Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
SANA
देवीपु०
विष्णुपु०इति०
ARRRRRRRRR
यावत्यः पङ्क्तयस्तत्र पुस्तकेऽक्षरसंश्रिताः । तावतो नरकात्कल्पानुद्धृत्य नयते दिवि ॥ ४६४ ॥ स गुरुः स पिता माता स च चिन्तामणिः स्मृतः । यः शास्त्रोपायमाख्याय नरकेभ्यः समुद्धरेत् ॥४६५।। कस्तेन सदृशो लोके बान्धवो विद्यते परः । यस्य वारश्मिवृन्देन हृदयानश्यते तमः ।। ४६६ ॥ एकं भद्रासनादीनां समास्थाय गुणैर्युतः । यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ४६७।। आनृशंस्यं क्षमा सत्यमर्हिसा दम आर्जव: । दानं प्रसादो माधुर्य सन्तोषश्च यमा दश ॥ ४६८॥ शौचमित्यातपः सत्यं स्वाध्यायोपस्थनिग्रहः । व्रतोपवासमौनं च स्नानं च नियमा दश ।। ४६९ ॥ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । हीविद्यासत्यमक्रोधो दशकं धर्मलक्षणम् ।। ४७० ।। के के नु ब्राह्मणा प्रोक्ताः किं वा ब्राह्मणलक्षणम् । एतदिच्छाम्यहं ज्ञातुं तन्मे कथय सुव्रत ! ४७१ ।। पञ्चलक्षणसंपूर्ण इदृशो यो भवेद्विजः । तमेव ब्राह्मणं मन्ये शेषाः शूद्रा युधिष्ठिर ! ॥ ४७२ ।। नवनीतं यथा दध्नश्चन्दनं मलयादितः । औषधिभ्योऽमृतं यद्वेदेवारण्यकं तथा ॥ ४७३ ।। तत्र ऋपभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा स्वयमेव चीर्णानि ब्रह्माणि, तपसा च प्राप्तं परमपदमिनि । यदा न कुरुते पापं सर्वभूतेषु दारुणम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ ४७४ ॥ यदा सर्वानृतं त्यक्तं मृषा भाषा विवर्जिता । अनवद्यं च भाषेत ब्रह्म सम्पद्यते तदा ॥ ४७५ ॥ परद्रव्यं यदा दृष्ट्वा आकुले ह्यथवा रहः । धर्मकामो न गृहाति ब्रह्म सम्पद्यते तदा ॥ ४७६ ॥ देवमानुपतिर्यक्षु मैथुनं वर्जयेद्यदा । कामरागविरक्तश्च ब्रह्म सम्पद्यते तदा ।। ४७७ ।।
CAUSERS.COM
ब्रह्मण्याह
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76