Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra वेदा हुश. ॥१९॥ मनु०मिता www.kobatirth.org इतिहा० - न स कश्चिदुपायोऽस्ति देवो वा मानुषोऽपि वा । येन मृत्युवशं प्राप्तो जन्तुः पुनरिहाव्रजेत् ।। ५१५ ।। बालांच यौवनस्थां वृद्धान्गर्भगतानपि । सर्वानाविशते मृत्युरेवंभूतमिदं जगत् ।। ५१६ ।। नायमत्यन्तसंवासः कस्यचित्केनचित्सह । अपि स्वेम शरीरेण किमुतान्येन केनचित् ।। ५१७ ।। पण्डिते चैव मूर्खे च बलवत्यथ दुर्बले । ईश्वरे च दरिद्रे च मृत्योः सर्वत्र तुल्यता ।। ५१८ ।। यथाहि पथिकः कश्चिच्छायामाश्रित्य विश्रमेत् । विश्रम्य च पुनर्गच्छेत्तद्भूतसमागमः ॥ ५१९ ॥ समागमाः सापगमाः सर्वमुत्पादि भङ्गरम् । कायः संनिहितापायः सम्पदः पदमापदाम् ।। ५२० ॥ भाग - गृहेषु कूटधर्मेषु दुःखतन्त्रेषु तन्द्रितः । कुर्वन्दुःखमतीकारं सुखं तन्मन्यते गृही ॥ ५२१ ॥ पुत्रदारधनार्थधीन परं विन्दते मूढः । • भ्राम्यन्संस्कारवर्त्मसु ।। ५२२ ।। केवलेन ह्यधर्मेण कुटुम्बभरणोत्सुकः । याति जीवोऽन्धतामिश्रं चरमं तमसः पदम् ।। ५२३ ॥ पञ्चसूना गृहस्थस्य चुली पेषण्युपस्करः । कुण्डनी चैव कुम्भश्च बध्यते यास्तु पाहयन् ।। ५२४ ।। गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । अपत्यस्यैव वाऽपत्यां तदाऽरण्यं समाश्रयेत् ।। ५२५ ।। चान्द्रायणैर्नयेत्कालं कृच्छ्रेर्वा वर्तयेत्सदा । पक्षे गते वाप्यश्नीयान्मासे वाऽहनि वा गते ।। ५२६ ॥ त्यक्त्वा सङ्गमपारपर्वतगुहागर्भे रहस्स्थीयतां रे रे चित्त ! कुटुम्बपालनविधौ को वाधिकारस्तव । यस्यैताः पुरतः प्रसारितदृशः प्राणप्रियाः पश्यतो नीयन्ते यमकिङ्करैः करतलादाच्छिय पुत्रादयः ॥ ५२७ ॥ विष्णुपु०—यस्तु संत्यज्य गार्हस्थ्यं वानप्रस्थो न जायते । परिव्राट् चापि मैत्रेय ! स ननः पापकृन्नरः ।। ५२८ ।। भाग० Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ॥१९॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76