Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 349
________________ ||३४१॥ EXXXXXXXXXXXXXXXXXXXXXXX त्स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवेदनप्रत्यक्षपरिच्छेद्य पुनः शुद्धभावानाम् -अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुक-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षक्षीरगुडादीनां, माधुर्यस्यान्तरं महत् । तथापि न तदाक्यातुं, सरस्वत्याऽपि शक्यते ।।१।२३२॥ . अर्थतद् गुरुकत्वमेव भावयति ;जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सव्वेसि पाएणं णय तत्थवि जायमेयंति ।।२३३।। यद् यस्माद् द्रव्यलिङ्गक्रियाः पूजाद्यभिलाषणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभावयोग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ता:-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्मबीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भवात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य म यत् कचित् । ॥२३३।। ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायव्वो धीरेहि कयं पसंगेण ॥२३४॥ XXXXXXXXXXXXXXREK KRXXXXXX

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438