Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
x
वेढा
हुश.
अङ्गि
॥८
॥
EXCARE
अवैष्णवगृह भुक्त्वा पीत्वा चाज्ञानतो यदि । शुद्धाश्चान्द्रायणेनोक्ता ऋषिभिस्तत्त्वदर्शिभिः ।। २०९ ॥ ब्राह्मणान्ने दरिद्रत्वं क्षत्रियान्ने पशुस्तथा । वैश्यानेन तु शूद्रत्वं शूद्राने नरकं ध्रुवम् ॥ २१०॥ राजप्रतिग्रहदग्धानां ब्राह्मणानां युधिष्ठिर ! । शटितानामिव बीजानां पुनर्जन्म न विद्यते ॥ २११ ।। राजप्रतिग्रहो घोरो मधुस्वादो विषोपमः । पुत्रमांसं वरं भक्ष्यं न तु राज्ञः प्रतिग्रहः ॥ २१२ ॥ दशमूनासमं चक्रं दशचक्रसमो वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥ २१३ ॥ दश मूनासहस्राणि यो वाहयति सौनिकः । तेन तुल्यो स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ २१४ ॥ एतद्विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः । न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाक्षिणः ॥ २१५॥ न शूद्राय मतिं दद्यात् नोच्छिष्टं न हविष्कृतम् । न वास्योपदिशेद्धर्म न चास्य व्रतमादिशेत् ॥ २१६ ॥ योऽस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् । सोऽसंवृतं नामतः सह तेनैव गच्छति ॥ २१७ ॥ न शूद्रे पातकं किश्चिन च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति न धर्मात्मतिषेधनम् ॥ २१८ ॥ शक्तेनापि हि शूरेण न कार्यों धनसंग्रहः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ २१९ ॥ यो राज्ञः प्रतिगृह्णाति ब्राह्मणो लोभमोहितः । तमिस्रादिषु धोरेषु नरकेषु स पच्यते ॥ २२० ॥ अर्थसम्पद्विमोहाय विमोहो नरकाय च । तस्मादर्थमनाख्यं श्रेयोऽर्थी दूरतस्त्यजेत् ॥ २२१ ॥ यस्य धर्मार्थमर्थेहा तस्यानीहैव शोभना । प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ २२२ ॥ सुमहान्त्यपि शास्त्राणि धारयन्तो बहुश्रुताः । छेत्तरः संशयानां च लोभादेते व्रजन्त्यधः ॥ २२३ ॥
इतिहा०
॥ ८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76