Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
RECRUGREEKRECRUCUORE
तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोदयागुणैः ॥ ४८॥ कथमुत्पद्यते धर्मः कथं धर्मो विवर्द्धते । कथं च स्थाप्यते धर्मः कथं धर्मो विनश्यति ? ॥४९॥ सत्येनोत्पद्यते धर्मो दयादानेन वर्द्धते । क्षमयाऽवस्थाप्यते धर्मः क्रोधलोभाद्विनश्यति ।। ५०॥
अथ सत्ये मनुस्मृतौ-सत्यं ब्रूयात्मियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं नानृतं ब्रूयादेष धर्मः सनातनः ॥५१॥ विष्णुपुराणे-तस्मात्सत्यं वदेत्यज्ञो यत् परमीतिकारणम् । सत्यं यत् परदुःखाय तत्र मौनपरो भवेत् ।। ५२ ॥
प्रियमुक्तं हितं नैतदिति मत्वा न तद्वदेत् । श्रेयस्तत्र हितं वाक्यं यद्यप्यत्यन्तमप्रियम् ॥ ५३॥ आदिपर्वणि-पृष्टः साक्षी तु यः साक्ष्यं जानानोप्यन्यथा वदन् । स पूर्वानात्मनः सप्तकुलान्हन्यात्तथापरान् ॥ ५४ ।।
यश्च कार्यार्थ तत्त्वज्ञो जानानोपि न भाषते । सोपि तेनैव पापेन लिप्यते नात्र संशयः ॥ ५५ ॥ अश्वमेधसहस्रं तु सत्यं तु तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥५६॥ सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् । सत्यं च वदतो राजन् ! समं वा स्यान्नवा समम् ॥ ५७ ॥
नास्ति सत्यात् परो धर्मो न सत्याद्विद्यते परम् । नहि तीव्रतरं किञ्चिदनृतादिह कथ्यते ॥ ५८॥ तुर्यारण्यके-सत्यार्जवे धर्ममाहुः परं धर्मविदो जनाः । दुर्जेयः शाश्वतो धर्मः स तु सत्ये प्रतिष्ठितः ॥ ५९॥ मनुस्मृतौ-साक्षी दृष्टश्रुतादरद्धि वनार्यसंसदि । अवाङ्नरकमेवैतः प्रेत्य स्वर्गाच हीयते ॥६॥
यावतो बान्धवान् यस्मिन् इन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिञ्शृणु सौम्यानुपूर्वशः ॥ ६१ ॥
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76