Book Title: Vedankush
Author(s): Hemchandracharya, Veerchand Prabhudas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ANS
इह चत्वारि दानानि प्रोक्तानि परमर्षिभिः । विचार्य नानाशास्त्राणि शर्मणेऽत्र परत्र च ॥ १०४॥
भीतेभ्यश्चाभयं देयं व्याधितेभ्यस्तथौषधम् । देया विद्यार्थिनां विद्या देयमन्नं क्षुधातुरे ॥१०५॥ इति० युधिष्ठिर उ०--यो रक्षेत्राणिनं ब्रह्मन् ! भयार्त्त शरणागतम् । तस्य पुण्यफलं यत्स्यात् तन्मे ब्रूहि तपोधन ! ॥१०६॥
एकतः क्रतवः सर्वे समग्रवरदक्षिणाम् । एकतो भयभीतस्य प्राणिनः प्राणरक्षणम् ॥१०७ ॥ इदमेव पुरा देवस्तु ठया समतोलयन् । प्राणरक्षणमेवेह गौरवेणातिरिच्यते ॥ १०८ ॥ जङ्गमानि च भूतानि स्थावराणि च ये नराः । आत्मवत् परिरक्षन्ति ते यान्ति परमां गतिम् ॥ १०९ ॥ सर्वसत्त्वेषु यदानमेकसत्त्वे च या दया । सर्वसत्त्वमदानाच्च दयैकास्मिन विशिष्यते ॥ ११०॥ चतुःसागरपर्यन्तां यो दद्यात् पृथिवीमिमाम् । अभयं यस्तु भूतेभ्यस्तयोरभयदोऽधिकः ॥१११ ॥ सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत ! । सर्वे तीर्थाभिषेकाश्च यत्कुर्यात्माणिनां दया ॥ ११२॥ दत्तमिष्टं तपस्तप्तं तीर्थसेवा श्रुतं तथा । सर्वाण्यभयदानस्य कलां नार्हन्ति षोडशीम् ॥ ११३ ॥ प्राणिनं वध्यमानं यः स्वशक्तिं समुपेक्षते । स याति नरकं घोरमिति प्राहुर्मनीषिणः ॥ ११४ ॥ लोभाद्वेषाद्भयाद्वापि यस्त्यजेत्शरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥ ११५ ॥ शास्त्रेषु निष्कृतिदृष्टा महापातकिनामपि । शरणागतहन्तव्ये न दृष्टा निष्कृतिः क्वचित् ॥ ११६॥ यूकामत्कुणदंशादीन् ये जन्तूंस्तुदतस्तनुम् । पुत्रवत्परिरक्षन्ति ते नराः स्वर्गगामिनः ॥ ११७॥ वने वनणाहारा प्राणिनोऽनपराधिनः । हन्तुमिच्छति यो दीनान तं विद्यात्ब्रह्मघातकम् ॥ ११८ ।।
W ERS
For Private and Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76