Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
डा
.
११६
ब्राह्मणः परकीयेषु वर्तमानोऽपि कर्मसु । दाम्भिको दुष्कृतप्रायः शूद्रेण सहशो भवेत् ॥ ४३४ ॥
कृषिवाणिज्यगोरक्षां राजसेवां चिकित्सितम् । ये विप्राः प्रतिपद्यन्ते न ते कौन्तेय ! ब्राह्मणाः ।। ४३५॥ मनु०- गोरक्षकान्वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्द्धषिकांश्चैव विप्राशूद्रवदाचरेत् ॥ ४३६ ॥
ये व्यतीताः सुकर्मभ्यः परपिण्डोपजीविनः । द्विजतमभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥ ४३७ ।। सद्यः पतति मांसेन लाक्षया लवणेन च । व्यहेण शूद्रीभवति ब्राह्मणः क्षीरविक्रयात् ।। ४३८ ॥
इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ ४३९ ॥ पारासरस्मृ०-संवत्सरेण याकुर्यात्कवनः प्राणिनां वधे । अधोमुखेन काष्टेन तदकेन लाङ्गलिः ॥ ४४०॥
कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः । द्वापरे शङ्खलिखितः कलो पारासरः स्मृतः ॥ ४४१ ॥ पा० । हस्ततलप्रमाणां तु यो भूमि कर्षति द्विजः । नश्यते तस्य ब्रह्मत्वं शद्रत्वं त्वभिजायते ॥ ४४२॥
यस्तु रक्तेषु दन्तेषु वेदमुच्चरते द्विजः । अमेध्यं तस्य जिह्वाग्रे मूतकं च दिने दिने ॥ ४४३ ॥ इति० ब्राह्मण्यं पुण्यमुत्सृज्य ये द्विजा लोभमोहिताः । कुकर्माण्युपजीवन्ति ते वै निरयगामिनः ॥ ४४४ ॥ अर्जुन-उ० शीतभीताश्च ये विप्राः क्षत्रिया रणभीरवः । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४५॥
वत्सदेशे च ये विप्रा ये विप्रा मरुमण्डले । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४६ ॥
श्वानकुकुटमार्जारान्ये पुष्यन्ति दिने दिने । तेषां पापेन लिप्येऽहं यन्न हन्यां जयद्रथम् ॥ ४४७॥ मिता०- याजनं योनिसंबन्धं स्वाध्यायं सह भोजनम् । कृत्वा सद्यः पतत्येव पतितेन न संशयः ॥ ४४८ ॥
||॥१६॥
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76