Book Title: Updeshpad Mahagranth Satik Part 01
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
नच नवैवं योग्यस्याप्ययोग्यतया लोकनीतिः शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो योग्यमिदमिति PAK शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाबलादिजनाविप्रतिपत्त्या स्थितोऽत्र दारुणि ।।३४५।।
एवं योग्यं दाव प्रतिमामाक्षिपतीति निरस्तं प्रस्तुते योजयन्नाह;||४१५॥
एवं जइ कम्मं चिय चित्तं अक्खिवइ पुरिसगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण ॥३४६।।
एवं परोपन्यस्ताऽप्रतिमामिव यदि चेत् कर्मैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति गलगृहीततथाविधकिंकरवत् पुरुषकारमुक्तरूपं पुनः। तदा नो दानादिषु परलोकफलेषु क्रियाविषेशेषु शुभाशुभ
रूपेषु पुण्यादिभेदः पुण्यपापनानात्वं स्यात् । मो पुर्ववत् । अध्यात्मभेदतोऽध्यवसायभेदात् । यदि हि देवायत्त एव पुरुषO कारः क्रियासु शुभाशुभरूपासु व्याप्रियते प्रकृतिरेव करोतीति सांख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु
शुभाशुभरूपकर्ममात्रहेतुकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षापकर्षकृतो भेदः सर्वास्तिकसम्मतः स कथं संगच्छते इति । तथाच पठ्यते -"अभिसन्धिः फल भिन्नमनुष्ठाने समेपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥१॥" इति ॥३४६।। ___पुनरपि परमतमाशंक्य परिहर ति;तारिसयं चिय अह तं सुहाणुबंधि अज्झप्पकारित्ति । पुरिसस्स एरिसत्ते तदुवक्कमणम्मि को दोसा ।।३४७।।
॥४१५॥

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438