Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 425
________________ ॥ ४१७॥ उभयतहाभावा पुण एत्थं णायण्णसम्मओ णवरं । ववहारावि हु दाण्ह वि इय पाहण्णाइनिष्फण्णो ॥ ३४९ ॥ उभयतथाभाव उभयोर्देवपुरुषकारयोस्तथा परस्परानुवर्त्तनेन कार्यकारको भावः स्वभावः पुनरत्र कार्यसिद्धौ न्यायज्ञसम्मतो नीतिज्ञलोकबहुमतः नवरं केवलं वर्त्तत इति प्रथमत एवासौ बुद्धिमतामभ्युपगन्तुं युक्त इति । तथा, व्यवहारो देवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैवपुरुकारयोरित्येवमुभतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्त्तते ॥ ३४९।। प्रधानगुणमेव भावयन्नाह ; - जमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयब्वा || ३५० ।। यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्वेद्यादि परिणमति फलप्रदानं प्रति प्रीभवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण तद्देवं लोके समुद्धुष्यते । विपरीतं तु यदनुदग्रं बहुना प्रयासेन परिणमति पुनस्तत्पुरुषकारो मुणितव्य इति ।। ३५०॥ अहवपकम्महेऊ ववसाओ होइ पुरिसगारोत्ति । बहुकम्मणिमितो पुण अज्झवसाओ उ दइवात्ति ।। ३५१ ।। अथवेति पक्षान्तरद्योतनार्थः । अल्पं तुच्छं कर्म दैवं पुरुषकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः पुरुषप्रयन्नो भवति पुरुषकार इति । बहु प्रभूतं पुरुषकारमाश्रित्य कर्म निमित्तं यत्र स पुनरध्यवसाय इनञोऽल्पार्थत्वादल्पो व्यवसायः पुनर्देवमिति । यत्र हि कार्यसिद्धावल्पः कर्मणी भावो बहुच पुरुषप्रयासस्तत्कार्यं ।।४१७॥

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438