Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न जातिर्न कुलं तात ! न स्वाध्यायो न च श्रुतम् । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।। ३९० ।। अनेके मुनयस्तात ! तिर्यग्योनिषु संभवाः । स्वधर्माचारनिरता ब्रह्मलोकमितो गताः ॥ ३९१ ॥ बहुना किमधीतेन नटस्येव दुरात्मनः । तेनाधीतं श्रुतं तेन यो वृत्तमनुतिष्ठति ।। ३९२ ।। तस्माद्विद्धि महाराज ! वृत्तं ब्राह्मणलक्षणम् । चतुर्वेद्यपि दुर्वृत्तः शूद्रात्पापतरः स्मृतः ॥ ३९३ ॥ सत्यं दमस्तपो दानमहिंसेन्द्रियनिग्रहः । दृश्यन्ते यत्र राजेन्द्र ! स ब्राह्मण इति स्मृतः ॥ ३९४ ॥ शूद्रे चैव भवेद्वृत्तं ब्राह्मणे च न विद्यते । शूद्रो वै ब्राह्मणो ज्ञेयो ब्राह्मणः शूद्र एव स: ।। ३९५ ।। कामक्रोधानृतद्रोह लोभमोहमदादयः । न सन्ति यत्र राजेन्द्र ! तं देवा ब्राह्मणं विदुः ॥ ३९६ ॥ न जातिकारणं तात ! गुणाः कल्याणहेतवः । वृत्तस्थोऽपि हि चाण्डालः सोऽपि सद्गतिमाप्नुयात् ॥ ३९७|| क्षत्रियाणां कुले जातो विश्वामित्रो महामुनिः । तस्मान्नाध्ययनं नापि यजनं विप्रस्य लक्षणम् ॥ ३९८ ॥ या विषीद नरव्याघ्र ! राक्षसेष्वपि पठ्यते । शिलमध्यनं नाम वृत्तं ब्राह्मणलक्षणम् ॥ ३९९ ॥ पिता०- गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्तनं हितानां च तत्सर्ववृत्तमुच्यते ॥ ४०० ॥ श्वपाकीगर्भसम्भूतः पारासरो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिर कारणम् ॥। ४०१ ॥ कैवर्त्तीगर्भसंभूतो व्यासो नाम महामुनिः । तपसा ब्राह्मणो जानस्तस्माज्जातिर कारणम् ।। ४०२ ॥ हरिणीगर्भसंभूत ऋषिशृङ्गो महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०३ ॥ मण्डकीगर्भसंभृतो माण्डव्यश्च महामुनिः । तपसा ब्राह्मणो जातस्तस्माज्जातिरकारणम् ॥ ४०४ ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76