Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
चेदा
॥११॥
अथातिथी. मनु०- एकरात्रं तु निवसन्नतिथिाह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९३ ॥
कृत्वैतद्वलिकमैवमतिथिं पूर्वमाशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ।। २९४ ।। विष्णुपु०- अतिथिर्यस्य भग्नाशो गृहाद्यात्यन्यतोमुखः । स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥ २९५ ॥
दत्त्वा त्वयं विशिष्टेभ्यः क्षुधितेभ्यस्तथा गृही । प्रशस्तं शुद्धपात्रेभ्यो भुञ्जीताकुपितो नृपः ॥ २९६ ॥ धाता प्रजापतिः शक्रो बहिर्वसुगणोर्यमा । प्रविश्यातिथिमेते वै भुञ्जतेऽनं नरेश्वर ! ॥ २९७ ।।
तस्मादतिथिपूजायां यतेत सततं नरः । स केवलमपं मुझे यो ह्यतिथिं विना ॥ २९८ ॥ मिताक्ष- सत्कृत्य भिक्षवे भिक्षा दातव्या सुव्रताय च । भोजयेद्वाऽऽगतान्काले सखिसम्बन्धिवान्धवान् ।। २९९ ।। इतिहा०- सत्यं शौच तपोऽधीतं दत्तमिष्टं श्रुतं तथा । तस्य सर्वमिदं व्यर्थमतिथिं यो न पूजयेत् ॥ ३०॥ पद्मपु०- मूल् वा पण्डितो वाथ श्रोत्रियः पतितोऽथवा । ब्रह्मतुल्योऽतिथिवैश्य ! मध्याह्ने यः समागतः ।। ३०१॥
पथि श्रान्ताय विप्राय अन्यस्मै क्षुधिताय वा । प्रयच्छन्त्यन्नपानीयं ते नाके चिरवासिनः ॥ ३०२ ।। अतिथिर्विमुखो यस्य न याति गृहमागतः । मध्याह्ने वैश्य ! सायं वा स न याति यमालयम् ।। ३०३ ॥ नास्ति नास्ति वचः श्रुत्वा त्यक्त्वाऽऽशामतिथिजन् । आजन्मसञ्चितं पुण्यं गृह्णाति गृहमेधिनः ।। ३०४ ॥
नास्त्यतिथिसमी बन्धुर्नास्त्यतिथिसमं धनम् । नास्त्यतिथिसमो धर्मो नास्त्यतिथिसमो हितः॥ ३०५ ।। विवेक वि०- आस्तृिष्णाक्षुधाभ्यां यो वित्रस्तो वा स्वमन्दिरात् । आगतः सोऽतिथिः पूज्यो विशेषेण मनीषिणा ॥ ३०६ ॥
ARRORRECROCRACRECE
॥शा
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76