Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir वेदा ॥१४॥ पुत्रेण जायते स्वर्ग इत्येषा वैदिकी श्रुतिः । अथ पुत्रस्य पुत्रेण स्वगलोको महीयते ॥ ३७६ ॥ यदि पुत्राद्भवेत्स्वर्गो दानधर्मो न विद्यते । मुषितस्तहि लोकोऽयं दानधर्मो निरर्थकः ॥ ३७७ ॥ बहुपुत्राकुला गोधा ताम्रचुडस्तथैव च । तेषां च प्रथमं स्वर्गः पश्चाल्लोको गमिष्यति ।। ३७८ ॥ अथ द्विजत्वे. ब्राह्मणा ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः । अन्यथा नाममात्र स्यादिन्द्रगोपककीटवत् ।। ३७९ ॥ शिल्पमध्ययनं नाम वृत्तं ब्राह्मणलक्षणम् । वृत्तस्थं ब्राह्मणं मो नेतरान्वेदजीवकान् ॥ ३८ ॥ ब्रह्मचर्यतपो युक्ता समानलोष्टुकाञ्चनाः ।........" ............. ॥ ३८१ ॥ सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणाः । ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ॥ ३८२ ॥ श द्रोऽपि शीलसंपन्नो गुणवान्ब्राह्मणो भवेत् । ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत् ॥ ३८३ ॥ चतुर्वेदोऽपि यो भूत्वा चण्डं कर्म समाचरेत् । चण्डालः स तु विज्ञेयो न वेदास्तत्र कारणम् ॥ ३८४ ॥ सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म एतद्ब्राह्मणलक्षणम् ।। ३८५ ॥ सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियनिग्रहः । सर्वभूतदया नास्ति एतच्चाण्डाललक्षणम् ॥ ३८६ ॥ एकवर्णमिदं सर्वं पूर्वमासीद्युधिष्ठिर ! । क्रियाकर्मविभागेन चातुर्वर्ण्य व्यवस्थितम् ।। ३८७ ॥ मनु०- अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥ ३८८ ॥ इति नहुष०3०-जात्या कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा । ब्राह्मण्यं केन भवति प्रबृह्येतत्सुनिश्चितम् ॥ ३८९ ॥ 1 ॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76