Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इतिहा०
REACHERS
ये तपसा प्रतप्यन्ते कौमारवतचारिणः । जितेन्द्रिया जितक्रोधा दुर्गाष्यतितरन्ति ते ॥ ३३६ ।। दम निश्रेयसं पाहुद्धा निश्चयदर्शिनः । ब्राह्मणस्य विशेषेण दो धर्मः सनातनः ॥ ३३७ ।। ये केचिनियमा लोके याश्च धर्मश्रुतिक्रियाः । सर्वयज्ञफलं चैव दमरतेभ्यो विशिष्यते ॥ ३३८ ॥ किमरण्येनादान्तस्य दान्तस्य तु किमाश्रमैः । यत्र यत्र वसेदान्तस्तदरण्यं तदाश्रमः ।। ३३९ ।।
बनेऽपि दोषाः प्रभवन्ति रागिणां गृहेऽपि पश्चेन्द्रियनिग्रहस्तपः । अकुत्सिते कर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ।। ३४० ॥ न शब्दशास्त्राभिरतस्य मोक्षो न चैव रम्यावसथप्रियस्य ।। न भोजनाच्छादनतत्परस्य न लोकचित्तग्रहणे रतस्य ॥ ३४१ ॥ दमे कृते सर्वमतं प्रजानां दमाद्विशिष्टं न च वस्तु किश्चित् ।
वेदाश्च शास्त्राणि च सर्वमेतदमेन हीनस्य निरर्थकानि ॥ ३४२ ॥ कामक्रोधौ विनिर्जित्य किमरण्येन करिष्यति ? । अथवा तावनिर्जित्य किमरण्येन करिष्यति ? ॥३४३ ॥ मातृवत्परदाराणि परद्रव्याणि लोष्टुवत् । आत्मवत्सर्वभूतानि यः पश्यति स पश्यति ॥ ३४४ ॥ मातृवत्परदारान्ये संपश्यन्ति नरोत्तमाः । न ते यान्ति विशांश्रष्ठ ! कदाचिद्यमयातनाम् ॥ ३४५ ॥ मनसापि परेषां यः कलत्राणि न सेवते । स हि लोकद्वयेनेव तेन वैश्य ! धरा धृता ॥ ३४६॥ तस्माद्धान्वितैस्त्याज्यं परदारोपसेवनम् । नयन्ति परदारास्तु नरकानेकविंशतिम् ।। ३४७ ॥ प० ।
पद्म पु०
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76