Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
॥१८॥
EXERCIACOCUMAR
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् । वर्ष यद्भारतं नाम भारती यत्र सन्ततिः ॥ ४८९ ॥ नवयोजनसहस्रो विस्तारोऽस्य महामुने ! । कर्मभूमिरियं स्वर्गमपवर्ग च गच्छताम् ॥ ४९० ॥ अतः सम्माप्यते स्वर्गो मुक्तिमस्मात्पयान्ति च । तिर्यक्त्वं नरकं वापि यान्त्यतः पुरुषा मुने! ॥ ४९१ ॥ तपस्तप्यन्ति यतयो जुहते वात्र यज्विनः । दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥ ४९२ ॥ अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ! । कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसश्चयात् ॥ ४९३ ॥
गायन्ति देवाः किल गीतकानि धन्यास्तु ते भारतभूमिभागे । स्वर्गापवर्गास्पदमार्गभूते भवन्ति भूयः पुरुषाः सुरत्वात् ॥ ४९४ ॥
जानीम नैतत्कवयं विलीने स्वर्गप्रदे कर्मणि देहबन्धम् । __प्रापस्याम धन्याः खलु ते मनुष्या ये भारते नेन्द्रियकर्महीना (१) ॥ ४९५ ॥ अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ! । यतो हि कर्मभूरेषा ह्यतोऽन्या भोगभूमयः ॥ ४९६ ॥
चत्वारि भारते वर्षे युगान्यत्र महामुने! । कृतं त्रेता द्वापरश्च कलिश्चान्यत्र न क्वचित् ॥ ४९७ ॥ तुर्यारण्य०- ऋषयस्ते महात्मानः प्रत्यक्षागमबुद्धयः । कर्मभूमिमिमां प्राप्य पुनर्यान्ति सुरालयम् ॥ ४९८॥
अथ तपसि. विष्णुपु० ऋषयः-चतुःपश्चादसंभूतो बालस्त्वं नृपनन्दन! । निर्वेदकारणं किश्चित्तवाद्यापि न दृश्यते ॥ ४९९ ॥
ध्रुवः- नाइमर्थमभीप्सामि न राज्यं द्विजसत्तमाः । तत्स्थानमेकमिच्छामि भुक्तं नान्येन यत्पुराः ॥५०॥
1
॥१॥
For Private and Personal Use Only

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76