीवदया नृभिः ॥ १०॥ एकस्मिन् रक्षिते जीवे त्रैलोक्यं रक्षितं भवेत् । घातिते घ.तितं तद्वत्तस्मान्जीवान मारयेत् ॥ १०१॥ अहिंसा परमो धर्म इहोक्तः सर्वमूरािभः । तस्मान्न हिंसा कर्तव्या नरैर्नरकभीरुभिः ॥१०२॥ न हिंसासदृशं पापं त्रैलोक्ये सचराचरे । हिंसको नरकं गच्छेत् स्वर्ग गच्छेदहिंसकः ॥ १०३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76