Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीउपदे- शपदे
धर्मबीज
शुद्धिभावना
॥४००॥
वधिकं यत्नमवलम्बन्ते, तथा प्रस्तुतधर्मबीजशुद्धौ भवभीरूभिर्भव्यरादरपरैर्भाव्यमिति भावः ॥३२२।।
अथ धर्मबीजशुद्धेः साक्षादेव फलमभिधित्सुराह;परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइरोइपि हु कम्म ण फलइ तहभावओ चेव ॥३२२।।
परिशद्धाज्ञायोगात् सर्वातिचारपरिहारेण धर्माराधनात् प्रायेणात्यन्तनिकाचनावस्थाप्राप्तं कर्म परिहत्येत्यर्थः, आत्मचित्तयुक्तानां आत्मन्येव परवृत्तान्तेष्वन्धबधिरमूकभावापन्नतया यद् मनश्चित्तं तेन युक्तानां बहिर्व्याक्षेपपरिहारेण सदा आत्मन्येव निक्षिप्तशुद्धचित्तानामित्यर्थः, अतिरौद्रमपि नरकादिविडम्बनादायकत्वेन दारुणमपि कर्म ज्ञानावरणादि न नैव फलति स्वविपाकेन पच्यते । कुत इत्याह-तथा भावतश्चैव तत्प्रकारस्वाभाव्यादेव । यथा ह्याम्रतरवः समुद्गतनिरन्तरकुसुमभरभ्राजिष्णुशाखासंदोहा अपि बहलविद्य दुद्द्योतपरामृष्टपुष्पाः निष्फलीभावं दर्शयन्ति, तथास्वाभाव्यनियमात, तथा परिशुद्धाज्ञाभ्यासात् सुप्रणिहितमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां जन्तूनां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुभकर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥३२३॥
एतदेव प्रतिवस्तूपमया भावयति ;वाहिम्मि दीसइ इमं लिंगेहि अणागयं जयंताणं । परिहारेतरभावा तुल्लनिमित्ताणवि विसेसा ॥३२४॥
व्याधौ कुष्ठज्वरादौ समुद्भवितुकामे दृश्यतेऽध्यक्षत एवावलोक्यत इदमफलत्वम् । कुतः । यतः, लिङ्ग रोगोत्पत्तिगमकैः शरीरास्वास्थ्यादिभिरुपस्थितैतैिश्च सद्भिरनागतं रोगोत्पत्तेः प्रागेव यतमानानामतियत्नं कुर्वताम । कुत इत्या
Hin४००।

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438