Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 424
________________ सिद्धान्त श्रीउपदेशपदे कथना ४१६। तादृशक विवक्षितभविष्यदध्यवसायसदृशमेव सत् । अथेति परिप्रश्नार्थः । तत्कर्म शुभानुबन्ध्यध्यात्मकारीति । उपलक्षणमिदं, ततः शुभानुबंधिनोऽशुभानुबंधिनश्चाध्यात्मस्य मनः-परिणामस्य कारणं वर्तत इति । आचार्य:-पुरुषस्येदृशत्वे तथाविधचित्रस्वभावत्वे सति तदुपक्रमणे तस्य कर्मण उपक्रमणं परिकर्म मूलनाशो वा तत्र साध्ये को दोषः सम्पद्यत इति । यथा हि कर्मवादिनः कर्मैव कार्यकारि, पुरुषकारस्तु तदाक्षिप्तत्वाद् न किञ्चिदेव, तथा यदि पुरुषकारवादी ब्रूयाद् एष एव तादृश स्वभावत्वात्कर्मोपक्रमशुभमशुभं वा फलमुपनेष्यतीति न कर्मणा किञ्चित्साध्यमस्तीति तदा को निषेधायकस्तस्य स्यादिति ॥३४७।। पुनरप्याशंक्य परिहरति; एत्थ परंपरयाए कम्मपि हु तारिसंति वत्तव्वं । एवं परिसं चिय एरिसन्तमणिवारियप्पसरं ।।३४८॥ ____ अत्र केवलकर्मवादिमते परंपरयाऽनादिसन्तानरूपया 'कम्मं पि ह'त्ति कर्मैव तादृश्यमुत्पस्यमानकर्मसदृशमिति वक्तव्यां कर्मवादिना । नहि परंपराकारणानामपि कालव्यवधानेन भविष्यत्कार्येष्वनुकुलतामन्तरेण कदाचित् कार्योत्पत्ति संभावयंति संत इति एवं कर्मणीव पुरुषेऽपि पुरुषकारेऽपि परंपरया ईदृशत्वमुत्पत्स्यमानफलसदृशत्वं पुरुषकारवादिना स्थाप्यमानमनिवारितप्रसरं, न्यायस्याभयत्रापि समानत्वात् । तत: पुरुषकारादेव समीहित सिद्धिर्भविष्यति, किं कर्मणा कार्यमिति ॥३४८।। इत्थं देवपुरुषकारयोः प्रत्येकपक्षदोषमभिधाय सिद्धान्तमाह; .

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438