Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वंदा
xEONAMECEMALLASHREE
अदण्डयान्दण्डयनराजा दण्डयांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ २३८ ॥ यस्तु धर्मेण कार्याणि नेह कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशीकुर्वन्ति शत्रवः ।। २३९ ॥ कामक्रोधौ च संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ २४०॥ अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्रं हि वीते तस्य सदैवाभयदक्षिणम् ॥ २४१ ॥ योऽरक्षन्वलिमादत्ते करं शुक्लं च पार्थिवः । प्रतिभोगं च दण्डं च स सद्यो नरकं व्रजेत् ।। २४२ ॥ अरक्षितारं राजानं बलिषड्भागहारिणम् । तमाहुः सर्वलोकानां समग्रमलहारिणम् ।। २४३ ॥ न्यायो धर्मो दर्शनानि तीर्थानि सुखसम्पदः । यस्याधार प्रवर्तन्ते स जीयात्पृथिवीपतिः ॥ २४४ ॥ वृद्धभारिनृपस्नातस्वीरोगिवलचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यःस्नातस्तु भूपतेः ।। २४५ ॥
अथ दाने इति- नान्नदानात्परं दानं किश्चिदस्ति नरेश्वर ! । अन्नेन धार्यते कृत्स्नं चराचरमिदं जगत् ॥ २४६ ॥ पद्मषु०- सर्वेषामेव भूतानामन्ने प्राणा: प्रतिष्ठिताः । तेनान्नदो विशांश्रेष्ठ ! प्राणदाता स्मृती बुधैः ॥ २४७।।
पाह वैवस्वतो राजा राजानं केसरिध्वजम् । च्यवन्तं स्वर्गलोकात्तं कारुण्येन विशांवर !॥ २४८ !!
ददस्वान्नं ददस्वान्नं ददस्वान्नं नराधिप ! । कर्मभूमौ गतो भूयो यदि स्वर्गत्वमिच्छसि ॥ २४९॥ मिता०- दातव्यं प्रत्यहं पात्रे निमित्तेषु विशेषतः । याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ।। २५० ।। इति- वहप्यश्रद्धया दत्तं नष्टमाहुर्मनीषिणः । वार्यपि श्रद्धया दत्तमानन्न्यायोपकल्पते ॥ २५१ ॥
मिता०
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76