Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदा
गीतायाम- विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके तु पण्डिताः समदर्शिनः ॥ १७९ ।। आदित्यपु०- एकोपि बहुधास्मीति लीलया केवलः शिवः । ब्रह्मविष्ण्वादिरूपेण देवदेवो महेश्वरः ॥ १८ ॥
पृष्टो ब्रह्मादिभिर्देवैः कस्त्वं देवेति शङ्करः । अब्रवीदहमेवैको नान्यः कश्चिदिति श्रुतिः ।। १८१ ॥ सृजन्ते बहवो रुद्रा अनन्ताश्च चतुर्मुखाः । नारायणाश्च संख्याता देवदेवेन शम्भुना ॥ १८२ ॥ न तस्मादधिकःकश्चिन्नाणीयानपि कश्चन । तेनेदमखिलं पूर्ण शङ्करेण महात्मना ।। १८३ ॥ पृथिव्यां तिष्ठति विभुः पृथिवी वेत्ति नैव तम् । रूपं च पृथिवी तस्य तस्मै भूतात्मने नमः ॥१८४ ॥ अप्सु तिष्ठति नैवापस्तं विदुः परमेश्वरम् । आपो रूपं च यस्यैवं नमस्तस्मै जलात्मने ॥ १८५ ॥ योनौ तिष्ठत्यमेयात्मा न तं वक्ति कदाचन । अग्निरूपं भवेद्यस्य तस्मै वह्वयात्मने नमः ॥ १८६ ।। तिष्ठत्यजस्रं यो वायौ न वायुर्वेत्ति तं हरम् । वायुर्यस्य भवेद्रुपं तस्मै वाय्वात्मने नमः ॥ १८७ ॥ वैष्णवानां सहस्रेभ्यः शिवभक्तो विशिष्यते । यदि पापरतात्क्रूरःस्वाश्रमाचारवर्जितः॥ १८८ ॥ प्रसङ्गात्कौतुकाल्लोभाद्भयांदज्ञानतोऽपि वा । हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ १८९ ॥
यज्ञेऽप्यहिसैव नास्ति पाणिवधा यज्ञे ध्रुवम् । अहिंसैव हि भूतानां सदा यज्ञो युधिष्ठिर ! ॥ १९० ।। शुकसंवादे- सत्यं यूपं तपो ह्यग्निः प्राणा:समाधयो मताः । अहिंसामाहुति दद्यादेष यज्ञः सनातनः ॥ १९१ ।।
तपोध्यौ जीवकुण्डस्थे दममारुतदीपिते । असत्कर्मसमित्क्षेपैरग्निहोत्रं कुरुत्तम ! ॥ १९२ ॥ विष्णु पु०-नैतद्युक्तिसह वाक्यं हिंसा धर्माय नेष्यते । हवींष्यन लदग्धानि फलायेत्यर्भकोदितम् ॥ १९३ ॥
। अहिंसामाहुर्ति
०- नैतयुक्तिसवस्य दममारुतदीपित
For Private and Personal Use Only

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76