Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir आप्तनाच्छयनाद्यानात्संभाषणात्सह भोजनात् । संक्रामन्ति हि पापानि तैलबिन्दुरिवाम्भसि ॥ ४४९ ॥ गोविक्रयास्तु ये विमा ज्ञेयास्ते मातृविक्रयाः । तेन देवाश्च वेदाश्च विक्रीता नात्र संशयः ॥ ४५० ॥ विक्रीय कन्यकां गां च कृच्छ्रसान्तपनं चरेत् । नारीणां विक्रयं कृत्वा चरेच्चान्द्रायणव्रतम् ॥ ४५१ ॥ स्कन्दपु०- गावः पवित्रमतुलं गावो मङ्गलमुत्तमम् । यासां खुरे स्थितो रेणुगङ्गाजलसमो भवेत् ॥ ४५२ ॥ शृङ्गाग्रे सर्वतीर्थानि खुराग्रे सर्वपर्वताः । शृङ्गयोरन्तरे यस्याः साक्षागौरी महेश्वरी ।। ४५३ ॥ गवां स्तुत्वा नमस्कृत्य कृत्वा चैव प्रदक्षिणाम् । प्रदक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ॥ ४५४ ॥ मनु०-- यथा काष्टमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नामधारकाः ॥ ४५५ ॥ न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ ४५६ ॥ स्कन्दः- ब्राह्मणाऽतिक्रमो नास्ति वि वेदविवर्जिते । ज्वलन्तं वद्विमुत्सृज्य नहि भस्मनि हुयते ॥ ४५७ ॥ आदित्य पु०-ज्ञानवृद्धस्तपोवृद्धो वयोवृद्ध इति त्रयः । पूर्वः पूर्वोऽभिवाद्यः स्यात्पूर्वाभावेऽपरे परः॥ ४५८ ।। नाधीतविद्यो विप्रो य आचारेषु प्रवर्तते । नाचारफलमाप्नोति यथा शूद्रस्तथैव सः ॥ ४५९ ।। अनधीतस्य विप्रस्य पुत्रो वाध्ययनान्वितः । शूद्रपुत्रः स विज्ञेयो न वेदफलमश्नुते ॥ ४६० ॥ गीता०- पापामयौषधं कृत्वा शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधनम् ॥ ४६१ ॥ यथैवांसि समिद्धोऽग्निर्भस्मसात्कुरुते जनः । ज्ञानाग्निः सर्वकागि भस्मसात्कुरुते तथा ॥ ४६२ ।। नन्दि पु०-यावदक्षरसंख्यानं विद्यते शाखसश्चये । तावद्वर्षसहस्राणि स्वर्गे विद्यापदो भवेत् ॥ ४६३ ।। .COUREDUCERECRUA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76