Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
बेदाडुश.
॥१०॥
इति०
www.kobatirth.org
शान्तदन्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः । प्रतिगृहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः || २६६ ।।
सर्वहिंसानिवृत्ताश्च नित्यं सर्वसहाश्च ये । सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः || २६७ ॥ साधूनां दर्शनं स्पर्शः कीर्तनं स्मरणं तथा । तीर्थानामिव पुण्यानां सर्वमेवेह पावनम् || २६८ ।। साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः कालतः फलते तीर्थ सद्यः साधुसमागमः ।। २६९ ॥ आरोहस्व रथे पार्थ! गाण्डीवं च करे कुरु । निर्जितां मेदिनीं मन्ये निर्ग्रन्थो यदि संमुखः ॥ २७० ॥ श्रमणस्तुरगो राजा मग्रूरः कुञ्जरो नृपः । प्रस्थाने वा प्रवेशे वा सर्वे सिद्धिकरा मताः ।। २७१ ।। पद्मिनी राजहंसाच निर्ग्रन्याश्च तपोधनाः । यं देशमुपसर्पन्ति तत्र देशे शुभं वदेत् ॥ २७२ ॥
अथापात्रे .
मिता०
बृहस्पतिस्मृतौ — विप्रो गां च हिरण्यं च वस्त्रमश्व महीतलम् | अविद्वान्प्रतिगृह्णानो भस्मीभवति काष्ठवत् || २७३ ।। मल्ले निमित्ते च कुवैद्ये कितवे शते । भाटचारणचौरेषु दत्तं भवति निष्फलम् || २७४ ॥ नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्मीभूतेषु विप्रेषु मोहादत्तानि दातृभिः || २७५ ॥ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थ हि ते शंसन्वान्ताशीत्युच्यते बुधैः ॥ २७६ ॥ सन्मानाद्वाह्मणो नित्यमुद्विजेत विपादिव। अमृतस्येव चाकाङ्क्षेपमानस्य सर्वथा ।। २७७ ।।
मनु-
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76