Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 420
________________ कर्मविफलतायां शंका श्रीउपदे- तीति ॥३३९॥१०॥ समाप्तं ज्ञानगीदाहरणम् । शपदे आह"अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम् । नामुक्त क्षीयते कर्म कल्पकोटिशतैरपि" ॥१॥ इति सर्वलोकप्रवादप्रामाण्यात् कथं तत्कर्म फलदानाभिमुखमप्यदत्तफलमेव निवृत्तमित्याशंक्याह; अणिययसहावमेयं सावक्कमकम्मुणो सरूवं तु । परिसुद्धाणाजोगा एत्थ खलु हाइ सफलो ति । ३४०॥ ||४१२।। * इहाध्यवसायनैचित्र्यात् प्रथमतोऽपि जीवा द्विप्रकारं कर्म बध्नन्ति । तत्रैक शिथिलपरिणामतया फलं प्रत्यनियतरू पम्, अन्यच्चात्यन्तदृढपरिणामनिबद्धतयाऽवश्यं स्वफलसम्पादकत्वेनावंध्यसामर्थ्यमिति । एवं कर्मणो द्वैविध्ये व्यव10 स्थितेऽनियतस्वभावं फलं प्रत्येतदनन्तरदृष्टान्तनिरूपितम्, सोपक्रमकर्मणः सेोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती कारसहस्य कर्मणोऽसद्वद्याद्यशःकीत्तिलाभान्तरायादिलक्षणस्य स्वरूपं तु स्वलक्षणं पुनः । यदि नामेवं ततः किमित्याह-परिशुद्धाज्ञायोगा यः प्राक् "परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइघोरंपि हु कम्मं न फलइ तहभा| वओ चेव ॥१॥" अनेन ग्रन्थेन सर्वकर्मोपक्रमकारणतया सामान्येन निरूपितः सेोऽत्रानियतस्वभावे कर्मस्वरूपे, खलुरशवधारणे, भवति सफल उपक्रमरूपः स्वफलप्रसाधक इति ।३४॥ अथ प्रस्तावादेव कर्मसंज्ञकस्य दैवस्यात्मवीर्यरूपस्य च पुरुषकारस्य समस्कंधतां दर्शयन्नाह;एत्तो उ दोवितुल्ला विण्णेया दिव्वपुरिसकारत्ति । इहरा उ णिप्फलत्तं पावइ णियमेण एक्कस्स ।।३४१।। इतस्त्वित एव कर्मोपक्रमाद् द्वावपि तुल्यौ सर्वकार्याणां तदधीनत्वाच्च सदृशसामा वर्त्तते देवपुरुषकारो। इतिः M.४१२।।

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438