Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
m
विष्णुपु०-वैश्याः कृषिवणिज्यादि संत्यज्य निजकर्म यत् । शूद्रवृत्त्यां प्रवय॑न्ते कारुकर्मोपजीविनः ॥ ४१९ ।। तुर्यारण्य०-यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः । तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेदाद्विजः ।। ४२० ॥
सत्यं दानं क्षमा शीलमाप्तशंस्यं तपो घृणा ! दृश्यते यत्र नागेन्द्र ! स ब्राह्मण इति श्रुतः ॥ ४२१ ॥ शूद्रे चैतद्भवेल्लक्ष्यं द्विजे तच्च न विद्यते । न वै शूद्रो भवेच्छद्रो ब्राह्मणो न च ब्राह्मणः ॥ ४२२ ॥ लक्ष्यते सर्प ! यत्रतत्तं स ब्राह्मणः स्मृतः । यत्रैतन्न भवेत्सर्प ! तं शूद्रमिति निर्दिशेत् ॥ ४२३ ।। जातिरत्र महासर्प ! मनुष्यत्वे विशिष्यते । सङ्करात्सर्ववर्णानां दुष्परीक्ष्येति मे गतिः ॥ ४२४ ॥ कृतकृत्याः पुनर्वर्णा यदि वृत्तं न विद्यते । सङ्करस्तत्र नागेन्द्र ! व वानसमीक्षिता ॥ ४२५ ॥ क्रोधः शत्रुः शरीरस्थो मनुष्याणां द्विजोत्तमः । यः क्रोधलोभौ जयति तं देवा ब्राह्मणं विदुः ॥ ४२६ ॥ यो वदेदिह सत्यानि गुरून्सन्तोषयेदपि । हिंसते च न हिंसेत तं देवा ब्राह्मणं विदुः ॥ ४२७ ।। जितेन्द्रियो धर्मरतः स्वाध्यायनियतः शुचिः । कामक्रोधौ वशे यस्य तं देवा ब्राह्मणं विदुः ।। ४२८ ॥ यस्य चात्मसमो लोको धर्मज्ञस्य यशस्विनः । सर्वधर्मेषु च रतस्तं देवा ब्राह्मणं विदुः ॥ ४२९ ॥ योऽध्यापयेदधीयीत यजेद्वा याजयेत वा । दद्यादपि यथाशक्ति तं देग ब्राह्मणं विदुः ॥ ४३० ॥ ब्रह्मचारी च वदान्यो ह्यधीयीत द्विजोत्तमः । स्वाध्याये वाप्रमत्तो वै तं देवा ब्राह्मणं विदुः ॥ ४३१ ॥ धनं तु ब्राह्मणस्याहुः स्वाध्यायं दममार्जवम् । इन्द्रियाणां निग्रहं च शाश्वतं द्विजसत्तम ! ॥ ४३२ ॥ इन्द्रियाणां निरोधेन सत्येन च दमेन च । ब्राह्मणः पदमामोति यत्परं द्विजसत्तम ! ।। ४३३ ॥
For Private and Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76